🪷 अयोध्याकाण्ड · Sarga 85

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 85 · 22 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.85.1
एवम् उक्तः तु भरतः निषाद अधिपतिम् गुहम् ।प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥
Vālmīki 2.85.2
ऊर्जितः खलु ते कामः कृतः मम गुरोह् सखे ।यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥
Vālmīki 2.85.3
इति उक्त्वा तु महा तेजा गुहम् वचनम् उत्तमम् ।अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥
Vālmīki 2.85.4
कतरेण गमिष्यामि भरद्वाज आश्रमम् गुह ।गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥
Vālmīki 2.85.5
तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः ।अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥
Vālmīki 2.85.6
दाशाः तु अनुगमिष्यन्ति धन्विनः सुसमाहिताः ।अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥
Vālmīki 2.85.7
कच्चिन् न दुष्टः व्रजसि रामस्य अक्लिष्ट कर्मणः ।इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥
Vālmīki 2.85.8
तम् एवम् अभिभाषन्तम् आकाशैव निर्मलः ।भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥
Vālmīki 2.85.9
मा भूत् स कालो यत् कष्टम् न माम् शन्कितुम् अर्हसि ।राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥
Vālmīki 2.85.10
तम् निवर्तयितुम् यामि काकुत्स्थम् वन वासिनम् ।बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥
Vālmīki 2.85.11
स तु सम्हृष्ट वदनः श्रुत्वा भरत भाषितम् ।पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥
Vālmīki 2.85.12
धन्यः त्वम् न त्वया तुल्यम् पश्यामि जगती तले ।अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥
Vālmīki 2.85.13
शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति ।यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥
Vālmīki 2.85.14
एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा ।बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥
Vālmīki 2.85.15
सम्निवेश्य स ताम् सेनाम् गुहेन परितोषितः ।शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥
Vālmīki 2.85.16
राम चिन्तामयः शोको भरतस्य महात्मनः ।उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥
Vālmīki 2.85.17
अन्तर् दाहेन दहनः सम्तापयति राघवम् ।वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥
Vālmīki 2.85.18
प्रस्रुतः सर्व गात्रेभ्यः स्वेदः शोक अग्नि सम्भवः ।यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥
Vālmīki 2.85.19
ध्यान निर्दर शैलेन विनिह्श्वसित धातुना ।दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥
Vālmīki 2.85.20
प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना ।आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥
Vālmīki 2.85.21
विनिश्श्वसन्वै भृशदुर्मनास्ततः ।प्रमूढसम्ज्ञः परमापदम् गतः ।शमम् न लेभे हृदयज्वरार्दितो ।नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥
Vālmīki 2.85.22
गुहेन सार्धम् भरतः समागतः ।महा अनुभावः सजनः समाहितः ।सुदुर्मनाः तम् भरतम् तदा पुनर् ।गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷