🪷 अयोध्याकाण्ड · Sarga 114

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 114 · 31 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 2.114.1
स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: ।अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ॥२-११४-१॥
Vālmīki 2.114.2
बिडालोलूकचरितामालीननरवारणाम् ।तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥२-११४-२॥
Vālmīki 2.114.3
राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥२-११४-३॥
Vālmīki 2.114.4
अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् ।लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥२-११४-४॥
Vālmīki 2.114.5
विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् ।हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥२-११४-५॥
Vālmīki 2.114.6
विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् ।हतप्रवीरामापन्नां चमूमिव महाहवे ॥२-११४-६॥
Vālmīki 2.114.7
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥२-११४-७॥
Vālmīki 2.114.8
त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: ।सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥२-११४-८॥
Vālmīki 2.114.9
गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् ।गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥२-११४-९॥
Vālmīki 2.114.10
प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: ।वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥२-११४-१०॥
Vālmīki 2.114.11
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥२-११४-११॥
Vālmīki 2.114.12
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥२-११४-१२॥
Vālmīki 2.114.13
सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥२-११४-१३॥
Vālmīki 2.114.14
क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् ।हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥२-११४-१४॥
Vālmīki 2.114.15
वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् ।उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥२-११४-१५॥
Vālmīki 2.114.16
विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥२-११४-१६॥
Vālmīki 2.114.17
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥२-११४-१७॥
Vālmīki 2.114.18
शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् ।प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥२-११४-१८॥
Vālmīki 2.114.19
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥२-११४-१९॥
Vālmīki 2.114.20
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥२-११४-२०॥
Vālmīki 2.114.21
भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: ।वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥२-११४-२१॥
Vālmīki 2.114.22
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ।यथापुरमयोध्यायां गीतवादित्रनिस्वन: ॥२-११४-२२॥
Vālmīki 2.114.23
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: ।धूपितागरुगन्धश्च न प्रवाति समन्तत: ॥२-११४-२३॥
Vālmīki 2.114.24
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: ।प्रमत्तगजनादश्च महांश्च रथनिस्वन: ।नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥२-११४-२४॥
Vālmīki 2.114.25
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: ।गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ॥२-११४-२५॥
Vālmīki 2.114.26
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: ।नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ॥२-११४-२६॥
Vālmīki 2.114.27
सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥२-११४-२७॥
Vālmīki 2.114.28
कदा नु खलु मे भ्राता महोत्सव इवागत: ।जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ॥२-११४-२८॥
Vālmīki 2.114.29
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: ।सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ॥२-११४-२९॥
Vālmīki 2.114.30
एवं बहुविधं जल्पन् विवेश वसतिं पितु: ।तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥२-११४-३०॥
Vālmīki 2.114.31
तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ॥२-११४-३१॥

Navigation

Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷