🪷 अरण्यकाण्ड · Sarga 19
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 19 · 27 ślokas
🪷 Devanāgarī Ślokas
ताम् तथा पतिताम् दृष्ट्वा विरूपाम् शोणित उक्षिताम् ।भगिनीम् क्रोध संतप्तः खरः पप्रच्छ राक्षसः ॥३-१९-१॥
उत्तिष्ठ तावत् आख्याहि प्रमोहम् जहि संभ्रमम् ।व्यक्तम् आख्याहि केन त्वम् एवम् रूपा विरूपिता ॥३-१९-२॥
कः कृष्ण सर्पम् असीनम् आशी विषम नागसम् ।तुदति अभिसमापन्नम् अंगुलि अग्रेण लीलया ॥३-१९-३॥
काल पाशम् समासज्य कण्ठे मोहात् न जानते ।यः त्वाम् अद्य समासाद्य पीतवान् विषम् उत्तमम् ॥३-१९-४॥
बल विक्रम संपन्ना कामगा काम रूपिणी ।इमाम् अवस्थाम् नीता त्वम् केन अंतक समा गता ॥३-१९-५॥
देव गन्धर्व भूतानाम् ऋषीणाम् च महात्मनाम् ।को अयम् एवम् महावीर्यः त्वाम् विरूपाम् चकार ह ॥३-१९-६॥
न हि पश्यामि अहम् लोके यः कुर्यात् मम विप्रियम् ।अमरेषु सहस्राक्षम् महएन्द्रम् पाकशासनम् ॥३-१९-७॥
अद्य अहम् मार्गणैः प्राणान् आदास्ये जीवितांतगैः ।सलिले क्षीरम् आसक्तम् निष्पिबन् इव सारसः ॥३-१९-८॥
निहतस्य मया संख्ये शर संकृत्त मर्मणः ।सफेनम् रुधिरम् कस्य मेदिनी पातुम् इच्छसि ॥३-१९-९॥
कस्य पत्ररथाः कायात् मांसम् उत्कृत्य संगताः ।प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥३-१९-१०॥
तम् न देवा न गंधर्वा न पिशाचा न राक्षसाः ।मया अपकृष्टम् कृपणम् शक्ताः त्रातुम् इह आहवे ॥३-१९-११॥
उपलभ्य शनैः संज्ञाम् तम् मे शंसितुम् अर्हसि ।येन त्वम् दुर्विनीतेन वने विक्रम्य निर्जिता ॥३-१९-१२॥
इति भ्रातुर् वचः श्रुत्वा क्रुद्धस्य च विशेषतः ।ततः शूर्पणखा वाक्यम् सबाष्पम् इदम् अब्रवीत् ॥३-१९-१३॥
तरुणौ रूप संपन्नौ सुकूमारौ महाबलौ ।पुण्डरीक विशालाक्षौ चीर कृष्ण अजिन अंबरौ ॥३-१९-१४॥
फल मूल अशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।पुत्रौ दशरथस्य आस्ताम् भ्रातरौ राम लक्ष्मनौ ॥३-१९-१५॥
गन्धर्व राज प्रतिमौ पार्थिव व्यन्जन अन्वितौ ।देवौ वा दानवौ - मानुषौ - वा तौ न तर्कयितुम् उत्सहे ॥३-१९-१६॥
तरुणी रूपसंपन्ना सर्वाअभरण भूषिता ।दृष्टा तत्र मया नारी तयोर् मध्ये सुमध्यमा ॥३-१९-१७॥
ताभ्याम् उभाभ्याम् संभूय प्रमदाम् अधिकृत्य ताम् ।इमाम् अवस्थाम् नीता अहम् यथा अनाथा सती तथा ॥३-१९-१८॥
तस्याः च अनृजु वृत्तायाः तयोः च हतयोर् अहम् ।सफेनम् पातुम् इच्छामि रुधिरम् रण मूर्धनि ॥३-१९-१९॥
एष मे प्रथमः कामः कृतः तत्र त्वया भवेत् ।तस्याः तयोः च रुधिरम् पिबेयम् अहम् आहवे ॥३-१९-२०॥
इति तस्याम् ब्रुवाणायाम् चतुर् दश महाबलान् ।व्यादिदेश खरः क्रुद्धो राक्षसान् अंतकोपमान् ॥३-१९-२१॥
मानुषौ शस्त्र सम्पन्नौ चीर कृष्ण अजिन अंबरौ ।प्रविष्टौ दण्डकारण्यम् घोरम् प्रमदया सह ॥३-१९-२२॥
तौ हत्वा ताम् च दुर्वृत्ताम् उपावर्तितुम् अर्हथ ।इयम् च रुधिरम् तेषाम् भगिनी मम पास्यति ॥३-१९-२३॥
मनोरथो अयम् इष्टो अस्या भगिन्या मम राक्षसाः ।शीघ्रम् संपद्यताम् गत्वा तौ प्रमथ्य स्व तेजसा ॥३-१९-२४॥
युष्माबिः निर्हतो दृष्ट्वा तौ उभौ भ्रातौ रणे ।इयम् प्रहृष्टा मुदिता रुधिरम् युधि पास्यति ॥३-१९-२५॥
इति प्रतिसमादिष्टा राक्षसाः ते चतुर् दश ।तत्र जग्मुः तया सार्धम् घना वातेरिताः यथा ॥३-१९-२६॥
ततस्तु ते तम् समुदर्ग तेजसम्<BR>तथापि तीक्ष्ण प्रदरा निशाचरा ।न शेकुर् एनम् सहसा प्रमर्दितुम्<BR>वनद्विपा दीप्त्वम् इव अग्निम् उथितम् ॥३-१९-२७॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 18
- Next: Araṇya-Kāṇḍa Sarga 20 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷