🪷 अरण्यकाण्ड · Sarga 15

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 15 · 30 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.15local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.15.1
ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् ।उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-१५-१॥
Vālmīki 3.15.2
आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् ।अयम् पंचवटी देशः सौम्य पुष्पित काननः ॥३-१५-२॥
Vālmīki 3.15.3
सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि ।आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः ॥३-१५-३॥
Vālmīki 3.15.4
रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण ।तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः ॥३-१५-४॥
Vālmīki 3.15.5
वन रामण्यकम् यत्र जल रामण्यकम् तथा ।संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम् ॥३-१५-५॥
Vālmīki 3.15.6
एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः ।सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत् ॥३-१५-६॥
Vālmīki 3.15.7
परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते ।स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद ॥३-१५-७॥
Vālmīki 3.15.8
सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः ।विमृशन् रोचयामास देशम् सर्व गुण अन्वितम् ॥३-१५-८॥
Vālmīki 3.15.9
स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि ।हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥३-१५-९॥
Vālmīki 3.15.10
अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः ।इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि ॥३-१५-१०॥
Vālmīki 3.15.11
इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः ।अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता ॥३-१५-११॥
Vālmīki 3.15.12
यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना ।इयम् गोदावरी रम्या पुष्पितैः तरुभिर् वृता ॥३-१५-१२॥
Vālmīki 3.15.13
हंस कारण्डव आकीर्णा चक्रवाक उपशोभिता ।न अतिदूरे न च आसन्ने मृग यूथ निपीडिता ॥३-१५-१३॥
Vālmīki 3.15.14
मयूर नादिता रम्याः प्रांशवो बहु कंदराः ।दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिर् आवृताः ॥३-१५-१४॥
Vālmīki 3.15.15
सौवर्णै राजतैः ताम्रैः देशे देशे च धातुभिः ।गवाक्षिता इव आभान्ति गजाः परम भक्तिभिः ॥३-१५-१५॥
Vālmīki 3.15.16
सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः ।नीवारैः तिनिशैः चैव पुन्नागैः च उपशोभिताः ॥३-१५-१६॥
Vālmīki 3.15.17
चूतैर् अशोकैः तिलकैः केतकैर् अपि चंपकैः ।पुष्प गुल्म लता उपेतैः तैः तैः तरुभिर् आवृताः ॥३-१५-१७॥
Vālmīki 3.15.18
स्यन्दनैः चंदनैः नीपैः पर्णासैः लकुचैः अपि ।धव अश्वकर्ण खदिरैः शमी किंशुक पाटलैः ॥३-१५-१८॥
Vālmīki 3.15.19
इदम् पुण्यम् इदम् रम्यम् इदम् बहु मृग द्विजम् ।इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा ॥३-१५-१९॥
Vālmīki 3.15.20
एवम् उक्तः तु रामेण लक्ष्मणः परवीरहा ।अचिरेण आश्रमम् भ्रातुः चकार सुमहाबलः ॥३-१५-२०॥
Vālmīki 3.15.21
पर्णशालाम् सुविपुलाम् तत्र संघात मृत्तिकाम् ।सुस्तंभाम् मस्करैर् दीर्घैः कृत वंशाम् सुशोभनाम् ॥३-१५-२१॥
Vālmīki 3.15.22
शमी शाखाभिः आस्तीर्य धृढ पाशावपाशितम् ।कुश काश शरैः पर्णैः सुपरिच्छादिताम् तथा ॥३-१५-२२॥
Vālmīki 3.15.23
समीकृत तलाम् रम्याम् चकार सुमहाबलः ।निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम् ॥३-१५-२३॥
Vālmīki 3.15.24
स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा ।स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः ॥३-१५-२४॥
Vālmīki 3.15.25
ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि ।दर्शयामास रामाय तद् आश्रम पदम् कृतम् ॥३-१५-२५॥
Vālmīki 3.15.26
स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया ।राघवः पर्णशालायाम् हर्षम् आहारयत् परम् ॥३-१५-२६॥
Vālmīki 3.15.27
सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा ।अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत् ॥३-१५-२७॥
Vālmīki 3.15.28
प्रीतो अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो ।प्रदेयो यन् निमित्तम् ते परिष्वंगो मया कृतः ॥३-१५-२८॥
Vālmīki 3.15.29
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण ।त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥३-१५-२९॥
Vālmīki 3.15.30
एवम् लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः ।तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी ॥३-१५-३०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷