🪷 अरण्यकाण्ड · Sarga 5

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 5 · 43 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.5local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.5.1
हत्वा तु तम् भीम बलम् विराधम् राक्षसम् वने ।ततः सीताम् परिष्वज्य समाश्वास्य च वीर्यवान् ॥३-५-१॥
Vālmīki 3.5.2
अब्रवीत् भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ।कष्टम् वनम् इदम् दुर्गम् न च स्मो वन गोचराः ॥३-५-२॥
Vālmīki 3.5.3
अभिगच्छामहे शीघ्रम् शरभङ्गम् तपो धनम् ।आश्रमम् शरभन्गस्य राघवोऽभिजगाम ह ॥३-५-३॥
Vālmīki 3.5.4
तस्य देव प्रभावस्य तपसा भावित आत्मनः ।समीपे शरभंगस्य ददर्श महत् अद्भुतम् ॥३-५-४॥
Vālmīki 3.5.5
विभ्राजमानम् वपुषा सूर्य वैश्वानर प्रभम् ।रथ प्रवरम् आरूढम् आकाशे विबुध अनुगम् ॥३-५-५॥
Vālmīki 3.5.6
असंस्पृशन्तम् वसुधाम् ददर्श विबुध ईश्वरम् ।संप्रभ आभरणम् देवम् विरजो अंबर धारिणम् ॥३-५-६॥
Vālmīki 3.5.7
तत् विधैः एव बहुभिर् पूज्यमानम् महात्मभिः ।हरितैः वाजिभिर् युक्तम् अंतरिक्ष गतम् रथम् ॥३-५-७॥
Vālmīki 3.5.8
ददर्श अदूरतः तस्य तरुण आदित्य संनिभम् ।पाण्डुर अभ्र घन प्रख्यम् चन्द्र मण्डल संनिभम् ॥३-५-८॥
Vālmīki 3.5.9
अपश्यत् विमलम् छत्रम् चित्र माल्य उपशोभितम् ।चामर व्यजने च अग्र्ये रुक्म दण्डे महाधने ॥३-५-९॥
Vālmīki 3.5.10
गृहीते वर नारीभ्याम् धूयमाने च मूर्धनि ।गन्धर्व अमर सिद्धाः च बहवः परम ऋषयः ॥३-५-१०॥
Vālmīki 3.5.11
अन्तरिक्ष गतम् देवम् गीर्भिर् अग्र्याभिर् ऐडियन् ।सह संभाषमाणे तु शरभंगेन वासवे ॥३-५-११॥
Vālmīki 3.5.12
दृष्ट्वा शत क्रतुम् तत्र रामो लक्ष्मणम् अब्रवीत् ।रामोऽथ रथम् उद्दिश्य भ्रातुर् दर्शयत अद्भुतम् ॥३-५-१२॥
Vālmīki 3.5.13
अर्चिष्मन्तम् श्रिया जुष्टम् अद्भुतम् पश्य लक्ष्मण ।प्रतपन्तम् इव आदित्यम् अन्तरिक्ष गतम् रथम् ॥३-५-१३॥
Vālmīki 3.5.14
ये हयाः पुरु हूतस्य पुरा शक्रस्य नः श्रुताः ।अन्तरिक्ष गता दिव्याः ते इमे हरयो ध्रुवम् ॥३-५-१४॥
Vālmīki 3.5.15
इमे च पुरुष व्याघ्र ये तिष्ठन्ति अभितः दिशम् ।शतम् शतम् कुण्डलिनो युवानः खड्ग पाणयः ॥३-५-१५॥
Vālmīki 3.5.16
विस्तीर्ण विपुल उरस्काः परिघायत बाहवः ।शोणांशु वसनाः सर्वे व्याघ्र इव दुरासदाः ॥३-५-१६॥
Vālmīki 3.5.17
उरो देशेषु सर्वेषाम् हारा ज्वलन संनिभाः ।रूपम् बिभ्रति सौमित्रे पंच विंशति वार्षिकम् ॥३-५-१७॥
Vālmīki 3.5.18
एतद्धि किल देवानाम् वयो भवति नित्यदा ।यथा इमे पुरुष व्याघ्रा दृश्यन्ते प्रिय दर्शनाः ॥३-५-१८॥
Vālmīki 3.5.19
इह एव सह वैदेह्या मुहूर्तम् तिष्ठ लक्ष्मण ।यावत् जानामि अहम् व्यक्तम् क एष द्युतिमान् रथे ॥३-५-१९॥
Vālmīki 3.5.20
तम् एवम् उक्त्वा सौमित्रिम् इह एव स्थीयताम् इति ।अभिचक्राम काकुत्स्थः शरभंग आश्रमम् प्रति ॥३-५-२०॥
Vālmīki 3.5.21
ततः समभिगच्छन्तम् प्रेक्ष्य रामम् शची पतिः ।शरभंगम् अनुज्ञाप्य विबुधान् इदम् अब्रवीत् ॥३-५-२१॥
Vālmīki 3.5.22
इह उपयाति असौ रामो यावन् माम् न अभिभाषते ।निष्ठाम् नयत तावत् तु ततो मा द्रष्टुम् अर्हति ॥३-५-२२॥
Vālmīki 3.5.23
जितवन्तम् कृतार्थम् हि तदा अहम् अचिराद् इमम् ।कर्म हि अनेन कर्तव्यम् महत् अन्यैः सुदुष्करम् ॥३-५-२३॥
Vālmīki 3.5.24
अथ वज्री तम् आमंत्र्य मानयित्वा च तापसम् ।रथेन हय युक्तेन ययौ दिवम् अरिन्दमः ॥३-५-२४॥
Vālmīki 3.5.25
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः ।अग्नि होत्रम् उपासीनम् शरभंगम् उपागमत् ॥३-५-२५॥
Vālmīki 3.5.26
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः ।निषेदुः तद् अनुज्ञाता लब्ध वासा निमंत्रिताः ॥३-५-२६॥
Vālmīki 3.5.27
ततः शक्र उपयानम् तु पर्यपृच्छत राघवः ।शरभंगः च तत् सर्वम् राघवाय न्यवेदयत् ॥३-५-२७॥
Vālmīki 3.5.28
माम् एष वरदो राम ब्रह्म लोकम् निनीषति ।जितम् उग्रेण तपसा दुष्प्रापम् अकृत आत्मभिः ॥३-५-२८॥
Vālmīki 3.5.29
अहम् ज्ञात्वा नर व्याघ्र वर्तमानम् अदूरतः ।ब्रह्म लोकम् न गच्छामि त्वाम् अदृष्ट्वा प्रिय अतिथिम् ॥३-५-२९॥
Vālmīki 3.5.30
त्वया अहम् पुरुषव्याघ्र धार्मिकेण महत्मनाअ ।समागम्य गमिष्यामि त्रिदिवम् च अवरम् परम् ॥३-५-३०॥
Vālmīki 3.5.31
अक्षया नर शार्दूल जितालोका मया शुभाः ।ब्राह्म्याः च नाक पृष्ठ्याः च प्रतिगृह्णीष्व मामकान् ॥३-५-३१॥
Vālmīki 3.5.32
एवम् उक्तो नरव्याघ्रः सर्व शास्त्र विशारदः ।ऋषिणा शरभंगेन राघवो वाक्यम् अब्रवीत् ॥३-५-३२॥
Vālmīki 3.5.33
अहम् एव आहरिष्यामि सर्वान् लोकान् महामुने ।आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने ॥३-५-३३॥
Vālmīki 3.5.34
राघवेण एवम् उक्तः तु शक्र तुल्य बलेन वै ।शरभंगो महाप्राज्ञः पुनर् एव अब्रवीत् वचः ॥३-५-३४॥
Vālmīki 3.5.35
इह राम महातेजाः सुतीक्ष्णो नम धार्मिकः ।वसति अरण्ये नियतः स ते श्रेयो विधास्यति ॥३-५-३५॥
Vālmīki 3.5.36
सुतीक्ष्णम् अभिगच्छ त्वम् शुचौ देशे तपस्विनम् ।रमणीये वनोद्देशे स ते वासम् विधास्यति ॥३-५-३६॥
Vālmīki 3.5.37
इमाम् मन्दाकिनीम् राम प्रतिस्रोतम् अनुव्रज ।नदीम् पुष्पोडुप वहाम् ततः तत्र गमिष्यसि ॥३-५-३७॥
Vālmīki 3.5.38
एष पन्था नरव्याघ्र मुहूर्तम् पश्य तात माम् ।यावत् जहामि गात्राणि जीर्णाम् त्वचम् इव उरगः ॥३-५-३८॥
Vālmīki 3.5.39
ततो अग्निम् सु समाधाय हुत्वा च आज्येन मंत्रवित् ।शरभंगो महातेजाः प्रविवेश हुताशनम् ॥३-५-३९॥
Vālmīki 3.5.40
तस्य रोमाणि केशाम् च तदा वह्निः महात्मनः ।जीर्णम् त्वचम् तद् अस्थीनि यत् च मांसम् च शोणितम् ॥३-५-४०॥
Vālmīki 3.5.41
स च पावक संकाशः कुमारः समपद्यत ।उत्थाय अग्निचयात् तस्मात् शरभंगो व्यरोचत ॥३-५-४१॥
Vālmīki 3.5.42
स लोकान् आहिताग्नीनाम् ऋषीणाम् च महात्मनाम् ।देवानाम् च व्यतिक्रम्य ब्रह्म लोकम् व्यरोहत ॥३-५-४२॥
Vālmīki 3.5.43
स पुण्य कर्मा भुवने द्विजर्षभःपितामहम् सानुचरम् ददर्श ह ।पितामहः च अपि समीक्ष्य तम् द्विजम्ननन्द सुस्वागतम् इति उवाच ह ॥३-५-४३॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷