🪷 अरण्यकाण्ड · Sarga 14

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 14 · 36 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.14local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.14.1
अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः ।आससाद महाकायम् गृध्रम् भीम पराक्रमम् ॥३-१४-१॥
Vālmīki 3.14.2
तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ ।मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति ॥३-१४-२॥
Vālmīki 3.14.3
स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव ।उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः ॥३-१४-३॥
Vālmīki 3.14.4
स तम् पितृ सखम् मत्वा पूजयामास राघवः ।स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥३-१४-४॥
Vālmīki 3.14.5
रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च ।आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम् ॥३-१४-५॥
Vālmīki 3.14.6
पूर्वकाले महाबाहो ये प्रजापतयो अभवन् ।तान् मे निगदतः सर्वान् आदितः शृणु राघव ॥३-१४-६॥
Vālmīki 3.14.7
कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् ।शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान् ॥३-१४-७॥
Vālmīki 3.14.8
स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः ।पुलस्त्यः च अंगिराः चैव प्रचेताः पुलहः तथा ॥३-१४-८॥
Vālmīki 3.14.9
दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव ।कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः ॥३-१४-९॥
Vālmīki 3.14.10
प्रजापतेः तु दक्षस्य बभूवुर् इति विश्रुतम् ।षष्टिर् दुहितरो राम यशस्विन्यो महायशः ॥३-१४-१०॥
Vālmīki 3.14.11
कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः ।अदितिम् च दितिम् चैव दनूम् अपि च कालकाम् ॥३-१४-११॥
Vālmīki 3.14.12
ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि ।ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत् ॥३-१४-१२॥
Vālmīki 3.14.13
पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् ।अदितिः तन् मना राम दितिः च दनुर् एव च ॥३-१४-१३॥
Vālmīki 3.14.14
कालका च महाबाहो शेषाः तु अमनसो अभवन् ।अदित्याम् जज्ञिरे देवाः त्रयः त्रिंशत् अरिंदम ॥३-१४-१४॥
Vālmīki 3.14.15
आदित्या वसवो रुद्रा अश्विनौ च परंतप ।दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः ॥३-१४-१५॥
Vālmīki 3.14.16
तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा ।दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥३-१४-१६॥
Vālmīki 3.14.17
नरकम् कालकम् चैव कालका अपि व्यजायत ।क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम् ॥३-१४-१७॥
Vālmīki 3.14.18
ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः ।उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत ॥३-१४-१८॥
Vālmīki 3.14.19
श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः ।धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः ॥३-१४-१९॥
Vālmīki 3.14.20
चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी ।शुकी नताम् विजज्ञे तु नताया विनता सुता ॥३-१४-२०॥
Vālmīki 3.14.21
दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः ।मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि ॥३-१४-२१॥
Vālmīki 3.14.22
मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा ।सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि ॥३-१४-२२॥
Vālmīki 3.14.23
अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम ।ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा ॥३-१४-२३॥
Vālmīki 3.14.24
ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् ।तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः ॥३-१४-२४॥
Vālmīki 3.14.25
हर्याः च हरयो अपत्यम् वानराः च तपस्विनः ।गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् ॥३-१४-२५॥
Vālmīki 3.14.26
मातंग्याः तु अथ मातन्गाअपत्यम् मनुज ऋषभ ।दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम् ॥३-१४-२६॥
Vālmīki 3.14.27
ततो दुहितरौ राम सुरभिर् द्वे वि अजायत ।रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् ॥३-१४-२७॥
Vālmīki 3.14.28
रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् ।सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान् ॥३-१४-२८॥
Vālmīki 3.14.29
मनुर् मनुष्यान् जनयत् कश्यपस्य महात्मनः ।ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ ॥३-१४-२९॥
Vālmīki 3.14.30
मुखतो ब्राह्मणा जाता उरसः क्षत्रियाः तथा ।ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः ॥३-१४-३०॥
Vālmīki 3.14.31
सर्वान् पुण्य फलान् वृक्षान् अनला अपि व्यजायत ।विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा ॥३-१४-३१॥
Vālmīki 3.14.32
कद्रूर् नाग सहस्रम् तु विजज्ञे धरणीधरन् ।द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च ॥३-१४-३२॥
Vālmīki 3.14.33
तस्मात् जातो अहम् अरुणात् संपातिः च मम अग्रजः ।जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम ॥३-१४-३३॥
Vālmīki 3.14.34
सो अहम् वास सहायः ते भविष्यामि यदि इच्छसि ।इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३-१४-३४॥
Vālmīki 3.14.35
जटायुषम् तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतो अभवत् ।पितुर् हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनः पुनः ॥३-१४-३५॥
Vālmīki 3.14.36
स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा ।जगाम ताम् पंचवटीम् सलक्ष्मणो रिपून् दिधक्षन् शलभान् इव अनलः ॥३-१४-३६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷