🪷 अरण्यकाण्ड · Sarga 12
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 12 · 37 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.12local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
स प्रविश्य आश्रम पदम् लक्ष्मणो राघव अनुजः ।अगस्त्य शिष्यम् आसाद्य वाक्यम् एतद् उवाच ह ॥३-१२-१॥
राजा दशरथो नाम ज्येष्ठः तस्य सुतो बली ।रामः प्राप्तो मुनिम् द्रष्टुम् भार्यया सह सीतया ॥३-१२-२॥
लक्ष्मणो नाम तस्य अहम् भ्राता तु अवरजो हितः ।अनुकूलः च भक्तः च यदि ते श्रोत्रम् आगतः ॥३-१२-३॥
ते वयम् वनम् अत्युग्रम् प्रविष्टाः पितृ शासनात् ।द्रष्टुम् इच्छामहे सर्वे भगवन्तम् निवेद्यताम् ॥३-१२-४॥
तस्य तद् वचनम् श्रुत्वा लक्ष्मणस्य तपोधनः ।तथा इति उक्त्वा अग्नि शरणम् प्रविवेश निवेदितुम् ॥३-१२-५॥
स प्रविश्य मुनिश्रेष्ठम् तपसा दुष्प्रधर्षणम् ।कृत अंजलिः उवाच इदम् राम आगमनम् अञ्जसा ॥३-१२-६॥
यथा उक्तम् लक्ष्मणेन एव शिष्यः तस्य अगस्तस्य संमतः ।पुत्रौ दशरथस्य इमौ रामो लक्ष्मण एव च ॥३-१२-७॥
प्रविष्टौ आश्रमपदम् सीतया सह भार्यया ।द्रष्टुम् भवन्तम् आयातौ शुश्रूषार्थम् अरिन्दमौ ॥३-१२-८॥
यद् अत्र अनंतरम् तत् त्वम् आज्ञापयितुम् अर्हसि ।ततः शिष्यात् उपश्रुत्य प्राप्तम् रामम् स लक्ष्मणम् ॥३-१२-९॥
वैदेहीम् च महाभागाम् इदम् वचनम् अब्रवीत् ।दिष्ट्या रामः चिरस्य अद्य द्रष्टुम् माम् समुपागतः ॥३-१२-१०॥
मनसा कांक्षितम् हि अस्य मया अपि आगमनम् प्रति ।गम्यताम् सत्कृतो रामः स भार्यः सह लक्ष्मणः ॥३-१२-११॥
प्रवेश्यताम् समीपम् मे किम् असौ न प्रवेशितः ।एवम् उक्तः तु मुनिना धर्मज्ञेन महात्मना ॥३-१२-१२॥
अभिवाद्य अब्रवीत् शिष्यः तथा इति नियत अंजलिः ।तदा निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणम् अब्रवीत् ॥३-१२-१३॥
क्व असौ रामो मुनिम् द्रष्टुम् एतु प्रविशतु स्वयम् ।ततो गत्वा आश्रम पदम् शिष्येण सह लक्ष्मणः ॥३-१२-१४॥
दर्शयामास काकुत्स्थम् सीताम् च जनकात्मजाम् ।तम् शिष्यः प्रश्रितम् वाक्यम् अगस्त्य वचनम् ब्रुवन् ॥३-१२-१५॥
प्रावेशयत् यथा न्यायम् सत्कार अर्ह सुसत्कृतम् ।प्रविवेश ततो रामः सीतया सह लक्ष्मणः ॥३-१२-१६॥
प्रशान्त हरिण आकीर्णम् आश्रमम् हि अवलोकयन् ।स तत्र ब्रह्मणः स्थानम् अग्नेः स्थानम् तथैव च ॥३-१२-१७॥
विष्णोः स्थानम् महेन्द्रस्य स्थानम् चैव विवस्वतः ।सोम स्थानम् भग स्थानम् स्थानम् कौबेरम् एव च ॥३-१२-१८॥
धातुर् विधातुः स्थानम् च वायोः स्थानम् तथैव च ।स्थानम् च पाश हस्तस्य वारुणस्य महात्मनः ॥३-१२-१९॥
स्थानम् तथैव गायत्र्या वसूनाम् स्थानम् एव च ।स्थानम् च नागराजस्य गरुड स्थानम् एव च ॥३-१२-२०॥
कार्तिकेयस्य च स्थानम् धर्म स्थानम् च पश्यति ।ततः शिष्यैः परिवृतो मुनिर् अपि अभिनिष्पतत् ॥३-१२-२१॥
तम् ददर्श अग्रतो रामो मुनीनाम् दीप्त तेजसम् ।अब्रवीत् वचनम् वीरो लक्ष्मणम् लक्ष्मिवर्धनम् ॥३-१२-२२॥
बहिर् लक्ष्मण निष्क्रामति अगस्त्यो भगवान् ऋषिः ।औदार्येण अवगच्छामि निधानम् तपसाम् इमम् ॥३-१२-२३॥
एवम् उक्त्वा महाबाहुः अगस्त्यम् सूर्य वर्चसम् ।जग्राह आपतत् तस्य पादौ च रघुनन्दन ॥३-१२-२४॥
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृतांजलिः ।सीतया सह वैदेह्या तदा रामः स लक्ष्मणः ॥३-१२-२५॥
प्रतिगृह्य च काकुत्स्थम् अर्चयित्वा आसन उदकैः ।कुशल प्रश्नम् उक्त्वा च आस्यताम् इति सोऽब्रवीत् ॥३-१२-२६॥
अग्निम् हुत्वा प्रदाय अर्घ्यम् अतिथिन् प्रतिपूज्य च ।वानप्रस्थेन धर्मेण स तेषाम् भोजनम् ददौ ॥३-१२-२७॥
प्रथमम् च उपविश्य अथ धर्मज्ञो मुनिपुंगवः ।उवाच रामम् आसीनम् प्रांजलिम् धर्मकोविदम् ॥३-१२-२८॥
अग्निम् हुत्वा प्रदाय अर्घ्यम् अतिथिम् प्रतिपूजयेत् ।अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् ।दुःसाक्षी इव परे लोके स्वानि मांसानि भक्षयेत् ॥३-१२-२९॥
राजा सर्वस्य लोकस्य धर्मचारी महारथः ।पूजनीयः च मान्यः च भवान् प्राप्तः प्रिय अतिथिः ॥३-१२-३०॥
एवम् उक्त्वा फलैः मूलैः पुष्पैः च अन्यैः च राघवम् ।पूजयित्वा यथा कामम् ततो अगस्त्यः तम् अब्रवीत् ॥३-१२-३१॥
इदम् दिव्यम् महत् चापम् हेम वज्र विभूषितम् ।वैष्णवम् पुरुषव्याघ्र निर्मितम् विश्वकर्मणा ॥३-१२-३२॥
अमोघः सूर्य संकाशो ब्रह्मदत्तः शर उत्तमः ।दत्तो मम महेन्द्रेण तूणी च अक्षय सायकौ ॥३-१२-३३॥
संपूर्णौ निशितैः बाणैः ज्वलद्भिः इव पावकैः ।महा रजत कोशो अयम् असिः हेमविभूषितः ॥३-१२-३४॥
अनेन धनुषा राम हत्वा संख्ये महासुरान् ।आजहार श्रियम् दीप्ताम् पुरा विष्णुर् दिव ओकसाम् ॥३-१२-३५॥
तत् धनुः तौ च तूणि च शरम् खड्गम् च मानद ।जयाय प्रतिगृह्णीष्व वज्रम् वज्रधरो यथा ॥३-१२-३६॥
एवम् उक्त्वा महा तेजाः समस्तम् तत् वर आयुधम् ।दत्त्वा रामाय भगवान् अगस्त्यः पुनर् अब्रवीत् ॥३-१२-३७॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 11
- Next: Araṇya-Kāṇḍa Sarga 13 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷