🪷 अयोध्याकाण्ड · Sarga 118
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 118 · 54 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 2.118local sarga route with all Sanskrit ślokasAyodhyā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया ।प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ २.११८.१॥
नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे ।विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ॥ २.११८.२॥
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: ।अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ २.११८.३॥
किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: ।स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ॥ २.११८.४॥
यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: ।तामेव नृपनारीणामन्यासामपि वर्त्तते ॥ २.११८.५॥
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: ।मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ २.११८.६॥
आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ २.११८.७॥
पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ॥ २.११८.८॥
नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ २.११८.९॥
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ २.११८.१०॥
वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ २.११८.११॥
एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: ।देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ २.११८.१२॥
ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: ।शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ २.११८.१३॥
नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ २.११८.१४॥
उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ २.११८.१५॥
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया ।कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ २.११८.१६॥
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् ।सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ २.११८.१७॥
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ २.११८.१८॥
मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ २.११८.१९॥
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ २.११८.२०॥
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २.११८.२१॥
प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ २.११८.२२॥
तथा सीतासुपासीनामनसूया दृढव्रता ।वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ २.११८.२३॥
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २.११८.२४॥
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २.११८.२५॥
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २.११८.२६॥
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।क्षत्ऺत्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ॥ २.११८.२७॥
तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् ।अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ॥ २.११८.२८॥
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: ।पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ॥ २.११८.२९॥
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ॥ २.११८.३०॥
अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल ।एवमेतन्नरपते धर्मेण तनया तव ॥ २.११८.३१॥
तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: ।अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ॥ २.११८.३२॥
दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ २.११८.३३॥
पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ॥ २.११८.३४॥
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ २.११८.३५॥
तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: ।चिन्तार्णवगत: पारं नाससादाप्लवो यथा ॥ २.११८.३६॥
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।सदृशं चानुरूपं च महीपाल: पतिं मम ॥ २.११८.३७॥
तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।स्वयं वरं तनूजाया: करिष्यामीति धीमत: ॥ २.११८.३८॥
महायज्ञे तदा तस्य वरुणेन महात्मना ।दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ २.११८.३९॥
असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ॥ २.११८.४०॥
तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ २.११८.४१॥
इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: ।तस्य मे दुहिता भार्या भविष्यति न संशय: ॥ २.११८.४२॥
तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् ।अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ २.११८.४३॥
सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: ।विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: ।लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ॥ २.११८.४४॥
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: ।प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ २.११८.४५॥
सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ ।धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ २.११८.४६॥
इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् ।निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ २.११८.४७॥
ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ २.११८.४८॥
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: ।तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ॥ २.११८.४९॥
ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ २.११८.५०॥
दीयमानां न तु तदा प्रतिजग्राह राघव: ।अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ॥ २.११८.५१॥
तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ २.११८.५२॥
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ २.११८.५३॥
एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे ।अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ २.११८.५४ ॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 117
- Next: Ayodhyā-Kāṇḍa Sarga 119 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷