🪷 अयोध्याकाण्ड · Sarga 79

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 79 · 17 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.79.1
ततः प्रभात समये दिवसे अथ चतुर्दशे ।समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-१॥
Vālmīki 2.79.2
गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः ।रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-२॥
Vālmīki 2.79.3
त्वम् अद्य भव नो राजा राज पुत्र महा यशः ।सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-३॥
Vālmīki 2.79.4
आभिषेचनिकम् सर्वम् इदम् आदाय राघव ।प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-४॥
Vālmīki 2.79.5
राज्यम् गृहाण भरत पितृ पैतामहम् महत् ।अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-५॥
Vālmīki 2.79.6
आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् ।भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-६॥
Vālmīki 2.79.7
ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः ।न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-७॥
Vālmīki 2.79.8
रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः ।अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-८॥
Vālmīki 2.79.9
युज्यताम् महती सेना चतुर् अन्ग महा बला ।आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-९॥
Vālmīki 2.79.10
आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् ।पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-१०॥
Vālmīki 2.79.11
तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् ।आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-११॥
Vālmīki 2.79.12
न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् ।वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-१२॥
Vālmīki 2.79.13
क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च ।रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-१३॥
Vālmīki 2.79.14
एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् ।प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-१४॥
Vālmīki 2.79.15
एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् ।यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-१५॥
Vālmīki 2.79.16
अनुत्तमम् तत् वचनम् नृप आत्मज ।प्रभाषितम् सम्श्रवणे निशम्य च ।प्रहर्षजाः तम् प्रति बाष्प बिन्दवो ।निपेतुर् आर्य आनन नेत्र सम्भवाः ॥२-७९-१६॥
Vālmīki 2.79.17
ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः ।सामात्याः सपरिषदो वियात शोकाः ।पन्थानम् नर वर भक्तिमान् जनः च ।व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥२-७९-१७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷