🪷 अरण्यकाण्ड · Sarga 16

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 16 · 43 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 3.16.1
वसतः तस्य तु सुखम् राघवस्य महात्मनः ।शरद् व्यपाये हेमंतऋतुर् इष्टः प्रवर्तत ॥३-१६-१॥
Vālmīki 3.16.2
स कदाचित् प्रभातायाम् शर्वर्याम् रघुनंदनः ।प्रययाव अभिषेकार्थम् रम्यम् गोदावरीम् नदीम् ॥३-१६-२॥
Vālmīki 3.16.3
प्रह्वः कलश हसतः तम् सीतया सह वीर्यवान् ।पृष्ठतो अनुव्रजन् भ्राता सौमित्रिर् इदम् अब्रवीत् ॥३-१६-३॥
Vālmīki 3.16.4
अयम् स कालः संप्राप्तः प्रियो यः ते प्रियंवद ।अलंकृत इव आभाति येन संवत्सरः शुभः ॥३-१६-४॥
Vālmīki 3.16.5
नीहार परुषो लोकः पृथिवी सस्य मालिनी ।जलानि अनुपभोग्यानि सुभगो हव्य वाहनः ॥३-१६-५॥
Vālmīki 3.16.6
नव आग्रयण पूजाभिर् अभ्यर्च्य पितृ देवताः ।कृत आग्रयणकाः काले सन्तो विगत कल्मषाः ॥३-१६-६॥
Vālmīki 3.16.7
प्राज्यकामा जनपदाः संपन्नतर गो रसाः ।विचरन्ति महीपाला यात्र अर्थम् विजिगीषवः ॥३-१६-७॥
Vālmīki 3.16.8
सेवमाने दृढम् सूर्ये दिशम् अन्तक सेविताम् ।विहीन तिलका इव स्त्री न उत्तरा दिक् प्रकाशते ॥३-१६-८॥
Vālmīki 3.16.9
प्रकृत्या हिम कोश आढ्यो दूर सूर्याः च सांप्रतम् ।यथार्थ नामा सुव्यक्तम् हिमवान् हिमवान् गिरिः ॥३-१६-९॥
Vālmīki 3.16.10
अत्यन्त सुख संचारा मध्याह्ने स्पर्शतः सुखाः ।दिवसाः सुभग आदित्याअः छाया सलिल दुर्भगाः ॥३-१६-१०॥
Vālmīki 3.16.11
मृदु सूर्याः सनीहाराः पटु शीताः समारुताः ।शून्य अरण्या हिम ध्वस्ता दिवसा भान्ति साम्प्रतम् ॥३-१६-११॥
Vālmīki 3.16.12
निवृत्त आकाश शयनाः पुष्यनीता हिम अरुणाः ।शीता वृद्धतर आयामः त्रि यामा यान्ति सांप्रतम् ॥३-१६-१२॥
Vālmīki 3.16.13
रवि संक्रान्त सौभाग्यः तुषार अरुण मण्डलः ।निःश्वास अन्ध इव आदर्शाः चंद्रमा न प्रकाशते ॥३-१६-१३॥
Vālmīki 3.16.14
ज्योत्स्ना तुषार मलिना पौर्णमास्याम् न राजते ।सीता इव च आतप श्यामा लक्ष्यते न तु शोभते ॥३-१६-१४॥
Vālmīki 3.16.15
प्रकृत्या शीतल स्पर्शो हिम विद्धाः च सांप्रतम् ।प्रवाति पश्चिमो वायुः काले द्वि गुण शीतलः ॥३-१६-१५॥
Vālmīki 3.16.16
बाष्प च्छन्नानि अरण्यानि यव गोधूमवंति च ।शोभन्ते अभ्युदिते सूर्ये नदद्भिः क्रौन्च सारसैः ॥३-१६-१६॥
Vālmīki 3.16.17
खर्जूर पुष्प आकृतिभिः शिरोभिः पूर्ण तण्डुलैः ।शोभन्ते किंचिद् आलंबाः शालयः कनक प्रभाः ॥३-१६-१७॥
Vālmīki 3.16.18
मयूखैः उपसर्पद्भिः हिम नीहार संवृतैः ।दूरम् अभ्युदितः सूर्यः शशांक इव लक्ष्यते ॥३-१६-१८॥
Vālmīki 3.16.19
अग्राह्य वीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः ।संरक्तः किंचिद् आपाण्डुः आतपः शोभते क्षितौ ॥३-१६-१९॥
Vālmīki 3.16.20
अवश्याय निपातेन किंचित् प्रक्लिन्न शाद्वला ।वनानाम् शोभते भूमिर् निविष्ट तरुण आतपा ॥३-१६-२०॥
Vālmīki 3.16.21
स्पृशन् तु सुविपुलम् शीतम् उदकम् द्विरदः सुखम् ।अत्यन्त तृषितो वन्यः प्रतिसंहरते करम् ॥३-१६-२१॥
Vālmīki 3.16.22
एते हि समुपासीना विहगा जलचारिणः ।न अवगाहन्ति सलिलम् अप्रगल्भा इव आवहम् ॥३-१६-२२॥
Vālmīki 3.16.23
अवश्याय तमो नद्धा नीहार तमसा आवृताः ।प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वन राजयः ॥३-१६-२३॥
Vālmīki 3.16.24
बाष्प संचन्न सलिला रुत विज्ञेय सारसाः ।हिमाअर्द्र वालुकैः तीरैः सरितो भान्ति सांप्रतम् ॥३-१६-२४॥
Vālmīki 3.16.25
तुषार पतनात् चैव मृदुत्वात् भास्करस्य च ।शैत्यात् अग अग्रस्थम् अपि प्रायेण रसवत् जलम् ॥३-१६-२५॥
Vālmīki 3.16.26
जरा जर्जरितैः पत्रैः शीर्ण केसर कर्णिकैः ।नाल शेषा हिम ध्वस्ता न भान्ति कमलाकराः ॥३-१६-२६॥
Vālmīki 3.16.27
अस्मिन् तु पुरुषव्याघ्र काले दुःख समन्वितः ।तपश्चरति धर्मात्मा त्वत् भक्त्या भरतः पुरे ॥३-१६-२७॥
Vālmīki 3.16.28
त्यक्त्वा राज्यम् च मानम् च भोगांश्च विविधान् बहून् ।तपस्वी नियताहारः शेते शीते महीतले ॥३-१६-२८॥
Vālmīki 3.16.29
सोऽपि वेलाम् इमाम् नूनम् अभिषेक अर्थम् उद्यतः ।वृतः प्रकृतिभिर् नित्यम् प्रयाति सरयूम् नदीम् ॥३-१६-२९॥
Vālmīki 3.16.30
अत्यन्त सुख संवृद्धः सुकुमारो हिमार्दितः ।कथम् तु अपर रात्रेषु सरयूम् अवगाहते ॥३-१६-३०॥
Vālmīki 3.16.31
पद्मपत्रेक्षणः श्यामः श्रीमान् निरुदरो महान् ।धर्मज्ञः सत्यवादी च ह्री निषेधो जितेन्द्रियः ॥३-१६-३१॥
Vālmīki 3.16.32
प्रियाभिभाषी मधुरो दीर्घबाहुः अरिन्दमः ।संत्यज्य विविधान् भोगान् आर्यम् सर्वात्मना आश्रितः ॥३-१६-३२॥
Vālmīki 3.16.33
जितः स्वर्गः तव भ्रात्रा भरतेन महात्मना ।वनस्थम् अपि तापस्ये यः त्वाम् अनुविधीयते ॥३-१६-३३॥
Vālmīki 3.16.34
न पित्र्यम् अनुवर्न्तन्ते मातृकम् द्विपदा इति ।ख्यातो लोक प्रवादो अयम् भरतेन अन्यथा कृतः ॥३-१६-३४॥
Vālmīki 3.16.35
भर्ता दशरथो यस्याः साधुः च भरतः सुतः ।कथम् नु सा अम्बा कैकेयी तादृशी क्रूरदर्शिनी ॥३-१६-३५॥
Vālmīki 3.16.36
इति एवम् लक्ष्मणे वाक्यम् स्नेहात् वदति धर्मिके ।परिवादम् जनन्यः तम् असहन् राघवो अब्रवीत् ॥३-१६-३६॥
Vālmīki 3.16.37
न ते अम्बा मध्यमा तात गर्हितव्या कथंचन ।ताम् एव इक्ष्वाकु नाथस्य भरतस्य कथाम् कुरु ॥३-१६-३७॥
Vālmīki 3.16.38
निश्चिता एव हि मे बुद्धिः वन वासे दृढ व्रता ।भरत स्नेह संतप्ता बालिशी क्रियते पुनः ॥३-१६-३८॥
Vālmīki 3.16.39
संस्मरामि अस्य वाक्यानि प्रियाणि मधुराणि च ।हृद्यानि अमृत कल्पानि मनः प्रह्लादानि च ॥३-१६-३९॥
Vālmīki 3.16.40
कदा हि अहम् समेष्यामि भरतेन महात्मना ।शत्रुघ्नेन च वीरेण त्वया च रघुनंदन ॥३-१६-४०॥
Vālmīki 3.16.41
इति एवम् विलपन् तत्र प्राप्य गोदावरीम् नदीम् ।चक्रे अभिषेकम् काकुत्स्थः सानुजः सह सीतया ॥३-१६-४१॥
Vālmīki 3.16.42
तर्पयित्वा अथ सलिलैः तैः पितॄन् दैवतानि च ।स्तुवन्ति स्म उदितम् सूर्यम् देवताअः च तथा अनघाः ॥३-१६-४२॥
Vālmīki 3.16.43
कृताभिषेकः स रराज रामः सीता द्वितीयः सह लक्ष्मणेन ।कृत अभिषेको तु अग राज पुत्र्या रुद्रः स नन्दिः भगवान् इव ईशः ॥३-१६-४३॥

Navigation

Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷