🪷 अरण्यकाण्ड · Sarga 9
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 9 · 33 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.9local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
सुतीक्ष्णेन अभ्यनुज्ञातम् प्रस्थितम् रघु नन्दनम् ।हृद्यया स्निग्धया वाचा भर्तारम् इदम् अब्रवीत् ॥३-९-१॥
अधर्मम् तु सुसूक्ष्मेण विधिना प्राप्यते महान् ।निवृत्तेन च शक्यो अयम् व्यसनात् कामजाद् इह ॥३-९-२॥
त्रीणि एव व्यसनानि अत्र कामजानि भवन्ति उत ।मिथ्या वाक्यम् तु परमम् तस्मात् गुरुतरा उभौ ॥३-९-३॥
पर दार अभिगमनम् विना वैरम् च रौद्रता ।मिथ्या वाक्यम् न ते भूतम् न भविष्यति राघव ॥३-९-४॥
कुतो अभिलषणम् स्त्रीणाम् परेषाम् धर्म नाशनम् ।तव नास्ति मनुष्येन्द्र न च आभूत् ते कदाचन ॥३-९-५॥
मनस्यपि तथा राम न च एतत् विद्यते क्वचित् ।स्व दार निरतः च एव नित्यम् एव नृपात्मज ॥३-९-६॥
धर्मिष्टः सत्य सन्धः च पितुः निर्देश कारकः ।त्वयि धर्मः च सत्यम् च त्वयि सर्वम् प्रतिष्टितम् ॥३-९-७॥
तच्च सर्वम् महाबाहो शक्यम् वोढुम् जितेइन्द्रियैः ।तव वश्य इन्द्रियत्वम् च जानामि शुभदर्शन ॥३-९-८॥
तृतीयम् यद् इदम् रौद्रम् पर प्राण अभिहिंसनम् ।निर्वैरम् क्रियते मोहात् तत् च ते समुपस्थितम् ॥३-९-९॥
प्रतिज्ञातः त्वया वीर दण्डकारण्य वासिनाम् ।ऋषीणाम् रक्षणार्थाय वधः संयति रक्षसाम् ॥३-९-१०॥
एतन् निमित्तम् च वनम् दण्डका इति विश्रुतम् ।प्रस्थितः त्वम् सह भ्रात्रा धृत बाण शराअसनः ॥३-९-११॥
ततः त्वाम् प्रस्थितम् दृष्ट्वा मम चिन्त आकुलम् मनः ।त्वत् वृत्तम् चिन्तयन्त्या वै भवेत् निःश्रेयसम् हितम् ॥३-९-१२॥
न हि मे रोचते वीरः गमनम् दण्डकान् प्रति ।कारणम् तत्र वक्ष्यामि वदन्त्याः श्रूयताम् मम ॥३-९-१३॥
त्वम् हि बाण धनुष्पाणिः भ्रात्रा सह वनम् गतः ।दृष्ट्वा वन चरान् सर्वान् कच्चित् कुर्याः शर व्ययम् ॥३-९-१४॥
क्षत्रियाणाम् इह धनुर् हुताशस्य इन्धनानि च ।समीपतः स्थितम् तेजो बलम् उच्छ्रयते भृशम् ॥३-९-१५॥
पुरा किल महाबाहो तपस्वी सत्य वाक् शुचिः ।कस्मिन् चित् अभवत् पुण्ये वने रत मृग द्विजे ॥३-९-१६॥
तस्य एव तपसो विघ्नम् कर्तुम् इन्द्रः शचीपतिः ।खड्ग पाणिः अथ आगच्छत् आश्रमम् भट रूप धृक् ॥३-९-१७॥
तस्मिन् तत् आश्रम पदे निहितः खड्ग उत्तमः ।स न्यास विधिना दत्तः पुण्ये तपसि तिष्ठतः ॥३-९-१८॥
स तत् शस्त्रम् अनुप्राप्य न्यास रक्षण तत्परः ।वने तु विचरति एव रक्षन् प्रत्ययम् आत्मनः ॥३-९-१९॥
यत्र गच्छति उपादातुम् मूलानि च फलानि च ।न विना याति तम् खड्गम् न्यास रक्षण तत्परः ॥३-९-२०॥
नित्यम् शस्त्रम् परिवहन् क्रमेण स तपोधनः ।चकार रौद्रीम् स्वाम् बुद्धिम् त्यक्त्वा तपसि निश्चयम् ॥३-९-२१॥
ततः स रौद्र अभिरतः प्रमत्तो अधर्म कर्षितः ।तस्य शस्त्रस्य संवासात् जगाम नरकम् मुनिः ॥३-९-२२॥
एवम् एतत् पुरा वृत्तम् शस्त्र संयोग कारणम् ।अग्नि संयोगवत् हेतुः शस्त्र संयोग उच्यते ॥३-९-२३॥
स्नेहात् च बहुमानात् च स्मारये त्वाम् न शिक्षये ।न कथंचन सा कार्या गृहीत धनुषा त्वया ॥३-९-२४॥
बुद्धिः वैरम् विना हन्तुम् राक्षसान् दण्डक आश्रितान् ।अपराधम् विना हन्तुम् लोको वीर न कामये ॥३-९-२५॥
क्षत्रियाणाम् तु वीराणाम् वनेषु नियतात्मनाम् ।धनुषा कार्यम् एतावत् आर्तानाम् अभिरक्षणम् ॥३-९-२६॥
क्व च शस्त्रम् क्व च वनम् क्व च क्षात्रम् तपः क्व च ।व्याविद्धम् इदम् अस्माभिः देश धर्मः तु पूज्यताम् ॥३-९-२७॥
तदार्य कलुषा बुद्धिः जायते शस्त्र सेवनात् ।पुनर् गत्वात् तत् अयोध्यायाम् क्षत्र धर्मम् चरिष्यसि ॥३-९-२८॥
अक्षया तु भवेत् प्रीतिः श्वश्रू श्वशुरयोः मम ।यदि राज्यम् हि संन्यस्य भवेत् त्वम् निरतो मुनिः ॥३-९-२९॥
धर्मात् अर्थः प्रभवति धर्मात् प्रभवते सुखम् ।धर्मेण लभते सर्वम् धर्म सारम् इदम् जगत् ॥३-९-३०॥
आत्मानम् नियमैः तैः तैः कर्षयित्वा प्रयत्नतः ।प्राप्यते निपुणैः धर्मो न सुखात् लभते सुखम् ॥३-९-३१॥
नित्यम् शुचि मतिः सौम्य चर धर्मम् तपो वने ।सर्वम् हि विदितम् तुभ्यम् त्रैलोक्यम् अपि तत्त्वतः ॥३-९-३२॥
स्त्री चापलात् एतत् उदाहृतम् मेधर्मम् च वक्तुम् तव कः समर्थः ।विचार्य बुद्ध्या तु सह अनुजेनयत् रोचते तत् कुरु म अचिरेण ॥३-९-३३॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 8
- Next: Araṇya-Kāṇḍa Sarga 10 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷