🪷 अयोध्याकाण्ड · Sarga 80
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 80 · 22 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः ।स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥२-८०-१॥
कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः ।तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥२-८०-२॥
कूप काराः सुधा कारा वम्श कर्म कृतः तथा ।समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥२-८०-३॥
स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् ।अशोभत महा वेगः सागरस्य इव पर्वणि ॥२-८०-४॥
ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः ।करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२-८०-५॥
लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च ।जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२-८०-६॥
अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् ।केचित् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥२-८०-७॥
अपरे वीरण स्तम्बान् बलिनो बलवत्तराः ।विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥२-८०-८॥
अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् ।निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥२-८०-९॥
बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा ।बिभिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२-८०-१०॥
अचिरेण एव कालेन परिवाहान् बहु उदकान् ।चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥२-८०-११॥
निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥२-८०-१२॥
ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः ।मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥२-८०-१३॥
चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः ।बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥२-८०-१४॥
आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः ।रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥२-८०-१५॥
यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः ।भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥२-८०-१६॥
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥२-८०-१७॥
बहु पाम्सु चयाः च अपि परिखा परिवारिताः ।तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥२-८०-१८॥
प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः ।पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥२-८०-१९॥
विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः ।समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥२-८०-२०॥
जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् ।शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥२-८०-२१॥
सचन्द्र तारा गण मण्डितम् यथा ।नभः क्षपायाम् अमलम् विराजते ।नर इन्द्र मार्गः स तथा व्यराजत ।क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥२-८०-२२॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 79
- Next: Ayodhyā-Kāṇḍa Sarga 81 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷