🪷 अरण्यकाण्ड · Sarga 10
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 10 · 22 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.10local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
वाक्यम् एतत् तु वैदेह्या व्याहृतम् भर्तृ भक्त्या ।श्रुत्वा धर्मे स्थितो रामः प्रत्युवाच जानकीम् ॥३-१०-१॥
हितम् उक्तम् त्वया देवि स्निग्धया सदृशम् वचः ।कुलम् व्यपदिशन्त्या च धर्मज्ञे जनक आत्मजे ॥३-१०-२॥
किम् नु वक्ष्यामि अहम् देवि त्वया एव उक्तम् इदम् वचः ।क्षत्रियैः धार्यते चापो न आर्त शब्दो भवेद् इति ॥३-१०-३॥
ते च आर्ता दण्डकारण्ये मुनयः संशित व्रताः ।माम् सीते स्वयम् आगम्य शरण्याः शरणम् गताः ॥३-१०-४॥
वसन्तः काल कालेषु वने मूल फल अशनाः ।न लभन्ते सुखम् भीरु राक्षसैः क्रूर कर्मभिः ॥३-१०-५॥
भक्ष्यन्ते राक्षसैः भीमैः नर मांसोपजीविभिः ।ते भक्ष्यमाणा मुनयो दण्डकारण्य वासिनः ॥३-१०-६॥
अस्मान् अभ्यवपद्य इति माम् ऊचुर् द्विज सत्तमाः ।मया तु वचनम् श्रुत्वा तेषाम् एवम् मुखात् च्युतम् ॥३-१०-७॥
कृत्वा वचन शुश्रुषाम् वाक्यम् एतत् उदाहृतम् ।प्रसीदन्तु भवन्तो मे ह्रीः एषा तु मम अतुला ॥३-१०-८॥
यद् ईदृशैः अहम् विप्रैः उपस्थेयैः उपस्थितः ।किम् करोमि इति च मया व्याहृतम् द्विज संनिधौ ॥३-१०-९॥
सर्वैः एव समागम्य वाक् इयम् समुदाहृता ।राक्षसैः दण्डकारण्ये बहुभिः काम रूपिभिः ॥३-१०-१०॥
अर्दिताः स्म भृशम् राम भवान् नः तत्र रक्षतु ।होम काले तु संप्राप्ते पर्व कालेषु च अनघ ॥३-१०-११॥
धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशित अशनाः ।राक्षसैः धर्षितानाम् च तापसानाम् तपस्विनाम् ॥३-१०-१२॥
गतिम् मृगयमाणानाम् भवान् नः परमा गतिः ।कामम् तपः प्रभावेण शक्ता हन्तुम् निशाचरान् ॥३-१०-१३॥
चिरार्जितम् न च इच्छामः तपः खण्डयितुम् वयम् ।बहु विघ्नम् तपो नित्यम् दुःश्चरम् चैव राघव ॥३-१०-१४॥
तेन शापम् न मुंचामो भक्ष्यमाणाः च राक्षसैः ।तद् अर्द्यमानान् रक्षोभिः दण्डकारण्य वासिभिः ॥३-१०-१५॥
रक्ष नः त्वम् सह भ्रात्रा त्वम् नाथा हि वयम् वने ।मया च एतत् वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ॥३-१०-१६॥
ऋषीणाम् दण्डकारण्ये संश्रुतम् जनकाअत्मजे ।संश्रुत्य न च शक्ष्यामि जीवमानः प्रतिश्रवम् ॥३-१०-१७॥
मुनीनाम् अन्यथा कर्तुम् सत्यम् इष्टम् हि मे सदा ।अपि अहम् जीवितम् जह्याम् त्वाम् वा सीते स लक्ष्मणाम् ॥३-१०-१८॥
न तु प्रतिज्ञाम् संश्रुत्य ब्राह्मणेभ्यो विशेषतः ।तत् अवश्यम् मया कार्यम् ऋषीणाम् परिपालनम् ॥३-१०-१९॥
अनुक्तेन अपि वैदेहि प्रतिज्ञाय कथम् पुनः ।मम स्नेहात् च सौहार्दात् इदम् उक्तम् त्वया वचः ॥३-१०-२०॥
परितुष्टो अस्मि अहम् सीते न हि अनिष्टो अनुशास्यते ।सदृशम् च अनुरूपम् च कुलस्य तव शोभने ।सधर्म चारिणी मे त्वम् प्राणेभ्यो अपि गरीयसी ॥३-१०-२१॥
इति एवम् उक्त्वा वचनम् महात्मासीताम् प्रियाम् मैथिल राज पुत्रीम् ।रामो धनुष्मान् सह लक्ष्मणेनजगाम रम्याणि तपो वनानि ॥३-१०-२२॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 9
- Next: Araṇya-Kāṇḍa Sarga 11 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷