🪷 अरण्यकाण्ड · Sarga 1

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 1 · 23 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.1local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.1.1
प्रविश्य तु महारण्यम् दण्डकारण्यम् आत्मवान् ।रामो ददर्श दुर्धर्ष तापस आश्रम मण्डलम् ॥३-१-१॥
Vālmīki 3.1.2
कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ।यथा प्रदीप्तम् दुर्दर्शम् गगने सूर्य मण्डलम् ॥३-१-२॥
Vālmīki 3.1.3
शरण्यम् सर्व भूतानाम् सु संमृष्ट अजिरम् सदा ।मृगैः बहुभिः आकीर्णम् पक्षि सन्घैः समावृतम् ॥३-१-३॥
Vālmīki 3.1.4
पूजितम् च उपनृत्तम् च नित्यम् अप्सरसाम् गणैः ।विशालैः अग्नि शरणैः स्रुक् भाण्डैः अजिनैः कुशैः ॥३-१-४॥
Vālmīki 3.1.5
समिद्भिः तोय कलशैः फल मूलैः च शोभितम् ।आरण्यैः च महा वृक्षैः पुण्यैः स्वादु फलैर् वृतम् ॥३-१-५॥
Vālmīki 3.1.6
बलि होम अर्चितम् पुण्यम् ब्रह्म घोष निनादितम् ।पुष्पैः च अन्यैः परिक्षिप्तम् पद्मिन्या च स पद्मया ॥३-१-६॥
Vālmīki 3.1.7
फलमूल अशनैः दान्तैः चीर कृष्णाजिन अम्बरैः ।सूर्य वैश्वानर आभैः च पुराणैः मुनिभिर् युतम् ॥३-१-७॥
Vālmīki 3.1.8
पुण्यैः च नियत आहारैः शोभितम् परम ऋषिभिः ।तत् ब्रह्म भवन प्रख्यम् ब्रह्म घोष निनादितम् ॥३-१-८॥
Vālmīki 3.1.9
ब्रह्म विद्भिः महा भागैः ब्राह्मणैः उपशोभितम् ।तत् दृष्ट्वा राघवः श्रीमान् तापस आश्रम मण्डलम् ॥३-१-९॥
Vālmīki 3.1.10
अभ्यगच्छत् महातेजा विज्यम् कृत्वा महद् धनुः ।दिव्य ज्ञान उपपन्नाः ते रामम् दृष्ट्वा महर्षयः ॥३-१-१०॥
Vālmīki 3.1.11
अभिजग्मुः तदा प्रीता वैदेहीम् च यशस्विनीम् ।ते तु सोमम् इव उद्यन्तम् दृष्ट्वा वै धर्मचारिणम् ॥३-१-११॥
Vālmīki 3.1.12
लक्ष्मणम् च एव दृष्ट्वा तु वैदेहीम् च यशश्विनीम् ।मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णान् दृढ व्रताः ॥३-१-१२॥
Vālmīki 3.1.13
रूप संहननम् लक्ष्मीम् सौकुमार्यम् सुवेषताम् ।ददृशुर् विस्मित आकारा रामस्य वन वासिनः ॥३-१-१३॥
Vālmīki 3.1.14
वैदेहीम् लक्ष्मणम् रामम् नेत्रैर् अनिमिषैर् इव ।आश्चर्य भूतान् ददृशुः सर्वे ते वन वासिनः ॥३-१-१४॥
Vālmīki 3.1.15
अत्र एनम् हि महाभागाः सर्व भूत हिते रताः ।अतिथिम् पर्णशालायाम् राघवम् संन्यवेशयन् ॥३-१-१५॥
Vālmīki 3.1.16
ततो रामस्य सत्कृत्य विधिना पावक उपमाः ।आजह्रुः ते महाभागाः सलिलम् धर्मचारिणः ॥३-१-१६॥
Vālmīki 3.1.17
मंगलानि प्रयुञ्जाना मुदा परमया युता ।मूलम् पुष्पम् फलम् सर्वम् आश्रमम् च महात्मनः ॥३-१-१७॥
Vālmīki 3.1.18
निवेदयीत्वा धर्मज्ञाः ते तु प्रांजलयोऽब्रुवन् ।धर्मपालो जनस्य अस्य शरण्यः च महायशाः ॥३-१-१८॥
Vālmīki 3.1.19
पूजनीयः च मान्यः च राजा दण्डधरो गुरुः ।इन्द्रस्य एव चतुर्भागः प्रजा रक्षति राघव ॥३-१-१९॥
Vālmīki 3.1.20
राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः ।ते वयम् भवता रक्ष्या भवद् विषय वासिनः ।नगरस्थो वनस्थो वा त्वम् नः राजा जनेश्वरः ॥३-१-२०॥
Vālmīki 3.1.21
न्यस्त दण्डा वयम् राजन् जित क्रोधा जितेन्द्रियाः ।रक्षणीयाः त्वया शश्वद् गर्भ भूताः तपोधनाः ॥३-१-२१॥
Vālmīki 3.1.22
एवम् उक्त्वा फलैर् मूलैः पुष्पैर् अन्यैः च राघवम् ।वन्यैः च विविध आहारैः स लक्ष्मणम् अपूजयन् ॥३-१-२२॥
Vālmīki 3.1.23
तथाऽन्ये तापसाः सिद्धा रामम् वैश्वानर उपमाः ।न्याय वृत्ता यथा न्यायम् तर्पयामासुर् ईश्वरम् ॥३-१-२३॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷