🪷 अरण्यकाण्ड · Sarga 7
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 7 · 25 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.7local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
रामः तु सहितः भ्रात्रा सीतया च परंतपः ।सुतीक्ष्णस्य आश्रम पदम् जगाम सह तैः द्विजैः ॥३-७-१॥
रामः तु सहितः भ्रात्रा सीतया च परंतपः ।सुतीक्ष्णस्य आश्रम पदम् जगाम सह तैः द्विजैः ॥३-७-१॥
स गत्वा दीर्घम् अध्वानम् नदीः तीर्त्वा बहु उदकाः ।ददर्श विमलम् शैलम् महा मेरुम् इव उन्नतम् ॥३-७-२॥
ततः तद् इक्ष्वाकु वरौ सततम् विविधैः द्रुमैः ।काननम् तौ विविशतुः सीतया सह राघवौ ॥३-७-३॥
प्रविष्टः तु वनम् घोरम् बहु पुष्प फल द्रुमम् ।ददर्श आश्रमम् एकान्ते चीर माला परिष्कृतम् ॥३-७-४॥
तत्र तापसम् आसीनम् मल पङ्कज धारिणम् ।रामः सुतीक्ष्णम् विधिवत् तपोधनम् अभाषत ॥३-७-५॥
रामोऽहम् अस्मि भगवन् भवन्तम् द्रष्टुम् आगतः ।तत् मा अभिवद धर्मज्ञ महर्षे सत्य विक्रम ॥३-७-६॥
स निरीक्ष्य ततः धीरो रामम् धर्मभृताम् वरम् ।समाश्लिष्य च बाहुभ्याम् इदम् वचनम् अब्रवीत् ॥३-७-७॥
स्वागतम् ते रघु श्रेष्ठ राम सत्यभृताम् वर ।आश्रमओ अयम् त्वया आक्रान्तः सनाथ इव सांप्रतम् ॥३-७-८॥
प्रतीक्षमाणः त्वाम् एव न आरोहे अहम् महायशः ।देव लोकम् इतो वीर देहम् त्यक्त्वा महीतले ॥३-७-९॥
चित्रकूटम् उपादाय राज्य भ्रष्टो असि मे श्रुतः ।इह उपयातः काकुत्स्थः देवराजः शततक्रतुः ॥३-७-१०॥
उपागम्य च मे देवो महादेवः सुर ईश्वरः ।सर्वान् लोकान् जितान् आह मम पुण्येन कर्मणा ॥३-७-११॥
तेषु देव ऋषि जुष्टेषु जितेशु तपसा मया ।मत् प्रसादात् स भार्यः त्वम् विहरस्व स लक्ष्मणः ॥३-७-१२॥
तम् उग्र तपसम् दीप्तम् महर्षिम् सत्य वादिनम् ।प्रत्युवाच आत्मवान् रामो ब्रह्माणम् इव वासवः ॥३-७-१३॥
अहम् एव आहरिष्यामि स्वयम् लोकान् महामुने ।आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने ॥३-७-१४॥
भवान् सर्वत्र कुशलः सर्वभूत हिते रतः ।आख्यातः शरभंगेन गौतमेन महात्मना ॥३-७-१५॥
एवम् उक्तः तु रामेण महर्षिः लोक विश्रुतः ।अब्रवीत् मधुरम् वाक्यम् हर्षेण महता युतः ॥३-७-१६॥
अयम् एव आश्रमो राम गुणवान् रम्यताम् इति ।ऋषि संघ अनुचरितः सदा मूल फलैर् युतः ॥३-७-१७॥
इमम् आश्रमम् आगम्य मृग संघा महीयसः ।अहत्वा प्रतिगच्छन्ति लोभयित्वा अकुतोभयाः ॥३-७-१८॥
ना अन्यो दोषो भवेत् अत्र मृगेभ्यः अन्यत्र विद्धि वै ।तत् श्रुत्वा वचनम् तस्य महर्षेः लक्ष्मणाग्रजः ॥३-७-१९॥
उवाच वचनम् धीरो विगृह्य स शरम् धनुः ।तान् अहम् सुमहाभाग मृगसंघान् समागतान् ॥३-७-२०॥
हन्याम् निशित धारेण शरेण नत पर्वणा ।भवान् तत्र अभिषज्येत किम् स्यात् कृच्छ्र तरम् ततः ॥३-७-२१॥
एतस्मिन् आश्रमे वासम् चिरम् तु न समर्थये ।तम् एवम् उक्त्वा उपरमम् रामः संध्याम् उपागमत् ॥३-७-२२॥
अन्वास्य पश्चिमाम् संध्याम् तत्र वासम् अकल्पयत् ।सुतीक्ष्णस्य आश्रमे रम्ये सीतया लक्ष्मनेन च ॥३-७-२३॥
ततः शुभम् तापस अन्नम्स्वयम् सुतीक्ष्णः पुरुषर्षभाभ्याम् ।ताभ्याम् सुसत्कृत्य ददौ महात्मासंध्या निवृत्तौ रजनीम् समीक्ष्य ॥३-७-२४॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 6
- Next: Araṇya-Kāṇḍa Sarga 8 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷