🪷 अरण्यकाण्ड · Sarga 17

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 17 · 29 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.17local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.17.1
कृत अभिषेको रामः तु सीता सौमित्रिर् एव च ।तस्मात् गोदावरी तीरात् ततो जग्मुः स्वम् आश्रमम् ॥३-१७-१॥
Vālmīki 3.17.2
आश्रमम् तम् उपागम्य राघवः सह लक्ष्मणः ।कृत्वा पौर्वाह्णिकम् कर्म पर्णशालाम् उपागमत् ॥३-१७-२॥
Vālmīki 3.17.3
उवास सुखितः तत्र पूज्यमानो महर्षभः।स रामः पर्ण शालायाम् आसीनः सह सीतया ॥३-१७-३॥
Vālmīki 3.17.4
विरराज महा बाहुः चित्रया चन्द्रमा इव ।लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥३-१७-४॥
Vālmīki 3.17.5
तदा आसीनस्य रामस्य कथा संसक्त चेतसः ।तम् देशम् राक्षसी काचिद् आजगाम यदृच्छया ॥३-१७-५॥
Vālmīki 3.17.6
सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः ।भगिनी रामम् आसाद्य ददर्श त्रिदश उपमम् ॥३-१७-६॥
Vālmīki 3.17.7
दीप्तास्यम् च महाबाहुम् पद्म पत्रायत ईक्षणम् ।गज विक्रांत गमनम् जटा मण्दल धारिणम् ॥३-१७-७॥
Vālmīki 3.17.8
सुकुमारम् महा सत्त्वम् पार्थिव व्यंजन अन्वितम् ।रामम् इन्दीवर श्यामम् कन्दर्प सदृश प्रभम् ॥३-१७-८॥
Vālmīki 3.17.9
बभूव इन्द्रोपमम् दृष्ट्वा राक्षसी काम मोहिता ।सुमुखम् दुर्मुखी रामम् वृत्त मध्यम् महोदरी ॥३-१७-९॥
Vālmīki 3.17.10
विशालाक्षम् विरूपाक्षी सुकेशम् ताम्र मूर्धजा ।प्रियरूपम् विरूपा सा सुस्वरम् भैरव स्वना ॥३-१७-१०॥
Vālmīki 3.17.11
तरुणम् दारुणा वृद्धा दक्षिणम् वाम भाषिणी ।न्याय वृत्तम् सुदुर्वृत्ता प्रियम् अप्रिय दर्शना ॥३-१७-११॥
Vālmīki 3.17.12
शरीरज समाविष्टा राक्षसी रामम् अब्रवीत् ।जटी तापस रूपेण सभार्यः शर चाप धृक् ॥३-१७-१२॥
Vālmīki 3.17.13
आगतः त्वम् इमम् देशम् कथम् राक्षस सेवितम् ।किम् आगमन कृत्यम् ते तत् त्वम् आख्यातुम् अर्हसि ॥३-१७-१३॥
Vālmīki 3.17.14
एवम् उक्तः तु राक्षस्या शूर्पणख्या परंतपः ।ऋजु बुद्धितया सर्वम् आख्यातुम् उपचक्रमे ॥३-१७-१४॥
Vālmīki 3.17.15
आसीत् दशरथो नाम राजा त्रिदश विक्रमः ।तस्य अहम् अग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥३-१७-१५॥
Vālmīki 3.17.16
भ्राता अयम् लक्ष्मणो नाम यवीयान् माम् अनुव्रतः ।इयम् भार्या च वैदेही मम सीतेति विश्रुता ॥३-१७-१६॥
Vālmīki 3.17.17
नियोगात् तु नरेन्द्रस्य पितुर् मातुः च यंत्रितः ।धर्मार्थम् धर्मकांक्षी च वनम् वस्तुम् इह आगतः ॥३-१७-१७॥
Vālmīki 3.17.18
त्वाम् तु वेदितुम् इच्छामि कस्य त्वम् का असि कस्य वा ।त्वम् हि तावन्मनोज्ञांगी राक्षसी प्रतिभासि मे ॥३-१७-१८॥
Vālmīki 3.17.19
इह वा किम् निमित्तम् त्वम् आगता ब्रूहि तत्त्वतः ।सा अब्रवीत् वचनम् श्रुत्वा राक्षसी मदन अर्दिता ॥३-१७-१९॥
Vālmīki 3.17.20
श्रूयताम् राम वक्ष्यामि तत्त्वार्थम् वचनम् मम ।अहम् शूर्पणखा नाम राक्षसी कामरूपिणी ॥३-१७-२०॥
Vālmīki 3.17.21
अरण्यम् विचरामि इदम् एका सर्व भयंकरा ।रावणो नाम मे भ्राता यदि ते श्रोत्रम् आगतः ॥३-१७-२१॥
Vālmīki 3.17.22
वीरो विश्रवसः पुत्रो यदि ते श्रोत्रम् आगतः ।प्रवृद्ध निद्रः च सदा कुंभकर्णो महाबलः ॥३-१७-२२॥
Vālmīki 3.17.23
विभीषणः तु धर्मात्मा न तु राक्षस चेष्टितः ।प्रख्यात वीर्यौ च रणे भ्रातरौ खर दूषणौ ॥३-१७-२३॥
Vālmīki 3.17.24
तान् अहम् समतिक्रान्ता राम त्वा पूर्व दर्शनात् ।समुपेता अस्मि भावेन भर्तारम् पुरुषोत्तमम् ॥३-१७-२४॥
Vālmīki 3.17.25
अहम् प्रभाव संपन्ना स्वच्छंद बल गामिनी ।चिराय भव भर्ता मे सीतया किम् करिष्यसि ॥३-१७-२५॥
Vālmīki 3.17.26
विकृता च विरूपा च न सा इयम् सदृशी तव ।अहम् एव अनुरूपा ते भार्या रूपेण पश्य माम् ॥३-१७-२६॥
Vālmīki 3.17.27
इमाम् विरूपाम् असतीम् करालाम् निर्णत उदरीम् ।अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् ॥३-१७-२७॥
Vālmīki 3.17.28
ततः पर्वत शृंगाणि वनानि विविधानि च ।पश्यन्सहमयाकामीदण्डकान्विचरिष्यसि - यद्वा - पश्यन् सह मया कामी दण्डकान् विचरिष्यसि ॥३-१७-२८॥
Vālmīki 3.17.29
इति एवम् उक्तः काकुत्स्थः प्रहस्य मदिर ईक्षणाम् ।इदम् वचनम् आरेभे वक्तुम् वाक्य विशारदः ॥३-१७-२९॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷