🪷 अयोध्याकाण्ड · Sarga 83

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 83 · 26 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.83.1
ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् ।प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥२-८३-१॥
Vālmīki 2.83.2
अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः ।अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥२-८३-२॥
Vālmīki 2.83.3
नव नाग सहस्राणि कल्पितानि यथा विधि ।अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥२-८३-३॥
Vālmīki 2.83.4
षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः ।अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-४॥
Vālmīki 2.83.5
शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् ।अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-५॥
Vālmīki 2.83.6
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥२-८३-६॥
Vālmīki 2.83.7
प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् ।तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥२-८३-७॥
Vālmīki 2.83.8
मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् ।कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् ॥२-८३-८॥
Vālmīki 2.83.9
दृष्टएव हि नः शोकम् अपनेष्यति राघवः ।तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥२-८३-९॥
Vālmīki 2.83.10
इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः ।परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥२-८३-१०॥
Vālmīki 2.83.11
ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः ।रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥२-८३-११॥
Vālmīki 2.83.12
मणि काराः च ये केचित् कुम्भ काराः च शोभनाः ।सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥२-८३-१२॥
Vālmīki 2.83.13
मायूरकाः क्राकचिका रोचका वेधकाः तथा ।दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥२-८३-१३॥
Vālmīki 2.83.14
सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः ।स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥२-८३-१४॥
Vālmīki 2.83.15
रजकाः तुन्न वायाः च ग्राम घोष महत्तराः ।शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥२-८३-१५॥
Vālmīki 2.83.16
समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः ।गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥२-८३-१६॥
Vālmīki 2.83.17
सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः ।सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥२-८३-१७॥
Vālmīki 2.83.18
प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् ।भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥२-८३-१८॥
Vālmīki 2.83.19
ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः ।समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति ॥२-८३-१९॥
Vālmīki 2.83.20
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ।निवसत्यप्रमादेन देशम् तम् परिपालयन् ॥२-८३-२०॥
Vālmīki 2.83.21
उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् ।व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥२-८३-२१॥
Vālmīki 2.83.22
निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् ।भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥२-८३-२२॥
Vālmīki 2.83.23
निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः ।विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥२-८३-२३॥
Vālmīki 2.83.24
दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः ।और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥२-८३-२४॥
Vālmīki 2.83.25
तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः ।न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥२-८३-२५॥
Vālmīki 2.83.26
निवेश्य गन्गाम् अनु ताम् महा नदीम् ।चमूम् विधानैः परिबर्ह शोभिनीम् ।उवास रामस्य तदा महात्मनो ।विचिन्तयानो भरतः निवर्तनम् ॥२-८३-२६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷