🪷 अरण्यकाण्ड · Sarga 20
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 20 · 25 ślokas
🪷 Devanāgarī Ślokas
ततः शूर्पणखा घोरा राघव आश्रमम् आगता ।रक्षसान् आचचक्षे तौ भ्रातरौ सह सीतया ॥३-२०-१॥
ते रामम् पर्ण शालायाम् उपविष्टम् महाबलम् ।ददृशुः सीतया सार्धम् लक्ष्मणेन अपि सेवितम् ॥३-२०-२॥
ताम् दृष्ट्वा राघवः श्रीमान् आगताम् ताम् च राक्षसीम् ।अब्रवीत् भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-२०-३॥
मुहूर्तम् भव सौमित्रे सीतायाः प्रत्यनंतरः ।इमान् अस्या वधिष्यामि पदवीम् आगतान् इह ॥३-२०-४॥
वाक्यम् एतत् ततः श्रुत्वा रामस्य विदित आत्मनः ।तथा इति लक्ष्मणो वाक्यम् रामस्य प्रत्यपूजयत् ॥३-२०-५॥
राघवो अपि महत् चापम् चामीकर विभूषितम् ।चकार सज्यम् धर्मात्मा तानि रक्षांसि च अब्रवीत् ॥३-२०-६॥
पुत्रौ दशरथस्य आवाम् भ्रातरौ राम लक्ष्मणौ ।प्रविष्टौ सीतया सार्धम् दुश्चरम् दण्डका वनम् ॥३-२०-७॥
फल मूल अशनौ दांतौ तापसौ धर्म चारिणौ ।वसन्तौ दण्डकारण्ये किम् अर्थम् उपहिंसथ ॥३-२०-८॥
युष्मान् पाप आत्मकान् हंतुम् विप्रकारान् महाहवे ।ऋषीणाम् तु नियोगेन प्राप्तो अहम् सशर आसनः ॥३-२०-९॥
तिष्ठत एव अत्र संतुष्टा न उपवरितितुम् अर्हथ ।यदि प्राणैः इह अर्थो वो निवर्तध्वम् निशा चराः ॥३-२०-१०॥
तस्य तद् वचनम् श्रुत्वा राक्षसाः ते चतुर्दश ।ऊचुर् वाचम् सुसंक्रुद्धा ब्रह्मघ्नः शूल पाणयः ॥३-२०-११॥
संरक्त नयना घोरा रामम् रक्तांत लोचनम् ।परुषा मधुर आभाषम् हृष्टाः अदृष्ट पराक्रमम् ॥३-२०-१२॥
क्रोधम् उत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।त्वम् एव हास्यसे प्राणान् अद्य अस्माभिर् हतो युधि ॥३-२०-१३॥
का हि ते शक्तिर् एकस्य बहूनाम् रण मूर्धनि ।अस्माकम् अग्रतः स्थातुम् किम् पुनर् योद्धुम् आहवे ॥३-२०-१४॥
एभिः बाहु प्रयुक्तैः नः परिघैः शूल पट्टिशैः ।प्राणाम् त्यक्ष्यसि वीर्यम् च धनुः च कर पीडितम् ॥३-२०-१५॥
इति एवम् उक्त्वा संरब्धा राक्षसाः ते चतुर्दश ।उद्यत आयुध निस्त्रिंशा रामम् एव अभिदुद्रुवुः ॥३-२०-१६॥
चिक्षिपुः तानि शूलानि राघवम् प्रति दुर्जयम् ।तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ॥३-२०-१७॥
तावद्भिः एव चिच्छेद शरैः कांचन भूषितैः ।ततः पश्चात् महातेजा नाराचान् सूर्य संनिभान् ॥३-२०-१८॥
जग्राह परम क्रुद्धः चतुर्दश शिल अशितान् ।गृहीत्वा धनुः आयम्य लक्ष्यान् उद्दिश्य राक्षसान् ॥३-२०-१९॥
मुमोच राघवो बाणान् वज्रान् इव शतक्रतुः ।ते भित्त्वा रक्षसाम् वेगात् वक्षांसि रुधिर आप्लुताः ॥३-२०-२०॥
विनिष्पेतुः तदा भूमौ वल्मीकात् इव पन्नगाः ।तैः भग्न हृदया बूमौ छिन्न मूला इव द्रुमाः ॥३-२०-२१॥
निपेतुः शोणित स्नाता विकृता विगत असवः ।तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोध मूर्च्छिता ॥३-२०-२२॥
उपगम्य खरम् सा तु किंचित् संशुष्क शोणिता ।पपात पुनः एव आर्ता सनिर्यासा इव वल्लरी ॥३-२०-२३॥
भ्रातुः समीपे शोक आर्ता ससर्ज निनदम् महत् ।सस्वरम् मुमोच बाष्पम् विवर्ण वदना तदा ॥३-२०-२४॥
निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनः ततः ।वधम् च तेषाम् निखिलेन रक्षसाम् शशंस सर्वम् भगिनी खरस्य सा ॥३-२०-२५॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 19
- Next: Araṇya-Kāṇḍa Sarga 21 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷