🪷 अरण्यकाण्ड · Sarga 13
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 13 · 25 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.13local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
राम प्रीतो अस्मि भद्रम् ते परितुष्टो अस्मि लक्ष्मण ।अभिवादयितुम् यन् माम् प्राप्तौ स्थः सह सीतया ॥३-१३-१॥
अध्व श्रमेण वाम् खेदो बाधते प्रचुर श्रमः ।व्यक्तम् उत्कण्ठते वा अपि मैथिली जनक आत्मजा ॥३-१३-२॥
एषा च सुकुमारी च खेदैः च न विमानिता ।प्राअज्य दोषम् वनम् प्रप्ता भर्तृ स्नेह प्रचोदिता ॥३-१३-३॥
यथा एषा रमते राम इह सीता तथा कुरु ।दुष्करम् कृतवती एषा वने त्वाम् अभिगच्छती ॥३-१३-४॥
एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे रघुनंदन ।समस्थम् अनुरंजंते विषमस्थम् त्यजन्ति च ॥३-१३-५॥
शत ह्रदानाम् लोलत्वम् शस्त्राणाम् तीक्ष्णताम् तथा ।गरुड अनिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः ॥३-१३-६॥
इयम् तु भवतो भार्या दोषैर् एतैर् विवर्जिताः ।श्लाघ्या च व्यपदेश्या च यथा देवी हि अरुन्धती ॥३-१३-७॥
अलंकृतो अयम् देशः च यत्र सौमित्रिणा सह ।वैदेह्या च अनया राम वत्स्यसि त्वम् अरिंदम ॥३-१३-८॥
एवम् उक्तः तु मुनिना राघवः संयत अंजलिः ।उवाच प्रश्रितम् वाक्यम् ऋषिम् दीप्तम् इव अनलम् ॥३-१३-९॥
धन्योस्मि अनुगृहीतोस्मि यस्य मे मुनि पुंगवः ।गुणैः सभ्रातृ भार्यस्य गुरुः नः परितुष्यति ॥३-१३-१०॥
किन्तु व्यादिश मे देशम् स उदकम् बहु काननम् ।यत्र आश्रम पदम् कृत्वा वसेयम् निरतः सुखम् ॥३-१३-११॥
ततो अब्रवीत् मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् ।ध्यात्वा मुहूर्तम् धर्मात्मा धीरो धीरतरम् वचः ॥३-१३-१२॥
इतो द्वि योजने तात बहु मूल फल उदकः ।देशो बहु मृगः श्रीमान् पंचवटि अभिविश्रुतः ॥३-१३-१३॥
तत्र गत्वा आश्रम पदम् कृत्वा सौमित्रिणा सह ।रमस्व त्वम् पितुर् वाक्यम् यथा उक्तम् अनुपालयन् ॥३-१३-१४॥
विदितो हि एष वृत्तांतो मम सर्वः तव अनघ ।तपसः च प्रभावेण स्नेहाद् दशरथस्य च ॥३-१३-१५॥
हृदयस्थः च ते छन्दो विज्ञातः तपसा मया ।इह वासम् प्रतिज्ञाय मया सह तपो वने ॥३-१३-१६॥
अतः च त्वाम् अहम् ब्रूमि गच्छ पंचवटीम् इति ।स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ॥३-१३-१७॥
स देशः श्लाघनीयः च न अतिदूरे च राघव ।गोदावर्याः समीपे च मैथिली तत्र रंस्यते ॥३-१३-१८॥
प्राज्य मूल फलैः चैव नाना द्विज गणैर् युतः ।विविक्तः च महाबाहो पुण्यो रम्यः तथैव च ॥३-१३-१९॥
भवान् अपि सदाचारः च शक्तः च परिरक्षणे ।अपि च अत्र वसन् राम तापसान् पालयिष्यसि ॥३-१३-२०॥
एतत् आलक्ष्यते वीर मधूकानाम् महत् वनम् ।उत्तरेण अस्य गंतव्यम् न्यग्रोधम् अपि गच्छता ॥३-१३-२१॥
ततः स्थलम् उपारुह्य पर्वतस्य अविदूरतः ।ख्यातः पंचवटी इति एव नित्य पुष्पित काननः ॥३-१३-२२॥
अगस्त्येन एवम् उक्तः तु रामः सौमित्रिणा सह ।सत्कृत्य आमंत्रयामास तम् ऋषिम् सत्य वादिनम् ॥३-१३-२३॥
तौ तु तेन अभ्यनुज्ञातौ कृत पाद अभिवन्दनौ ।तम् आश्रमम् पंचवटीम् जग्मतुः सह सीतया ॥३-१३-२४॥
गृहीत चापौ तु नराधिप आत्मजौ<br>विषक्त तूणी समरेषु अकातरौ ।यथा उपदिष्टेन पथा महर्षिणा ।प्रजग्मतुः पंचवटीम् समाहितौ ॥३-१३-२५॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 12
- Next: Araṇya-Kāṇḍa Sarga 14 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷