🪷 अयोध्याकाण्ड · Sarga 116
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 116 · 26 ślokas
🪷 Devanāgarī Ślokas
प्रतिप्रयाते भरते वसन् रामस्तपोवने ।लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥२-११६-१॥
ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥२-११६-२॥
नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: ।अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ॥२-११६-३॥
तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: ।कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत: ॥२-११६-४॥
न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि ।दृश्यते विकृतं येन विक्रियन्ते तपस्विन: ॥२-११६-५॥
प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन: ॥२-११६-६॥
कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि ।प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥२-११६-७॥
अथर्षिर्जरया वृद्धस्तपसा च जरां गत: ।वेपमान इवोवाच रामं भूतदयापरम् ॥२-११६-८॥
कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा ।चलनं तात वैदेह्यास्तपस्विषु विशेषत: ॥२-११६-९॥
त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा: ॥२-११६-१०॥
रावणावरज: कश्चित् खरो नामेह राक्षस: ।उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥२-११६-११॥
धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: ।अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥२-११६-१२॥
त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥२-११६-१३॥
दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि ।नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै: ॥२-११६-१४॥
अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् ।प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता: ॥२-११६-१५॥
तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस: ॥२-११६-१६॥
अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥२-११६-१७॥
तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: ।गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ॥२-११६-१८॥
तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥२-११६-१९॥
बहुमूलफलं चित्रमविदूरादितो वनम् ।पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन: ॥२-११६-२०॥
खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते ।सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते ॥२-११६-२१॥
सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव ।समर्थस्यापि वसतो वासो दु:खमिहाद्य ते ॥२-११६-२२॥
इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक: ॥२-११६-२३॥
अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ॥२-११६-२४॥
राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥२-११६-२५॥
आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: ।राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ॥२-११६-२६॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 115
- Next: Ayodhyā-Kāṇḍa Sarga 117 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷