🪷 अयोध्याकाण्ड · Sarga 113

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 113 · 25 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 2.113.1
तत: शिरसि कृत्वा तु पादुके भरतस्तदा ।आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ॥२-११३-१॥
Vālmīki 2.113.2
वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रत: ।अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ॥२-११३-२॥
Vālmīki 2.113.3
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥२-११३-३॥
Vālmīki 2.113.4
पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥२-११३-४॥
Vālmīki 2.113.5
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ॥२-११३-५॥
Vālmīki 2.113.6
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥२-११३-६॥
Vālmīki 2.113.7
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।अपि कृत्यं कृतं तात रामेण च समागतम् ॥२-११३-७॥
Vālmīki 2.113.8
एवमुक्त: स तु ततो भरद्वाजेन धीमता ।प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ॥२-११३-८॥
Vālmīki 2.113.9
स याच्यमानो गुरुणा मया च दृढविक्रम: ।राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥२-११३-९॥
Vālmīki 2.113.10
पितु: प्रतिज्ञां तामेव पालयिष्यामि तत्त्वत: ।चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥२-११३-१०॥
Vālmīki 2.113.11
एवमुक्तो महाप्राज्ञो वसिष्ठ: प्रत्युवाच ह ।वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥२-११३-११॥
Vālmīki 2.113.12
एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते ।अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥२-११३-१२॥
Vālmīki 2.113.13
एवमुक्तो वसिष्ठेन राघव: प्राङ्मुख: स्थित: ।पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥२-११३-१३॥
Vālmīki 2.113.14
निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना ।अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥२-११३-१४॥
Vālmīki 2.113.15
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: ।भरद्वाज: शुभतरं मुनिर्वाक्यमुवाच तम् ॥२-११३-१५॥
Vālmīki 2.113.16
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥२-११३-१६॥
Vālmīki 2.113.17
अमृत: स महाबाहु: पिता दशरथस्तव ।यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सल: ॥२-११३-१७॥
Vālmīki 2.113.18
तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलि: ।आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥२-११३-१८॥
Vālmīki 2.113.19
तत: प्रदक्षिणं कृत्वा भरद्वाजं पुन:पुन: ।भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभि: ॥२-११३-१९॥
Vālmīki 2.113.20
यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: ।पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥२-११३-२०॥
Vālmīki 2.113.21
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ॥२-११३-२१॥
Vālmīki 2.113.22
तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: ।शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ॥२-११३-२२॥
Vālmīki 2.113.23
शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥२-११३-२३॥
Vālmīki 2.113.24
अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ॥२-११३-२४॥
Vālmīki 2.113.25
सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते ।निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥२-११३-२५॥

Navigation

Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷