🪷 अरण्यकाण्ड · Sarga 18

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 18 · 26 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.18local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.18.1
ताम् तु शूर्पणखाम् रामः काम पाश अवपाशिताम् ।स्वच्छया श्लक्ष्णया वाचा स्मित पूर्वम् अथ अब्रवीत् ॥३-१८-१॥
Vālmīki 3.18.2
कृत दारो अस्मि भवति भार्या इयम् दयिता मम ।त्वत् विधानाम् तु नारीणाम् सुदुःखा ससपत्नता ॥३-१८-२॥
Vālmīki 3.18.3
अनुजः तु एष मे भ्राता शीलवान् प्रिय दर्शनः ।श्रीमान् अकृत दारः च लक्ष्मणो नाम वीर्यवान् ॥३-१८-३॥
Vālmīki 3.18.4
अपूर्वी भार्यया च अर्थी तरुणः प्रिय दर्शनः ।अनुरूपः च ते भर्ता रूपस्य अस्य भविष्यति ॥३-१८-४॥
Vālmīki 3.18.5
एनम् भज विशालाक्षि भर्तारम् भ्रातरम् मम ।असपत्ना वरारोहे मेरुम् अर्क प्रभा यथा ॥३-१८-५॥
Vālmīki 3.18.6
इति रामेण सा प्रोक्ता राक्षसी काम मोहिता ।विसृज्य रामम् सहसा ततो लक्ष्मणम् अब्रवीत् ॥३-१८-६॥
Vālmīki 3.18.7
अस्य रूपस्य ते युक्ता भार्या अहम् वरवर्णिनी ।मया सह सुखम् सर्वान् दण्डकान् विचरिष्यसि ॥३-१८-७॥
Vālmīki 3.18.8
एवम् उक्तः तु सौमित्री राक्षस्या वाक्य कोविदः ।ततः शूर्पणखीम् स्मित्वा लक्ष्मणो युक्तम् अब्रवीत् ॥३-१८-८॥
Vālmīki 3.18.9
कथम् दासस्य मे दासी भार्या भवितुम् इच्छसि ।सो अहम् आर्येण परवान् भ्रात्रा कमल वर्णिनी ॥३-१८-९॥
Vālmīki 3.18.10
समृद्ध अर्थस्य सिद्धार्था मुदित अमल वर्णिनी ।आर्यस्य त्वम् विशालाक्षि भार्या भव यवीयसी ॥३-१८-१०॥
Vālmīki 3.18.11
एनाम् विरूपाम् असतीम् करालाम् निर्णत उदरीम् ।भार्याम् वृद्धाम् परित्यज्य त्वाम् एव एष भजिष्यति ॥३-१८-११॥
Vālmīki 3.18.12
को हि रूपम् इदम् श्रेष्ठम् संत्यज्य वरवर्णिनि ।मानुषेषु वरारोहे कुर्यात् भावम् विचक्षणः ॥३-१८-१२॥
Vālmīki 3.18.13
इति सा लक्ष्मणेन उक्ता कराला निर्णतोदरी ।मन्यते तत् वचः सत्यम् परिहास अविचक्षणा ॥३-१८-१३॥
Vālmīki 3.18.14
सा रामम् पर्णशालायाम् उपविष्टम् परंतपम् ।सीतया सह दुर्धर्षम् अब्रवीत् काम मोहिता ॥३-१८-१४॥
Vālmīki 3.18.15
इमाम् विरूपाम् असतीम् करालाम् निर्णतोदरीम् ।वृद्धाम् भार्याम् अवष्टभ्य न माम् त्वम् बहु मन्यसे ॥३-१८-१५॥
Vālmīki 3.18.16
अद्य इमाम् भक्षयिष्यामि पश्यतः तव मानुषीम् ।त्वया सह चरिष्यामि निःसपत्ना यथा सुखम् ॥३-१८-१६॥
Vālmīki 3.18.17
इति उक्त्वा मृगशावाक्षीम् अलात सदृश ईक्षणा ।अभ्यधावत् सुसंक्रुद्धा महा उल्का रोहिणीम् इव ॥३-१८-१७॥
Vālmīki 3.18.18
ताम् मृत्यु पाश प्रतिमाम् आपतंतीम् महाबलः ।विगृह्य रामः कुपितः ततो लक्ष्मणम् अब्रवीत् ॥३-१८-१८॥
Vālmīki 3.18.19
क्रूरैः अनार्यैः सौमित्रे परिहासः कथंचन ।न कार्यः पश्य वैदेहीम् कथंचित् सौम्य जीवतीम् ॥३-१८-१९॥
Vālmīki 3.18.20
इमाम् विरूपाम् असतीम् अतिमत्ताम् महोदरीम् ।राक्षसीम् पुरुषव्याघ्र विरूपयितुम् अर्हसि ॥३-१८-२०॥
Vālmīki 3.18.21
इति उक्तो लक्ष्मणः तस्याः क्रुद्धो रामस्य पश्यतः ।उद्धृत्य खड्गम् चिच्छेद कर्ण नासम् महाबलः ॥३-१८-२१॥
Vālmīki 3.18.22
निकृत्त कर्ण नासा तु विस्वरम् सा विनद्य च ।यथा आगतम् प्रदुद्राव घोरा शूर्पणखा वनम् ॥३-१८-२२॥
Vālmīki 3.18.23
सा विरूपा महाघोरा राक्षसी शोणित उक्षिता ।ननाद विविधान् नादान् यथा प्रावृषि तोयदः ॥३-१८-२३॥
Vālmīki 3.18.24
सा विक्षरंती रुधिरम् बहुधा घोर दर्शना ।प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥३-१८-२४॥
Vālmīki 3.18.25
ततः तु सा राक्षस संघ सम्वृतम् खरम् जन स्थान गतम् विरूपिता ।उपेत्य तम् भ्रातरम् उग्र तेजसम् पपात भूमौ गगनाद् यथा अशनिः ॥३-१८-२५॥
Vālmīki 3.18.26
ततः सभार्यम् भय मोह मूर्चिता सलक्ष्मणम् राघवम् आगतम् वनम् ।विरूपणम् च आत्मनि शोणित उक्षिता शशम्स सर्वम् भगिनी खरस्य सा ॥३-१८-२६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷