🪷 अयोध्याकाण्ड · Sarga 82

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 82 · 32 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.82.1
ताम् आर्य गण सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् ।ददर्श बुद्धि सम्पन्नः पूर्ण चन्द्राम् निशाम् इव ॥२-८२-१॥
Vālmīki 2.82.2
आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा ।अदृश्यत घन अपाये पूर्ण चन्द्रा इव शर्वरी ॥२-८२-२॥
Vālmīki 2.82.3
सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा ।अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥२-८२-३॥
Vālmīki 2.82.4
राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् ।इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत् ॥२-८२-४॥
Vālmīki 2.82.5
तात राजा दशरथः स्वर् गतः धर्मम् आचरन् ।धन धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव ॥२-८२-५॥
Vālmīki 2.82.6
रामः तथा सत्य धृतिः सताम् धर्मम् अनुस्मरन् ।न अजहात् पितुर् आदेशम् शशी ज्योत्स्नाम् इव उदितः ॥२-८२-६॥
Vālmīki 2.82.7
पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत कण्टकम् ।तत् भुन्क्ष्व मुदित अमात्यः क्षिप्रम् एव अभिषेचय ॥२-८२-७॥
Vālmīki 2.82.8
उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः ।कोट्या अपर अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते ॥२-८२-८॥
Vālmīki 2.82.9
तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः ।जगाम मनसा रामम् धर्मज्ञो धर्म कान्क्षया ॥२-८२-९॥
Vālmīki 2.82.10
स बाष्प कलया वाचा कल हम्स स्वरः युवा ।विललाप सभा मध्ये जगर्हे च पुरोहितम् ॥२-८२-१०॥
Vālmīki 2.82.11
चरित ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः ।धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत् ॥२-८२-११॥
Vālmīki 2.82.12
कथम् दशरथाज् जातः भवेद् राज्य अपहारकः ।राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि ॥२-८२-१२॥
Vālmīki 2.82.13
ज्येष्ठः श्रेष्ठः च धर्म आत्मा दिलीप नहुष उपमः ।लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा ॥२-८२-१३॥
Vālmīki 2.82.14
अनार्य जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि ।इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल पाम्सनः ॥२-८२-१४॥
Vālmīki 2.82.15
यद्द् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये ।इहस्थो वन दुर्गस्थम् नमस्यामि कृत अन्जलिः ॥२-८२-१५॥
Vālmīki 2.82.16
रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः ।त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति ॥२-८२-१६॥
Vālmīki 2.82.17
तत् वाक्यम् धर्म सम्युक्तम् श्रुत्वा सर्वे सभासदः ।हर्षान् मुमुचुर् अश्रूणि रामे निहित चेतसः ॥२-८२-१७॥
Vālmīki 2.82.18
यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् ।वने तत्र एव वत्स्यामि यथा आर्यो लक्ष्मणः तथा ॥२-८२-१८॥
Vālmīki 2.82.19
सर्व उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् ।समक्षम् आर्य मिश्राणाम् साधूनाम् गुण वर्तिनाम् ॥२-८२-१९॥
Vālmīki 2.82.20
विष्टिकर्मान्तिकाः सर्वे मार्गशोधनरक्षकाः ।प्रस्थापिता मया पूर्वम् यात्रापि मम रोचते ॥२-८२-२०॥
Vālmīki 2.82.21
एवम् उक्त्वा तु धर्म आत्मा भरतः भ्रातृ वत्सलः ।समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र कोविदम् ॥२-८२-२१॥
Vālmīki 2.82.22
तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् ।यात्राम् आज्ञापय क्षिप्रम् बलम् चैव समानय ॥२-८२-२२॥
Vālmīki 2.82.23
एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना ।हृष्टः सो अदिशत् सर्वम् यथा सम्दिष्टम् इष्टवत् ॥२-८२-२३॥
Vālmīki 2.82.24
ताः प्रहृष्टाः प्रकृतयो बल अध्यक्षा बलस्य च ।श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ॥२-८२-२४॥
Vālmīki 2.82.25
ततः योध अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे ।यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥२-८२-२५॥
Vālmīki 2.82.26
ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनो जवैः ।सह योधैः बल अध्यक्षा बलम् सर्वम् अचोदयन् ॥२-८२-२६॥
Vālmīki 2.82.27
सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु सम्निधौ ।रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत् ॥२-८२-२७॥
Vālmīki 2.82.28
भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः ।रथम् गृहीत्वा प्रययौ युक्तम् परम वाजिभिः ॥२-८२-२८॥
Vālmīki 2.82.29
स राघवः सत्य धृतिः प्रतापवान् ।ब्रुवन् सुयुक्तम् दृढ सत्य विक्रमः ।गुरुम् महा अरण्य गतम् यशस्विनम् ।प्रसादयिष्यन् भरतः अब्रवीत् तदा ॥२-८२-२९॥
Vālmīki 2.82.30
तूण समुत्थाय सुमन्त्र गच्च ।बलस्य योगाय बल प्रधानान् ।आनेतुम् इच्चामि हि तम् वनस्थम् ।प्रसाद्य रामम् जगतः हिताय ॥२-८२-३०॥
Vālmīki 2.82.31
स सूत पुत्रः भरतेन सम्यग् ।आज्ञापितः सम्परिपूर्ण कामः ।शशास सर्वान् प्रकृति प्रधानान् ।बलस्य मुख्यामः च सुहृज् जनम् च ॥२-८२-३१॥
Vālmīki 2.82.32
ततः समुत्थाय कुले कुले ते ।राजन्य वैश्या वृषलाः च विप्राः ।अयूयुजन्न् उष्ट्र रथान् खरामः च।नागान् हयामः चैव कुल प्रसूतान् ॥२-८२-३२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷