🪷 अरण्यकाण्ड · Sarga 4
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 4 · 34 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.4local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ ।उच्चैः स्वरेण चुक्रोश प्रगृह्य सु महाभुजौ ॥३-४-१॥
एष दाशरथी रामः सत्यवान् शीलवान् शुचिः ।रक्षसा रौद्र रूपेण ह्रियते सह लक्ष्मणः ॥३-४-२॥
माम् ऋका भक्ष इष्यन्ति शार्दूल द्वीपिनः तथा ।माम् हरः उत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तमः ॥३-४-३॥
तस्याः तत् वचनम् श्रुत्वा वैदेह्याः राम लक्ष्मणौ ।वेगम् प्रचक्रतुर् वीरौ वधे तस्य दुरात्मनः ॥३-४-४॥
तस्य रौद्रस्य सोउमित्रिः सव्यम् बाहुम् बभञ्ज ह ।रामः तु दक्षिणम् बाहुम् तरसा तस्य रक्षसः ॥३-४-५॥
सः भग्न बहुः संविग्नः पपात आशु विमूर्छितः ।धरण्याम् मेघ संकाशो वज्र भिन्न इव अचलः ॥३-४-६॥
मुष्टिभिर् बाहुभिर् पद्भिः सूदयन्तौ तु राक्षसम् ।उद्यम्योद्यम्य च अपि एनम् स्थण्डिले निष्पिपेषतुः ॥३-४-७॥
स विद्धो बहुभिर् बाणैः खड्गाभ्याम् च परिक्षतः ।निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥३-४-८॥
तम् प्रेक्ष्य रामः सुभृशम् अवध्यम् अचल उपमम् ।भयेषु अभय दः श्रीमान् इदम् वचनम् अब्रवीत् ॥३-४-९॥
तपसा पुरुषव्याघ्र राक्षसोऽयम् न शक्यते ।शस्त्रेण युधि निर्जेतुम् राक्षसम् निखनावहे ॥३-४-१०॥
कुंजर्स्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण! ।वने अस्मिन् सुमहद् श्वभ्रम् खन्यताम् रौद्रवर्चसः ॥३-४-११॥
इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति ।तस्थौ विराधम् आक्र्म्य कण्ठे पादेन वीर्यवान् ॥३-४-१२॥
तत् श्रुत्वा राघवेण उक्तम् राक्षसः प्रश्रितम् वचः ।इदम् प्रोवाच काकुत्स्थम् विराधः पुरुषर्षभम् ॥३-४-१३॥
हतोऽहम् पुरुषव्याघ्रः शक्र तुल्य बलेन वै ।मया तु पूर्वम् त्वम् मोहान् न ज्ञातः पुरुषर्षभः ॥३-४-१४॥
कौसल्या सुप्रजातः तात रामः त्वम् विदितो मया ।वैदेही च महाभागा लक्ष्मणः च महायशाः ॥३-४-१५॥
अभि शापाद् अहम् घोरम् प्रविष्टो राक्ष्सीम् तनुम् ।तुंबुरुः नाम गन्धर्वः शप्तो वैश्रवणेन हि ॥३-४-१६॥
प्रसाद्यमानः च मया सोऽब्रवीत् माम् महायशाः ।यदा दाशरथी रमः त्वाम् वधिष्यति संयुगे ॥३-४-१७॥
तदा प्रकृतिम् आपन्नो भवान् स्वर्गम् गमिष्यति ।अनुपस्थीयमानो माम् स क्रुद्धो व्याजहार ह ॥३-४-१८॥
इति वैश्रवणो राजा रंभ आसक्तम् उवाच ह ।तव प्रसादान् मुक्तो अहम् अभिशापात् सु दारुणात् ॥३-४-१९॥
भुवनम् स्वम् गमिष्यामि स्वस्ति वोऽस्तु परंतप ।इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥३-४-२०॥
अध्यर्थ योजने तातः महर्षिः सूर्य संनिभः ।तम् क्षिप्रम् अभिगच्छ त्वम् स ते श्रेयो अभिधास्यति ॥३-४-२१॥
अवटे च अपि माम् राम निक्षिप्य कुशली व्रज ।रक्षसाम् गत सत्त्वानाम् एष धर्मः सनातनः ॥३-४-२२॥
अवटे ये निधीयन्ते तेषाम् लोकाः सनातनाः ।एवम् उक्त्वा तु काकुत्स्थम् विराधः शर पीडितः ॥३-४-२३॥
बभूव स्वर्ग संप्राप्तो न्यस्त देहो महाबलः ।तत् श्रुत्वा राघवः वाक्यम् लक्ष्मणम् व्यादिदेश ह ॥३-४-२४॥
कुंजर्स्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण! ।वने अस्मिन् सुमहत् श्वभ्रम् खन्यताम् रौद्रकर्मणः॥३-४-२५॥
इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति ।तस्थौ विराधम् आक्रम्य कण्ठे पादेन वीर्यवान् ॥३-४-२६॥
ततः खनित्रम् आदाय लक्ष्मणः श्वभ्रम् उत्तमम् ।अखनत् पार्श्वतः तस्य विराधस्य महात्मनः ॥३-४-२७॥
तम् मुक्त कण्ठम् उत्क्षिप्य शङ्कु कर्णम् महास्वनम् ।विराधम् प्राक्षिपत् श्वभ्रे नदन्तम् भैरव स्वनम् ॥३-४-२८॥
तम् आहवे दारुणम् आशु विक्रमौस्थिरौ उभौ संयति राम लक्ष्मणौ ।मुदान्वितौ चिक्षिपतुर् भयावहम्नदन्तम् उत्क्षिप्य बिलेन राक्ष्सम् ॥३-४-२९॥
अवध्यताम् प्रेक्ष्य महासुरस्य तौशितेन शस्त्रेण तदा नरर्षभौ ।समर्थ्य च अत्यर्थ विशारदौ उभौबिले विरधस्य वधम् प्रचक्रतुः ॥३-४-३०॥
स्वयम् विराधेन हि मृत्युम् आत्मनःप्रसह्य रामेण वधार्थम् ईप्सितः ।निवेदितः कानन चारिणा स्वयम्न मे वधः शस्त्र कृतो भवेत् इति ॥३-४-३१॥
तदेव रामेण निशम्य भाषितम्कृता मतिः तस्य बिल प्रवेशने ।बिलम् च तेन अति बलेन रक्षसाप्रवेश्यमानेन वनम् विनादितम् ॥३-४-३२॥
प्रहृष्ट रूपौ इव राम लक्ष्मणौविराधम् उर्व्याम् प्रदरे निपात्य तम् ।ननन्दतुः वीत भयौ महावनेशिलाभिः अन्तर् दधतुः च राक्षसम् ॥३-४-३३॥
ततः तु तौ कांचन चित्र कार्मुकौनिहत्य रक्षः परिगृह्य मैथिलीम् ।विजह्रतुः तौ मुदितौ महावनेदिवि स्थितौ चन्द्र दिवाकरौ इव ॥३-४-३४॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 3
- Next: Araṇya-Kāṇḍa Sarga 5 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷