🪷 अयोध्याकाण्ड · Sarga 84

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 84 · 18 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.84.1
ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् ।निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२-८४-१॥
Vālmīki 2.84.2
महती इयम् अतः सेना सागर आभा प्रदृश्यते ।न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२-८४-२॥
Vālmīki 2.84.3
यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः ।स एष हि महा कायः कोविदार ध्वजो रथे ॥२-८४-३॥
Vālmīki 2.84.4
बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति ।अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२-८४-४॥
Vālmīki 2.84.5
सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् ।भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥२-८४-५॥
Vālmīki 2.84.6
भर्ता चैव सखा चैव रामः दाशरथिर् मम ।तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२-८४-६॥
Vālmīki 2.84.7
तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् ।बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥२-८४-७॥
Vālmīki 2.84.8
नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् ।सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२-८४-८॥
Vālmīki 2.84.9
यदा तुष्टः तु भरतः रामस्य इह भविष्यति ।सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२-८४-९॥
Vālmīki 2.84.10
इति उक्त्वा उपायनम् गृह्य मत्स्य माम्स मधूनि च ।अभिचक्राम भरतम् निषाद अधिपतिर् गुहः ॥२-८४-१०॥
Vālmīki 2.84.11
तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् ।भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥२-८४-११॥
Vālmīki 2.84.12
एष ज्ञाति सहस्रेण स्थपतिः परिवारितः ।कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥२-८४-१२॥
Vālmīki 2.84.13
तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः ।असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥२-८४-१३॥
Vālmīki 2.84.14
एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् ।उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२-८४-१४॥
Vālmīki 2.84.15
लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः ।आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीइत् ॥२-८४-१५॥
Vālmīki 2.84.16
निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् ।निवेदयामः ते सर्वे स्वके दाश कुले वस ॥२-८४-१६॥
Vālmīki 2.84.17
अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् ।आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥२-८४-१७॥
Vālmīki 2.84.18
आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् ।अर्चितः विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥२-८४-१८॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷