🪷 अयोध्याकाण्ड · Sarga 81
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 81 · 16 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 2.81local sarga route with all Sanskrit ślokasAyodhyā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः ।तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥२-८१-१॥
सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः ।दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥२-८१-२॥
स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव ।भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२-८१-३॥
ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च ।न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२-८१-४॥
पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् ।विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-५॥
तस्य एषा धर्म राजस्य धर्म मूला महात्मनः ।परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-६॥
यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् ।अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-७॥
इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् ।कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-८॥
तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् ।सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-९॥
शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् ।सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-१०॥
स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् ।अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-११॥
ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् ।क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-१२॥
सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् ।युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-१३॥
ततः हलहला शब्दो महान् समुदपद्यत ।रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-१४॥
ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः ।प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥२-८१-१५॥
ह्रदैव तिमि नाग सम्वृतः ।स्तिमित जलो मणि शन्ख शर्करः ।दशरथ सुत शोभिता सभा ।सदशरथा इव बभौ यथा पुरा ॥२-८१-१६॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 80
- Next: Ayodhyā-Kāṇḍa Sarga 82 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷