🪷 अरण्यकाण्ड · Sarga 2

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 2 · 26 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.2local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.2.1
कृत आतिथ्योऽथ रामस्तु सूर्यस्य उदयनम् प्रति ।आमंत्र्य स मुनीम् तत् सर्वान् वनम् एव अन्वगाहत ॥३-२-१॥
Vālmīki 3.2.2
नाना मृग गण आकीर्णम् ऋक्ष शार्दूल सेवितम् ।ध्वस्त वृक्ष लता गुल्मम् दुर्दर्श सलिलाशयम् ॥३-२-२॥
Vālmīki 3.2.3
निष्कूजमाना शकुनि झिल्लिका गण नादितम् ।लक्ष्मण अनुचरोओ रामो वन मध्यम् ददर्श ह ॥३-२-३॥
Vālmīki 3.2.4
सीताया सह काकुत्स्थः तस्मिन् घोर मृग आयुते ।ददर्श गिरि शृङ्ग आभम् पुरुषादम् महास्वनम् ॥३-२-४॥
Vālmīki 3.2.5
गम्भीर अक्षम् महावक्त्रम् विकटम् विकटोदरम् ।बीभत्सम् विषमम् दीर्घम् विकृतम् घोर दर्शनम् ॥३-२-५॥
Vālmīki 3.2.6
वसानम् चर्म वैयाघ्रम् वस आर्द्रम् रुधिरोक्षितम् ।त्रासनम् सर्व भूतानाम् व्यादितास्यम् इव अन्तकम् ॥३-२-६॥
Vālmīki 3.2.7
त्रीन् सिंहान् चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश ।सविषाणम् वसादिग्धम् गजस्य च शिरो महत् ॥३-२-७॥
Vālmīki 3.2.8
अवसज्य आअयसे शूले विनदन्तम् महास्वनम् ।स रामम् लक्ष्मणम् चैव सीताम् दृष्ट्वा च मैथिलीम् ॥३-२-८॥
Vālmīki 3.2.9
अभ्य धावत् सुसंक्रुद्धो प्रजाः काल इव अन्तकः ।स कृत्वा भैरवम् नादम् चालयन् इव मेदिनीम् ॥३-२-९॥
Vālmīki 3.2.10
अङ्केन आदाय वैदेहीम् अपक्रम्य तदा अब्रवीत् ।युवाम् जटा चीर धरौ सभार्यौ क्षीण जीवितौ ॥३-२-१०॥
Vālmīki 3.2.11
प्रविष्टौ दण्डकारण्यम् शर चाप असि पाणिनौ ।कथम् तापसयोः युवाम् च वासः प्रमदया सह ॥३-२-११॥
Vālmīki 3.2.12
अधर्म चारिणौ पापौ कौ युवाम् मुनि दूषकौ ।अहम् वनम् इदम् दुर्गम् विराघो नाम राक्षसः ॥३-२-१२॥
Vālmīki 3.2.13
चरामि सायुधो नित्यम् ऋषि मांसानि भक्षयन् ।इयम् नारी वरारोहा मम भार्या भविष्यति ॥३-२-१३॥
Vālmīki 3.2.14
युवयोः पापयोः च अहम् पास्यामि रुधिरम् मृधे ।तस्य एवम् ब्रुवतो दुष्टम् विराधस्य दुरात्मनः ॥३-२-१४॥
Vālmīki 3.2.15
श्रुत्वा सगर्वितम् वाक्यम् संभ्रान्ता जनकात्मजा ।सीता प्रावेपिता उद्वेगात् प्रवाते कदली यथा ॥३-२-१५॥
Vālmīki 3.2.16
ताम् दृष्ट्वा राघवः सीताम् विराध अङ्कगताम् शुभाम् ।अब्रवीत् लक्ष्मणम् वाक्यम् मुखेन परिशुष्यता ॥३-२-१६॥
Vālmīki 3.2.17
पश्य सौम्य नरेन्द्रस्य जनकस्य अत्म संभवाम् ।मम भार्याम् शुभाचाराम् विराधाङ्के प्रवेशिताम् ॥३-२-१७॥
Vālmīki 3.2.18
अत्यन्त सुख संवृद्धाम् राजपुत्रीम् यशस्विनीम् ।यत् अभिप्रेतम् अस्मासु प्रियम् वर वृतम् च यत् ॥३-२-१८॥
Vālmīki 3.2.19
कैकेय्यास्तु सुसंवृत्तम् क्षिप्रम् अद्य एव लक्ष्मण ।या न तुष्यति राज्येन पुत्रार्थे दीर्घ दर्शिनी ॥३-२-१९॥
Vālmīki 3.2.20
ययाऽहम् सर्वभूतानाम् प्रियः प्रस्थापितो वनम् ।अद्य इदानीम् सकामा सा या माता मम मध्यमा ॥३-२-२०॥
Vālmīki 3.2.21
पर स्पर्शात् तु वैदेह्या न दुःखतरम् अस्ति मे ।पितुर् विनाशात् सौमित्रे स्व राज्य हरणात् तथा ॥३-२-२१॥
Vālmīki 3.2.22
इति ब्रुवति काकुत्स्थे बाष्प शोक परिप्लुतः ।अब्रवीत् लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥३-२-२२॥
Vālmīki 3.2.23
अनाथ इव भूतानाम् नाथः त्वम् वासवोपमः ।मया प्रेष्येण काकुत्स्थः किम् अर्थम् परितप्यसे ॥३-२-२३॥
Vālmīki 3.2.24
शरेण निहतस्य अद्य मया क्रुद्धेन रक्षसः ।विराधस्य गत असोः हि मही पास्यति शोणितम् ॥३-२-२४॥
Vālmīki 3.2.25
राज्य कामे मम क्रोधो भरते यो बभूव ह ।तम् विराधे विमोक्ष्यामि वज्री वज्रम् इव अचले ॥३-२-२५॥
Vālmīki 3.2.26
मम भुज बल वेग वेगितःपततु शरोऽस्य महान् महोरसि ।व्यपनयतु तनोः च जीवितम्पततु ततः च महीम् विघूर्णितः ॥३-२-२६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷