🪷 अरण्यकाण्ड · Sarga 3

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 3 · 26 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.3local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.3.1
अथ उवाच पुनर् वाक्यम् विराधः पूरयन् वनम् ।पृच्छतो मम हि ब्रूतम् कौ युवाम् क्व गमिष्यथः ॥३-३-१॥
Vālmīki 3.3.2
तम् उवाच ततो रामो राक्षसम् ज्वलित आननम् ।पृच्छन्तम् सुमहातेजा इक्ष्वाकु कुलम् आत्मनः ॥३-३-२॥
Vālmīki 3.3.3
क्षत्रियौ वृत्त संपन्नौ विद्धि नौ वनगोचरौ ।त्वाम् तु वेदितुम् इच्छावः कः त्वम् चरसि दण्डकान् ॥३-३-३॥
Vālmīki 3.3.4
तम् उवाच विराधः तु रामम् सत्य पराक्रमम् ।हन्त वक्ष्यामि ते राजन् निबोध मम राघव ॥३-३-४॥
Vālmīki 3.3.5
पुत्रः किल जवस्य अहम् माता मम शतह्रदा ।विराध इति माम् आहुः पृथिव्याम् सर्व राक्षसाः ॥३-३-५॥
Vālmīki 3.3.6
तपसा च अभि संप्राप्ता ब्रह्मणो हि प्रसादजा ।शस्त्रेण अवध्यता लोके अच्छेद्य अभेद्यत्वम् एव च ॥३-३-६॥
Vālmīki 3.3.7
उत्सृज्य प्रमदाम् एनाम् अनपेक्षौ यथा आगतम् ।त्वरमाणौ पलायेथाम् न वाम् जीवितम् आददे ॥३-३-७॥
Vālmīki 3.3.8
तम् रामः प्रति उवाच इदम् कोप संरक्त लोचनः ।राक्षसम् विकृत आकारम् विराधम् पाप चेतसम् ॥३-३-८॥
Vālmīki 3.3.9
क्षुद्र धिक्त्वाम् तु हीनार्थम् मृत्युम् अन्वेषसे ध्रुवम् ।रणे प्राप्स्यसि संतिष्ठ न मे जीवन् विमोक्ष्यसे ॥३-३-९॥
Vālmīki 3.3.10
ततः सज्यम् धनुः कृत्वा रामः सुनिशितान् शरान् ।सु शीघ्रम् अभिसंधाय राक्षसम् निजघान ह ॥३-३-१०॥
Vālmīki 3.3.11
धनुषा ज्या गुणवता सप्त बाणान् मुमोच ह ।रुक्म पुंखान् महावेगान् सुपर्ण अनिल तुल्य गान् ॥३-३-११॥
Vālmīki 3.3.12
ते शरीरम् विराधस्य भित्त्वा बर्हिण वाससः ।निपेतुः शोणिता दिग्धा धरण्याम् पावकोपमाः ॥३-३-१२॥
Vālmīki 3.3.13
स विद्धो न्यस्य वैदेहीम् शूलम् उद्यम्य राक्षसः ।अभ्यद्रवत् सुसंक्रुद्धः तदा रामम् स लक्ष्मणम् ॥३-३-१३॥
Vālmīki 3.3.14
स विनद्य महानादम् शूलम् शक्र ध्वज उपमम् ।प्रगृह्य अशोभत तदा व्यात्तानन इव अंतकः ॥३-३-१४॥
Vālmīki 3.3.15
अथ तौ भ्रातरौ दीप्तम् शर वर्षम् ववर्षतुः ।विराधे राक्षसे तस्मिन् कालांतक अयम् उपमे ॥३-३-१५॥
Vālmīki 3.3.16
स प्रहस्य महा रौद्रः स्थित्वा अजृम्भत राक्षसः ।जृंभमाणस्य ते बाणाः कायात् निष्पेतुर् अशुगाः ॥३-३-१६॥
Vālmīki 3.3.17
स्पर्शात् तु वर दानेन प्राणान् संरोध्य राक्षसः ।विराधः शूलम् उद्यम्य राघवौ अभ्यधावत ॥३-३-१७॥
Vālmīki 3.3.18
तत् शूलम् वज्र संकाशम् गगने ज्वलन उपमम् ।द्वाभ्याम् शराभ्याम् चिच्छेद रामः शस्त्रभृताम् वरः ॥३-३-१८॥
Vālmīki 3.3.19
तत् राम विशिखैः छिन्नम् शूलम् तस्य आपतत् भुविः ।पपात अशनिना चिन्नम् मेरोर् इव शिला तलम् ॥३-३-१९॥
Vālmīki 3.3.20
तौ खड्गौ क्षिप्रम् उद्यम्य कृष्ण सर्पौ इव उद्यतौ ।तूर्णम् आपेततुः तस्य तदा प्रहारताम् बलात् ॥३-३-२०॥
Vālmīki 3.3.21
स वध्यमान सुभृशम् भुजाभ्याम् परिगृह्य तौ ।अप्रकंप्यौ नरव्याघ्रौ रौद्रः प्रस्थातुम् ऐच्छत ॥३-३-२१॥
Vālmīki 3.3.22
तस्य अभिप्रायम् अज्ञाय रामो लक्ष्मणम् अब्रवीत् ।वहतु अयम् अलम् तावत् पथानेन तु राक्षसः ॥३-३-२२॥
Vālmīki 3.3.23
यथा च इच्छति सोउमित्रे तथा वहतु राक्षसः ।अयम् एव हि नः पन्था येन याति निशाचरः ॥३-३-२३॥
Vālmīki 3.3.24
स तु स्व बल वीर्येण समुत्क्षिप्य निशाचरः ।बालाः इव स्कन्ध गतौ चकार अति बलोद्धतः ॥३-३-२४॥
Vālmīki 3.3.25
तौ आरोप्य ततः स्कन्धम् राघवो रजनी चरः ।विराधो विनदन् घोरम् जगाम अभिमुखो वनम् ॥३-३-२५॥
Vālmīki 3.3.26
वनम् महा मेघ निभम् प्रविष्टोद्रुमैः महद्भिः विविधैः उपेतम् ।नाना विधैः पक्षि कुलैः विचित्रम्शिव आयुतम् व्याल मृगैः विकीर्णम् ॥३-३-२६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷