🪷 अरण्यकाण्ड · Sarga 11
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 11 · 94 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.11local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
अग्रतः प्रययौ रामः सीता मध्ये सुशोभना ।पृष्ठतः तु धनुष्पाणिः लक्ष्मणः अनुजगाम ह ॥३-११-१॥
तौ पश्यमानौ विविधान् शैल प्रस्थान् वनानि च ।नदीः च विविधा रम्या जग्मतुः सह सीतया ॥३-११-२॥
सारसान् चक्रवाकां च नदी पुलिन चारिणः ।सरांसि च सपद्मानि युतानि जलजैः खगैः ॥३-११-३॥
यूथ बद्धाम् च पृषतान् मद उन्मत्तान् विषाणिनः ।महिषाम् च वराहाम् च गजाम् च द्रुम वैरिणः ॥३-११-४॥
ते गत्वा दूरम् अध्वानम् लंबमाने दिवाकरे ।ददृशुः सहिता रंयम् तटाकम् योजन आयुतम् ॥३-११-५॥
पद्म पुष्कर संबाधम् गज यूथैः अलंकृतम् ।सारसैः हंस कादम्बैः संकुलम् जल जातिभिः ॥३-११-६॥
प्रसन्न सलिले रम्ये तस्मिन् सरसि शुश्रुवे ।गीत वादित्र निर्घोषो न तु कश्चन दृश्यते ॥३-११-७॥
ततः कौतूहलात् रामो लक्ष्मणः च महारथः ।मुनिम् धर्मभृतम् नाम प्रष्टुम् समुपचक्रमे ॥३-११-८॥
इदम् अत्यद्भुतम् श्रुत्वा सर्वेषाम् नो महामुने ।कौतूहलम् महत् जातम् किम् इदम् साधु कथ्यताम् ॥३-११-९॥
तेन एवम् उक्तो धर्मात्मा राघवेण मुनिः तदा ।प्रभावम् सरसः क्षिप्रम् आख्यातुम् उपचक्रमे ॥३-११-१०॥
इदम् पंच अप्सरो नाम तटाकम् सार्व कालिकम् ।निर्मितम् तपसा राम मुनिना माण्डकर्णिना ॥३-११-११॥
स हि तेपे तपः तीव्रम् माण्डकर्णिः महामुनिः ।दश वर्ष सहस्राणि वायु भक्षो जलाशये ॥३-११-१२॥
ततः प्रव्यथिताः सर्वे देवाः स अग्नि पुरोगमाः ।अब्रुवन् वचनम् सर्वे परस्पर समागताः ॥३-११-१३॥
अस्मकम् कस्यचित् स्थानम् एष प्रार्थयते मुनिः ।इति संविग्न मनसः सर्वे तत्र दिवौकसः ॥३-११-१४॥
ततः कर्तुम् तपो विघ्नम् सर्व देवैः नियोजिताः ।प्रधान अप्सरसः पंच विद्युत् चलित वर्चसः ॥३-११-१५॥
अप्सरोभिः ततः ताभिः मुनिः दृष्ट परावरः ।नीतो मदन वश्यत्वम् देवानाम् कार्य सिद्धये ॥३-११-१६॥
ताः चैव अप्सरसः पंच मुनेः पत्नीत्वम् आगताः ।तटाके निर्मितम् तासाम् तस्मिन् अन्तर्हितम् गृहम् ॥३-११-१७॥
तत्र एव अप्सरसः पंच निवसन्त्यो यथा सुखम् ।रमयन्ति तपोयोगात् मुनिम् यौवनम् आस्थितम् ॥३-११-१८॥
तासाम् संक्रीड मानानाम् एष वादित्र निःस्वनः ।श्रूयते भूषण उन्मिश्रः गीत शब्दः मनोहरः ॥३-११-१९॥
आश्चर्यम् इति तस्य एतद् वचनम् भावितात्मनः ।राघवः प्रतिजग्राह सह भ्रात्रा महा यशाः ॥३-११-२०॥
एवम् कथयमानः स ददर्श आश्रम मण्डलम् ।कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ॥३-११-२१॥
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ।तदा तस्मिन् स काकुत्स्थः श्रीमति आश्रम मण्डले ॥३-११-२२॥
उषित्वा स सुखम् तत्र पूर्ज्यमानो महर्षिभिः ।जगाम च आश्रमान् तेषाम् पर्यायेण तपस्विनाम् ॥३-११-२३॥
येषाम् उषितवान् पूर्वम् सकाशे स महास्त्रवित् ।क्वचित् परिदशान् मासान् एक संवत्सरम् क्वचित् ॥३-११-२४॥
क्वचित् च चतुरो मासान् पंच षट् च परान् क्वचित् ।अपरत्र अधिकान् मासान् अध्यर्धम् अधिकम् क्वचित् ॥३-११-२५॥
त्रीन् मासान् अष्ट मासान् च राघवो न्यवसत् सुखम् ।तत्र संवसतः तस्य मुनीनाम् आश्रमेषु वै ॥३-११-२६॥
रमतः च आनुकूल्येन ययुः संवत्सरा दश ।परिसृत्य च धर्मज्ञः राघवः सह सीतया ॥३-११-२७॥
सुतीक्ष्णस्य आश्रमम् श्रीमान् पुनर् एव आजगाम ह ।स तम् आश्रमम् आगम्य मुनिभिः परिपूजितः ॥३-११-२८॥
तत्र अपि न्यवसत् रामः कंचित् कालम् अरिन्दमः ।अथ आश्रमस्थो विनयात् कदाचित् तम् महामुनिम् ॥३-११-२९॥
उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् ।अस्मिन् अरण्ये भगवन् अगस्त्यो मुनिसत्तमः ॥३-११-३०॥
वसति इति मया नित्यम् कथाः कथयताम् श्रुतम् ।न तु जानामि तम् देशम् वनस्य अस्य महत्तया ॥३-११-३१॥
कुत्र आश्रम पदम् पुण्यम् महर्षेः तस्य धीमतः ।प्रसाद अर्थम् भगवतः सानुजः सह सीतया ॥३-११-३२॥
अगस्त्यम् अभिगच्छेयम् अभिवादयितुम् मुनिम् ।मनोरथो महान् एष हृदि परिवर्तते ॥३-११-३३॥
यदि अहम् तम् मुनिवरम् शुश्रूषेयम् अपि स्वयम् ।इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ॥३-११-३४॥
सुतीक्ष्णः प्रत्युवाच इदम् प्रीतो दशरथात्मजम् ।अहम् अपि एतद् एव त्वाम् वक्तु कामः स लक्ष्मणम् ॥३-११-३५॥
अगस्त्यम् अभिगच्छ इति सीतया सह राघव ।दिष्ट्या तु इदानीम् अर्थे अस्मिन् स्वयम् एव ब्रवीषि माम् ॥३-११-३६॥
अयम् आख्यामि ते राम यत्र अगस्त्यो महामुनिः ।योजनानि आश्रमात् तात याहि चत्वारि वै ततः ।दक्षिणेन महान् श्रीमान् अगस्त्य भ्रातुर् आश्रमः ॥३-११-३७॥
स्थली प्राय वनोद्देशे पिप्पली वन शोभिते ।बहु पुष्प फले रम्ये नाना विहग नादिते ॥३-११-३८॥
पद्मिन्यो विविधाः तत्र प्रसन्न सलिल आशयाः ।हंस कारण्डव आकीर्णाः चक्रवाक उपशोभिताः ॥३-११-३९॥
तत्र एकाम् रजनीम् व्युष्य प्रभाते राम गम्यताम् ।दक्षिणाम् दिशम् आस्थाय वन षण्डस्य पार्श्वतः ॥३-११-४०॥
तत्र अगस्त्य आश्रम पदम् गत्वा योजनम् अन्तरम् ।रमणीये वनोद्देशे बहु पादप शोभिते ॥३-११-४१॥
रंस्यते तत्र वैदेही लक्ष्मणः च त्वया सह ।स हि रम्यो वनोउद्देशो बहु पादप संयुतः ॥३-११-४२॥
यदि बुद्धिः कृता द्रष्टुम् अगस्त्यम् तम् महामुनिम् ।अद्य एव गमने बुद्धिम् रोचयस्व महामते ॥३-११-४३॥
इति रामो मुनेः श्रुत्वा सह भ्रात्रा अभिवाद्य च ।प्रतस्थे अगस्त्यम् उद्दिश्य सानुगः सह सीतया ॥३-११-४४॥
पश्यन् वनानि चित्राणि पर्वतां च अभ्र संनिभान् ।सरांसि सरितः चैव पथि मार्ग वश अनुगतान् ॥३-११-४५॥
सुतीक्ष्णेन उपदिष्टेन गत्वा तेन पथा सुखम् ।इदम् परम संहृष्टो वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-११-४६॥
एतद् एव आश्रम पदम् नूनम् तस्य महात्मनः ।अगस्त्यस्य मुनेर् भ्रातुर् दृश्यते पुण्य कर्मणः ॥३-११-४७॥
यथा हि इमे वनस्य अस्य ज्ञाताः पथि सहस्रशः ।संनताः फल भरेण पुष्प भारेण च द्रुमाः ॥३-११-४८॥
पिप्पलीनाम् च पक्वानाम् वनाद् अस्माद् उपागतः ।गन्धो अयम् पवन उत्क्षिप्तः सहसा कटुकोदयः ॥३-११-४९॥
तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठ संचयाः ।लूनाः च परिदृश्यन्ते दर्भा वैदूर्य वर्चसः ॥३-११-५०॥
एतत् च वन मध्यस्थम् कृष्ण अभ्र शिखर उपमम् ।पावकस्य आश्रमस्थस्य धूमाग्रम् संप्रदृश्यते ॥३-११-५१॥
विविक्तेषु च तीर्थेषु कृत स्नाना द्विजातयः ।पुष्प उपहारम् कुर्वन्ति कुसुमैः स्वयम् आर्जितैः ॥३-११-५२॥
ततः सुतीक्ष्णस्य वचनम् यथा सौम्य मया श्रुतम् ।अगस्त्यस्य आश्रमो भ्रातुर् नूनम् एष भविष्यति ॥३-११-५३॥
निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया ।यस्य भ्रात्रा कृता इयम् दिक् शरण्या पुण्य कर्मणा ॥३-११-५४॥
इह एकदा किल क्रूरो वातापिः अपि च इल्वलः ।भ्रातरौ सहितौ आस्ताम् ब्राह्मणघ्नौ महा असुरौ ॥३-११-५५॥
धारयन् ब्राह्मणम् रूपम् इल्वलः संस्कृतम् वदन् ।आमंत्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः ॥३-११-५६॥
भ्रातरम् संस्कृतम् कृत्वा ततः तम् मेष रूपिणम् ।तान् द्विजान् भोजयामास श्राद्ध दृष्टेन कर्मणा ॥३-११-५७॥
ततो भुक्तवताम् तेषाम् विप्राणाम् इल्वलो अब्रवीत् ।वातापे निष्क्रमस्व इति स्वरेण महता वदन् ॥३-११-५८॥
ततो भ्रातुर् वचः श्रुत्वा वातापिः मेषवत् नदन् ।भित्त्वा भित्वा शरीराणि ब्राह्मणानाम् विनिष्पतत् ॥३-११-५९॥
ब्राह्मणानाम् सहस्राणि तैः एवम् काम रूपिभिः ।विनाशितानि संहत्य नित्यशः पिशित अशनैः ॥३-११-६०॥
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ।अनुभूय किल श्राद्धे भक्षितः स महा असुरः ॥३-११-६१॥
ततः संपन्नम् इति उक्त्वा दत्त्वा हस्ते अवनेजनम् ।भ्रातरम् निष्क्रमस्व इति च इल्वलः समभाषत ॥३-११-६२॥
स तदा भाषमाणम् तु भ्रातरम् विप्र घातिनम् ।अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनि सत्तमः ॥३-११-६३॥
कुतो निष्क्रमितुम् शक्तिर् मया जीर्णस्य रक्षसः ।भ्रातुः ते मेष रूपस्य गतस्य यम सादनम् ॥३-११-६४॥
अथ तस्य वचः श्रुत्वा भ्रातुर् निधन संश्रितम् ।प्रधर्षयितुम् आरेभे मुनिम् क्रोधात् निशा चरः ॥३-११-६५॥
सो अभ्यद्रवत् द्विजेंद्रम् तम् मुनिना दीप्त तेजसा ।चक्षुषा अनल कल्पेन निर्दग्धो निधनम् गतः ॥३-११-६६॥
तस्य अयम् आश्रमो भ्रातुः तटाक वन शोभितः ।विप्र अनुकम्पया येन कर्म इदम् दुष्करम् कृतम् ॥३-११-६७॥
एवम् कथयमानस्य तस्य सौमित्रिणा सह ।रामस्य अस्तम् गतः सूर्यः संध्या कालो अभ्यवर्तत ॥३-११-६८॥
उपास्य पश्चिमाम् संध्याम् सह भ्रात्रा यथा विधि ।प्रविवेश आश्रम पदम् तम् ऋषिम् च अभ्यवादयत् ॥३-११-६९॥
सम्यक् प्रतिगृहीतः तु मुनिना तेन राघवः ।न्यवसत् ताम् निशाम् एकाम् प्राश्य मूल फलानि च ॥३-११-७०॥
तस्याम् रात्र्याम् व्यतीतायाम् उदिते रवि मण्डले ।भ्रातरम् तम् अगस्त्यस्य आमंत्रयत राघवः ॥३-११-७१॥
अभिवादये त्वाम् भगवन् सुखम् स्म उष्यतो निशाम् ।आमंत्रये त्वाम् गच्छामि गुरुम् ते द्रष्टुम् अग्रजम् ॥३-११-७२॥
गम्यताम् इति तेन उक्तो जगाम रघु नन्दनः ।यथा उद्दिष्टेन मार्गेण वनम् तत् च अवलोकयन् ॥३-११-७३॥
नीवारान् पनसान् सालान् वन्जुलान् तिनिशान् तथा ।चिरि बिल्वान् मधूकान् च बिल्वान् अथ च तिन्दुकान् ॥३-११-७४॥
पुष्पितान् पुष्पित अग्राभिर् लताभिर् उपशोभितान् ।ददर्श रामः शतशः तत्र कान्तार पादपान् ॥३-११-७५॥
हस्ति हस्तैः विमृदितान् वानरैः उपशोभितान् ।मत्तैः शकुनि संघैः च शतशः प्रति नादितान् ॥३-११-७६॥
ततो अब्रवीत् समीपस्थम् रामो राजीव लोचनः ।पृष्ठतो अनुगतम् वीरम् लक्ष्मणम् लक्ष्मिवर्धनम् ॥३-११-७७॥
स्निग्ध पत्रा यथा वृक्षा यथा क्षान्ता मृग द्विजाः ।आश्रमो न अतिदूरस्थो महर्षेर् भावित आत्मनः ॥३-११-७८॥
अगस्त्य इति विख्यातो लोके स्वेन एव कर्मणा ।आश्रमो दृश्यते तस्य परिश्रान्त श्रम अपहः ॥३-११-७९॥
प्राज्य धूम आकुल वनः चीर माला परिष्कृतः ।प्रशान्त मृग यूथः च नाना शकुनि नादितः ॥३-११-८०॥
निगृह्य तरसा मृत्युम् लोकानाम् हित काम्यया ।दक्षिणा दिक् कृता येन शरण्या पुण्य कर्मणा ॥३-११-८१॥
तस्य इदम् आश्रम पदम् प्रभावाद् यस्य राक्षसैः ।दिक् इयम् दक्षिणा त्रासाद् दृश्यते न उपभुज्यते ॥३-११-८२॥
यदा प्रभृति च आक्रान्ता दिग् इयम् पुण्य कर्मणा ।तदा प्रभृति निर् वैराः प्रशान्ता रजनी चराः ॥३-११-८३॥
नाम्ना च इयम् भगवतो दक्षिणा दिक् प्रदक्षिणा ।प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूर कर्मभिः ॥३-११-८४॥
मार्गम् निरोद्धुम् सततम् भास्करस्य अचल उत्तमः ।संदेशम् पालयन् तस्य विंध्य शैलो न वर्धते ॥३-११-८५॥
अयम् दीर्घ आयुषः तस्य लोके विश्रुत कर्मणः ।अगस्त्यस्य आश्रमः श्रीमान् विनीत मृग सेवितः ॥३-११-८६॥
एष लोक अर्चितः साधुः हिते नित्यम् रतः सताम् ।अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति ॥३-११-८७॥
आराधयिष्यामि अत्र अहम् अगस्त्यम् तम् महामुनिम् ।शेषम् च वन वासस्य सौम्य वत्स्यामि अहम् प्रभो ॥३-११-८८॥
अत्र देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ।अगस्त्यम् नियत आहाराः सततम् पर्युपासते ॥३-११-८९॥
न अत्र जीवेत् मृषावादी क्रूरो वा यदि वा शठः ।नृशंसः पाप वृत्तो वा मुनिः एष तथा विधः ॥३-११-९०॥
अत्र देवाः च यक्षाः च नागाः च पतगैः सह ।वसन्ति नियत आहारा धर्मम् आराधयिष्णवः ॥३-११-९१॥
अत्र सिद्धा महात्मानो विमानैः सूर्य सन्निभैः ।त्यक्त्वा देहान् नवैर् देहैः स्वर् याताः परम ऋषयः ॥३-११-९२॥
यक्षत्वम् अमरत्वम् च राज्यानि विविधानि च ।अत्र देवाः प्रयच्छन्ति भूतैः आराधिताः शुभैः ॥३-११-९३॥
आगताः स्म आश्रम पदम् सौमित्रे प्रविश अग्रतः ।निवेदय इह माम् प्राप्तम् ऋषये सह सीतया ॥३-११-९४॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 10
- Next: Araṇya-Kāṇḍa Sarga 12 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷