🪷 अयोध्याकाण्ड · Sarga 119

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 119 · 21 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 2.119.1
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥२-११९-१॥
Vālmīki 2.119.2
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ॥२-११९-२॥
Vālmīki 2.119.3
रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् ।दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् ।सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ॥२-११९-३॥
Vālmīki 2.119.4
एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: ।सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ॥२-११९-४॥
Vālmīki 2.119.5
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ॥२-११९-५॥
Vālmīki 2.119.6
अल्पपर्णाहि तरवो घनीभूता: समन्तत: ।विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ॥२-११९-६॥
Vālmīki 2.119.7
रजनीचरसत्त्वानि प्रचरन्ति समन्तत: ।तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥२-११९-७॥
Vālmīki 2.119.8
सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ।जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ॥२-११९-८॥
Vālmīki 2.119.9
गम्यतामनुजानामि रामस्यानुचरी भव ।कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥२-११९-९॥
Vālmīki 2.119.10
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥२-११९-१०॥
Vālmīki 2.119.11
सा तथा समलंकृत्य सीता सुरसुतोपमा ।प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥२-११९-११॥
Vālmīki 2.119.12
तथा तु भूषितां सीतां ददर्श वदतां वर: ।राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ॥२-११९-१२॥
Vālmīki 2.119.13
न्यवेदयत्तत: सर्वं सीता रामाय मैथिली ।प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥२-११९-१३॥
Vālmīki 2.119.14
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: ।मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥२-११९-१४॥
Vālmīki 2.119.15
ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: ।अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ॥२-११९-१५॥
Vālmīki 2.119.16
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥२-११९-१६॥
Vālmīki 2.119.17
तावूचुस्ते वनचरास्तापसा धर्मचारिण: ।वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ॥२-११९-१७॥
Vālmīki 2.119.18
रक्षांसि पुरुषादानि नानारूपाणि राघव ।वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ॥२-११९-१८॥
Vālmīki 2.119.19
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ॥२-११९-१९॥
Vālmīki 2.119.20
एष पन्था महर्षीणां फलान्याहरतां वने ।अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥२-११९-२०॥
Vālmīki 2.119.21
इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: ।वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ॥२-११९-२१॥

Navigation

Continue with Ayodhyā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷