🪷 अयोध्याकाण्ड · Sarga 86

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 86 · 25 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.86.1
आचचक्षे अथ सद्भावम् लक्ष्मणस्य महात्मनः ।भरताय अप्रमेयाय गुहो गहन गोचरः ॥२-८६-१॥
Vālmīki 2.86.2
तम् जाग्रतम् गुणैर् युक्तम् वर चाप इषु धारिणम् ।भ्रातृ गुप्त्य् अर्थम् अत्यन्तम् अहम् लक्ष्मणम् अब्रवम् ॥२-८६-२॥
Vālmīki 2.86.3
इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।प्रत्याश्वसिहि शेष्व अस्याम् सुखम् राघव नन्दन ॥२-८६-३॥
Vālmīki 2.86.4
उचितो अयम् जनः सर्वे दुह्खानाम् त्वम् सुख उचितः ।धर्म आत्ममः तस्य गुप्त्य् अर्थम् जागरिष्यामहे वयम् ॥२-८६-४॥
Vālmīki 2.86.5
न हि रामात् प्रियतरो मम अस्ति भुवि कश्चन ।मा उत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यम् तव अग्रतः ॥२-८६-५॥
Vālmīki 2.86.6
अस्य प्रसादाद् आशम्से लोके अस्मिन् सुमहद् यशः ।धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-८६-६॥
Vālmīki 2.86.7
सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।रक्षिष्यामि धनुष् पाणिः सर्वैः स्वैर् ज्नातिभिः सह ॥२-८६-७॥
Vālmīki 2.86.8
न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा ।चतुर् अन्गम् ह्य् अपि बलम् प्रसहेम वयम् युधि ॥२-८६-८॥
Vālmīki 2.86.9
एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना ।अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-८६-९॥
Vālmīki 2.86.10
कथम् दाशरथौ भूमौ शयाने सह सीतया ।शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-८६-१०॥
Vālmīki 2.86.11
यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।तम् पश्य गुह सम्विष्टम् तृणेषु सह सीतया ॥२-८६-११॥
Vālmīki 2.86.12
महता तपसा लब्धो विविधैः च परिश्रमैः ।एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-८६-१२॥
Vālmīki 2.86.13
अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति ।विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-८६-१३॥
Vālmīki 2.86.14
विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।निर्घोष उपरतम् नूनम् अद्य राज निवेशनम् ॥२-८६-१४॥
Vālmīki 2.86.15
कौसल्या चैव राजा च तथा एव जननी मम ।न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥२-८६-१५॥
Vālmīki 2.86.16
जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।दुह्खिता या तु कौसल्या वीरसूर् विनशिष्यति ॥२-८६-१६॥
Vālmīki 2.86.17
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनो रथम् ।राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-८६-१७॥
Vālmīki 2.86.18
सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले ह्य् उपस्थिते ।प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-८६-१८॥
Vālmīki 2.86.19
रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।हर्म्य प्रासाद सम्पन्नाम् सर्व रत्न विभूषिताम् ॥२-८६-१९॥
Vālmīki 2.86.20
गज अश्व रथ सम्बाधाम् तूर्य नाद विनादिताम् ।सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-८६-२०॥
Vālmīki 2.86.21
आराम उद्यान सम्पूर्णाम् समाज उत्सव शालिनीम् ।सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-८६-२१॥
Vālmīki 2.86.22
अपि सत्य प्रतिज्नेन सार्धम् कुशलिना वयम् ।निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि ॥२-८६-२२॥
Vālmīki 2.86.23
परिदेवयमानस्य तस्य एवम् सुमहात्मनः ।तिष्ठतो राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-८६-२३॥
Vālmīki 2.86.24
प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ।अस्मिन् भागीरथी तीरे सुखम् सम्तारितौ मया ॥२-८६-२४॥
Vālmīki 2.86.25
जटा धरौ तौ द्रुम चीर वाससौ ।महा बलौ कुन्जर यूथप उपमौ ।वर इषु चाप असि धरौ परम् तपौ ।व्यवेक्षमाणौ सह सीतया गतौ ॥२-८६-२५॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷