🪷 अयोध्याकाण्ड · Sarga 112

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 112 · 31 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 2.112.1
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ॥२-११२-१॥
Vālmīki 2.112.2
अन्तर्हितास्त्वृषिगणा: सिद्धाश्च परमर्षय: ।तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥२-११२-२॥
Vālmīki 2.112.3
स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।श्रुत्वा वयं हि सम्भाषामुभयो: स्पृहयामहे ॥२-११२-३॥
Vālmīki 2.112.4
ततस्त्वृषिगणा: क्षिप्रं दशग्रीववधैषिण: ।भरतं राजशार्दूलमित्यूचु: सङ्गता वच: ॥२-११२-४॥
Vālmīki 2.112.5
कुले जात महाप्राज्ञ महावृत्त महायश: ।ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥२-११२-५॥
Vālmīki 2.112.6
सदानृणमिमं रामं वयमिच्छामहे पितु: ।अनृणत्वाच्च कैकेय्या: स्वर्गं दशरथो गत: ॥२-११२-६॥
Vālmīki 2.112.7
एतावदुक्त्वा वचनं गन्धर्वा: समहर्षय: ।राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गता: ॥२-११२-७॥
Vālmīki 2.112.8
ह्लादितस्तेन वाक्येन शुभेन शुभदर्शन: ।राम: संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥२-११२-८॥
Vālmīki 2.112.9
स्रस्तगात्रस्तु भरत: स वाचा सज्जमानया ।कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥२-११२-९॥
Vālmīki 2.112.10
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥२-११२-१०॥
Vālmīki 2.112.11
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥२-११२-११॥
Vālmīki 2.112.12
ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च न: ।त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षका: ॥२-११२-१२॥
Vālmīki 2.112.13
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥२-११२-१३॥
Vālmīki 2.112.14
इत्युक्त्वा न्यपतद् भ्रातु: पादयोर्भरतस्तदा ।भृशं सम्प्रार्थयामास राममेव प्रियंवद: ॥२-११२-१४॥
Vālmīki 2.112.15
तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् ।श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥२-११२-१५॥
Vālmīki 2.112.16
आगता त्वामियं बुद्धि: स्वजा वैनयिकी च या ।भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥२-११२-१६॥
Vālmīki 2.112.17
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभि: ।सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥२-११२-१७॥
Vālmīki 2.112.18
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् ।अतीयात् सागरो वेलां न प्रतिज्ञामहं पितु: ॥२-११२-१८॥
Vālmīki 2.112.19
कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् ।न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ॥२-११२-१९॥
Vālmīki 2.112.20
एवं ब्रुवाणं भरत: कौसल्यासुतमब्रवीत् ।तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥२-११२-२०॥
Vālmīki 2.112.21
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।एते हि सर्वलोकस्य योगक्षेमं विधास्यत: ॥२-११२-२१॥
Vālmīki 2.112.22
सो ऽधिरुह्य नरव्याघ्र: पादुके ह्यवरुह्य च ।प्रायच्छत् सुमहातेजा भरताय महात्मने ॥२-११२-२२॥
Vālmīki 2.112.23
स पादुके सम्प्रणम्य रामं वचनमब्रवीत् ।चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥२-११२-२३॥
Vālmīki 2.112.24
फलमूलाशनो वीर भवेयं रघुनन्दन ।तवागमनमाकांक्षन् वसन् वै नगराद्बहि: ॥२-११२-२४॥
Vālmīki 2.112.25
तव पादुकयोर्न्यस्तराज्यतन्त्र: परन्तप ।चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम ।न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥२-११२-२५॥
Vālmīki 2.112.26
तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ।शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥२-११२-२६॥
Vālmīki 2.112.27
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ।मया च सीतया चैव शप्तो ऽसि रघुसत्तम ॥२-११२-२७॥
Vālmīki 2.112.28
इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ऺह ॥२-११२-२८॥
Vālmīki 2.112.29
स पादुके ते भरत: प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् ।प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ॥२-११२-२९॥
Vālmīki 2.112.30
अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ ।व्यसर्जयद्राघववंशवर्द्धन: स्थिर: स्वधर्मे हिमवानिवाचल: ॥२-११२-३०॥
Vālmīki 2.112.31
तं मातरो बाष्पगृहीतकण्ठ्यो दु:खेन नामन्त्रयितुं हि शेकु: ।स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश राम: ॥२-११२-३१॥

Navigation

Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷