🪷 अरण्यकाण्ड · Sarga 6

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 6 · 26 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.6local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.6.1
शरभङ्गे दिवम् प्राप्ते मुनि संघाः समागताः ।अभ्यगच्छन्त काकुत्स्थम् रामम् ज्वलित तेजसम् ॥३-६-१॥
Vālmīki 3.6.2
वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः ।अश्म कुट्टाः च बहवः पत्र आहाराः च तापसाः ॥३-६-२॥
Vālmīki 3.6.3
दन्त उलूखलिनः च एव तथा एव उन्मज्जकाः परे ।गात्र शय्या अशय्याः च तथा एव अनवकाशिकाः ॥३-६-३॥
Vālmīki 3.6.4
मुनयः सलिल आहारा वायु भक्षाः तथा अपरे ।आकाश निलयाः च एव तथा स्थण्डिल शायिनः ॥३-६-४॥
Vālmīki 3.6.5
तथा ऊर्थ्व वासिनः दान्ताः तथा आर्द्र पट वाससः ।स जपाः च तपो नित्याः तथा पंच तपोऽन्विताः ॥३-६-५॥
Vālmīki 3.6.6
सर्वे ब्राह्म्या श्रिया ज्युक्ता दृढ योग समाहिताः ।शरभंग आश्रमे रामम् अभिजग्मुः च तापसाः ॥३-६-६॥
Vālmīki 3.6.7
अभिगम्य च धर्मज्ञा रामम् धर्म भृताम् वरम् ।ऊचुः परम धर्मज्ञम् ऋषि संघाः समागताः ॥३-६-७॥
Vālmīki 3.6.8
त्वम् इक्ष्वाकु कुलस्य अस्य पृथिव्याः च महारथः ।प्रधानः च अपि नाथः च देवानाम् मघवान् इव ॥३-६-८॥
Vālmīki 3.6.9
विश्रुतः त्रिषु लोकेषु यशसा विक्रमेण च ।पितृ व्रतत्वम् सत्यम् च त्वयि धर्मः च पुष्कलः ॥३-६-९॥
Vālmīki 3.6.10
त्वाम् आसाद्य महात्मानम् धर्मज्ञम् धर्म वत्सलम् ।अर्थित्वात् नाथ वक्ष्यामः तत् च नः क्षन्तुम् अर्हसि ॥३-६-१०॥
Vālmīki 3.6.11
अधार्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः ।यो हरेत् बलि षड् भागम् न च रक्षति पुत्रवत् ॥३-६-११॥
Vālmīki 3.6.12
युंजानः स्वान् इव प्राणान् प्राणैः इष्टान् सुतान् इव ।नित्य युक्तः सदा रक्षन् सर्वान् विषय वासिनः ॥३-६-१२॥
Vālmīki 3.6.13
प्राप्नोति शाश्वतीम् राम कीर्तिम् स बहु वार्षिकीम् ।ब्रह्मणः स्थानम् आसाद्य तत्र च अपि महीयते ॥३-६-१३॥
Vālmīki 3.6.14
यत् करोति परम् धर्मम् मुनिः मूल फल अशनः ।तत्र राज्ञः चतुर् भागः प्रजा धर्मेण रक्षतः ॥३-६-१४॥
Vālmīki 3.6.15
सो अयम् ब्राह्मण भूयिष्ठो वानप्रस्थ गणो महान् ।त्वम् नाथो अनाथवत् राम राक्षसैः हन्यते भृशम् ॥३-६-१५॥
Vālmīki 3.6.16
एहि पश्य शरीराणि मुनीनाम् भावित आत्मनाम् ।हतानाम् राक्षसैः घोरैः बहूनाम् बहुधा वने ॥३-६-१६॥
Vālmīki 3.6.17
पंपा नदी निवासानाम् अनुमन्दाकिनीम् अपि ।चित्रकूट आलयानाम् च क्रियते कदनम् महत् ॥३-६-१७॥
Vālmīki 3.6.18
एवम् वयम् न मृष्यामो विप्रकारम् तपस्विनाम् ।क्रियमाणम् वने घोरम् रक्षोभिः भीम कर्मभिः ॥३-६-१८॥
Vālmīki 3.6.19
ततः त्वाम् शरणार्थम् च शरण्यम् समुपस्थिताः ।परिपालय नः राम वध्यमानान् निशाचरैः ॥३-६-१९॥
Vālmīki 3.6.20
परा त्वत्तः गतिः वीर पृधिव्यम् न उपपद्यते ।परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मजः ॥३-६-२०॥
Vālmīki 3.6.21
एतत् श्रुत्वा तु काकुत्स्थः तापसानाम् तपस्विनाम् ।इदम् प्रोवाच धर्मात्मा सर्वान् एव तपस्विनः ॥३-६-२१॥
Vālmīki 3.6.22
न एवम् अर्हथ माम् वक्तुम् आज्ञाप्यः अहम् तपस्विनाम् ।केवलेन स्व कार्येण प्रवेष्टव्यम् वनम् मया ॥३-६-२२॥
Vālmīki 3.6.23
विप्रकारम् अपाक्रष्टुम् राक्षसैः भवताम् इमम् ।पितुः तु निर्देशकरः प्रविष्टो अहम् इदम् वनम् ॥३-६-२३॥
Vālmīki 3.6.24
भवताम् अर्थ सिद्ध्यर्थम् आगतोऽहम् यदृच्छया ।तस्य मे अयम् वने वासो भविष्यति महाफलः ॥३-६-२४॥
Vālmīki 3.6.25
तपस्विनाम् रणे शत्रून् हन्तुम् इच्छामि राक्षसान् ।पश्यन्तु वीर्यम् ऋषयः सः ब्रातुर् मे तपोधनाः ॥३-६-२५॥
Vālmīki 3.6.26
दत्त्वा अभयम् च अपि तपो धनानाम्धर्मे धृइत आत्मा सह लक्ष्मणेन ।तपो धनैः च अपि सह आर्य दत्तःसुतीक्ष्णम् एव अभिजगाम वीरः ॥३-६-२६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷