🪷 अयोध्याकाण्ड · Sarga 78

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 78 · 26 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.78.1
अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः ।भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-१॥
Vālmīki 2.78.2
गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः ।स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-२॥
Vālmīki 2.78.3
बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ ।किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-३॥
Vālmīki 2.78.4
पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ ।उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-४॥
Vālmīki 2.78.5
इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे ।प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-५॥
Vālmīki 2.78.6
लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती ।विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-६॥
Vālmīki 2.78.7
मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी ।बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-७॥
Vālmīki 2.78.8
ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् ।गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-८॥
Vālmīki 2.78.9
यस्याः कृते वने रामः न्यस्त देहः च वः पिता ।सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-९॥
Vālmīki 2.78.10
शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः ।अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-१०॥
Vālmīki 2.78.11
तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः ।यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-११॥
Vālmīki 2.78.12
एवम् उक्ता च तेन आशु सखी जन समावृता ।गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-१२॥
Vālmīki 2.78.13
ततः सुभृश सम्तप्तः तस्याः सर्वः सखी जनः ।क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-१३॥
Vālmīki 2.78.14
अमन्त्रयत कृत्स्नः च तस्याः सर्व सखी जनः ।यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-१४॥
Vālmīki 2.78.15
सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् ।कौसल्याम् शरणम् यामः सा हि नो अस्तु ध्रुवा गतिः ॥२-७८-१५॥
Vālmīki 2.78.16
स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः ।विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-१६॥
Vālmīki 2.78.17
तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः ।चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-१७॥
Vālmīki 2.78.18
तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् ।अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-१८॥
Vālmīki 2.78.19
स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः ।कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-१९॥
Vālmīki 2.78.20
तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता ।शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-२०॥
Vālmīki 2.78.21
ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् ।अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-२१॥
Vālmīki 2.78.22
हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् ।यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-२२॥
Vālmīki 2.78.23
इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः ।त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-२३॥
Vālmīki 2.78.24
भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः ।न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-२४॥
Vālmīki 2.78.25
सा पाद मूले कैकेय्या मन्थरा निपपात ह ।निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-२५॥
Vālmīki 2.78.26
शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् ।समीक्ष्य कुब्जाम् भरतस्य माता ।शनैः समाश्वासयद् आर्त रूपाम् ।क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-२६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷