🪷 अयोध्याकाण्ड · Sarga 117
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 117 · 27 ślokas
🪷 Devanāgarī Ślokas
राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥२-११७-१॥
इह मे भरतो दृष्टो मातरश्च सनागरा: ।सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ॥२-११७-२॥
स्कन्धावारनिवेशेन तेन तस्य महात्मन: ।हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ॥२-११७-३॥
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: ।प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत: ॥२-११७-४॥
सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: ।तं चापि भगवानत्रि: पुत्रवत् प्रत्यपद्यत ॥२-११७-५॥
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥२-११७-६॥
पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत: ॥२-११७-७॥
अनसूयां महाभागां तापसीं धर्मचारिणीम् ।प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: ।रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥२-११७-८॥
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ॥२-११७-९॥
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।दशवर्षसहस्राणि यया तप्तं महत्तप: ॥२-११७-१०॥
अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: ।देवकार्यनिमित्तं च यया संत्वरमाणया ।दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ ॥२-११७-११॥
तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् ।अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।अनसूयेति या लोके कर्मभि: ख्यातिमागता ॥२-११७-१२॥
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: ।सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥२-११७-१३॥
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम् ॥२-११७-१४॥
सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: ।तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥२-११७-१५॥
शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् ।सततं वेपमानाङ्गी प्रवाते कदली यथा ॥२-११७-१६॥
तां तु सीता महाभागामनसूयां पतिव्रताम् ।अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥२-११७-१७॥
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥२-११७-१८॥
तत: सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥२-११७-१९॥
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥२-११७-२०॥
नगरस्थो वनस्थो वा पापो वा यदि वा शुभ: ।यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया: ॥२-११७-२१॥
दु:शील: कामवृत्तो वा धनैवा परिवर्जित: ।स्त्रीणामार्यस्वभावानां परमं दैवतं पति: ॥२-११७-२२॥
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।सर्वत्रयोग्यं वैदेहि तप:कृतमिवाव्ययम् ॥२-११७-२३॥
न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रिय: ।कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति या: ॥२-११७-२४॥
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।अकार्यवशमापन्ना: स्त्रियो या: खलु तद्विधा: ॥२-११७-२५॥
त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावरा: ।स्त्रिय: स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥२-११७-२६॥
तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।भवस्व भर्त्तु: सहधर्मचारिणी यशश्च धर्मं च तत: समाप्स्यसि ॥२-११७-२७॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 116
- Next: Ayodhyā-Kāṇḍa Sarga 118 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷