🪷 अरण्यकाण्ड · Sarga 8
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 8 · 20 ślokas
🪷 Devanāgarī Ślokas
रामः तु सह सौमित्रिः सुतीक्ष्णेन अभिपूजितः ।परिणाम्य निशाम् तत्र प्रभाते प्रत्यबुध्यत ॥३-८-१॥
उत्थाय च यथा कालम् राघवः सह सीतया ।उपस्पृश्य सु शीतेन तोयेन उत्पल गंधिना ॥३-८-२॥
अथ ते अग्निम् सुराम् च एव वैदेही राम लक्ष्मणौ ।काल्यम् विधिवत् अभ्यर्च्य तपस्वि शरणे वने ॥३-८-३॥
उदयन्तम् दिनकरम् दृष्ट्वा विगत कल्मषाः ।सुतीक्ष्णम् अभिगम्य इदम् श्लक्ष्णम् वचनम् अब्रुवन् ॥३-८-४॥
सुखोषिताः स्म भगवन् त्वया पूज्येन पूजिताः ।आपृच्छामः प्रयास्यामो मुनयः त्वरयन्ति नः ॥३-८-५॥
त्वरामहे वयम् द्रष्टुम् कृत्स्नम् आश्रम मण्डलम् ।ऋषीणाम् पुण्य शीलानाम् दण्डकारण्य वासिनाम् ॥३-८-६॥
अभ्यनुज्ञातुम् इच्छामः सह एभिः मुनिपुङ्गवैः ।धर्म नित्यैः तपो दान्तैः विशिखैः इव पावकैः ॥३-८-७॥
अविषह्य आतपो यावत् सूर्यो न अति विराजते ।अमार्गेण आगताम् लक्ष्मीम् प्राप्य इव अन्वय वर्जितः ॥३-८-८॥
तावत् इच्छामहे गन्तुम् इति उक्त्वा चरणौ मुनेः ।ववन्दे सह सौमित्रिः सीतया सह राघवः ॥३-८-९॥
तौ सम् स्पृशंतौ चरणौ उत्थाप्य मुनिपुंगवः ।गाढम् आश्लिष्य सस्नेहम् इदम् वचनम् अब्रवीत् ॥३-८-१०॥
अरिष्टम् गच्छ पन्थानम् राम सौमित्रिणा सह ।सीतया च अनया सार्धम् छाय एव अनुवृत्तया ॥३-८-११॥
पश्य आश्रम पदम् रम्यम् दण्डकारण्य वासिनाम् ।एषाम् तपस्विनाम् वीर तपसा भावित आत्मनाम् ॥३-८-१२॥
सुप्राज्य फल मूलानि पुष्पितानि वनानि च ।प्रशस्त मृग यूथानि शान्त पक्षि गणानि च ॥३-८-१३॥
फुल्ल पंकज खण्डानि प्रसन्न सलिलानि च ।कारण्डव विकीर्णानि तटाकानि सरांसि च ॥३-८-१४॥
द्रक्ष्यसे दृष्टि रम्याणि गिरि प्रस्रवणानि च ।रमणीयानि अरण्यानि मयूर अभिरुतानि च ॥३-८-१५॥
गम्यताम् वत्स सौमित्रे भवान् अपि च गच्छतु ।आगन्तव्यम् च ते दृष्ट्वा पुनः एव आश्रमम् प्रति ॥३-८-१६॥
एवम् उक्तः तथा इति उक्त्वा काकुत्स्थः सह लक्ष्मणः ।प्रदक्षिणम् मुनिम् कृत्वा प्रस्थातुम् उपचक्रमे ॥३-८-१७॥
ततः शुभतरे तूणी धनुषी च आयतेक्षणा ।ददौ सीता तयोः भ्रात्रोः खड्गौ च विमलौ ततः ॥३-८-१८॥
आबध्य च शुभे तूणी चापे च आदाय सस्वने ।निष्क्रान्तौ आश्रमात् गन्तुम् उभौ तौ राम लक्ष्मणौ ॥३-८-१९॥
शीघ्रम् तौ रूपसंपन्नौ अनुज्ञातौ महर्षिणा ।प्रस्थितौ धृत चापा असी सीतया सह राघवौ ॥३-८-२०॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 7
- Next: Araṇya-Kāṇḍa Sarga 9 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷