🪷 अयोध्याकाण्ड · Sarga 115
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 115 · 27 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततो निक्षिप्य मातऽ: स अयोध्यायां दृढव्रत: ।भरत: शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥ २.११५.१॥
नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: ।तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ॥ २.११५.२॥
गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम ।रामं प्रतीक्षे राज्याय स हि राजा महायशा: ॥ २.११५.३॥
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: ।अब्रुवन् मन्त्रिण: सर्वे वसिष्ठश्च पुरोहित: ॥ २.११५.४॥
सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया ।वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ २.११५.५॥
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।आर्यमार्गं प्रपन्नस्य नानुमन्येत क: पुमान् ॥ २.११५.६॥
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् ।अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ २.११५.७॥
प्रहृष्टवदन: सर्वा मातऽ: समभिवाद्य स: ।आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वित: ॥ २.११५.८॥
आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ।ययतु: परमप्रीतौ वृतौ मन्त्रिपुरोहितै: ॥ २.११५.९॥
अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजा: ।प्रययु: प्राङ्मुखा: सर्वे नन्दिग्रामो यतो ऽभवत् ॥ २.११५.१०॥
बलं च तदनाहूतं गजाश्वरथसङ्कुलम् ।प्रययौ भरते याते सर्वे च पुरवासिन: ॥ २.११५.११॥
रथस्थ: स हि धर्मात्मा भरतो भ्रातृवत्सल: ।नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥ २.११५.१२॥
ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: ।अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ॥ २.११५.१३॥
एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् ।योगक्षेमवहे चेमे पादुके हेमभूषिते ॥ २.११५.१४॥
भरत: शिरसा कृत्वा संन्यासं पादुके तत: ।अब्रवीद्दु:खसन्तप्त: सर्वं प्रकृतिमण्डलम् ॥ २.११५.१५॥
छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ ।आभ्यां राज्ये स्थितो धर्म: पादुकाभ्यां गुरोर्मम ॥ २.११५.१६॥
भ्रात्रा हि मयि संन्यासो निक्षिप्त: सौहृदादयम् ।तमिमं पालयिष्यामि राघवागमनं प्रति ॥ २.११५.१७॥
क्षिप्रं संयोजयित्वा तु राघवस्य पुन: स्वयम् ।चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ २.११५.१८॥
ततो निक्षिप्तभारो ऽहं राघवेण समागत: ।निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ २.११५.१९॥
राघवाय च संन्यासं दत्त्वे मे वरपादुके ।राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ २.११५.२०॥
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने ।प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ २.११५.२१॥
एवं तु विलपन् दीनो भरत: स महायशा: ।नन्दिग्रामे ऽकरोद्राज्यं दु:खितो मन्त्रिभि: सह ॥ २.११५.२२॥
स वल्कलजटाधारी मुनिवेषधर: प्रभु: ।नन्दिग्रामे ऽवसद्वीर: ससैन्यो भरतस्तदा ॥ २.११५.२३॥
रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सल: ।भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥ २.११५.२४॥
पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा ।भरत: शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ २.११५.२५॥
ततस्तु भरत: श्रीमानभिषिच्यार्य्यपादुके ।तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ २.११५.२६॥
तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् ।स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ॥ २.११५.२७ ॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 114
- Next: Ayodhyā-Kāṇḍa Sarga 116 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷