🪷 अयोध्याकाण्ड · Sarga 77

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 77 · 27 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.77.1
ततः दश अहे अतिगते कृत शौचो नृप आत्मजः ।द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-१॥
Vālmīki 2.77.2
ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् ।वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-२॥
Vālmīki 2.77.3
बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा ।दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-३॥
Vālmīki 2.77.4
ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् ।ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-४॥
Vālmīki 2.77.5
विललाप महा बाहुर् भरतः शोक मूर्चितः ।शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-५॥
Vālmīki 2.77.6
चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः ।तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-६॥
Vālmīki 2.77.7
तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया ।यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-७॥
Vālmīki 2.77.8
ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप ।दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-८॥
Vālmīki 2.77.9
पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह ।स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-९॥
Vālmīki 2.77.10
उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः ।अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-१०॥
Vālmīki 2.77.11
अन्त काले निपतितम् ययातिम् ऋषयो यथा ।शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-११॥
Vālmīki 2.77.12
विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् ।उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-१२॥
Vālmīki 2.77.13
स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा ।मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-१३॥
Vālmīki 2.77.14
वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः ।सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-१४॥
Vālmīki 2.77.15
क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् ।ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-१५॥
Vālmīki 2.77.16
प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति ।अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-१६॥
Vālmīki 2.77.17
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ।पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-१७॥
Vālmīki 2.77.18
किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् ।हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-१८॥
Vālmīki 2.77.19
अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् ।तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-१९॥
Vālmīki 2.77.20
भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः ।ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-२०॥
Vālmīki 2.77.21
धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ ।ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-२१॥
Vālmīki 2.77.22
वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह ।त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥२-७७-२२॥
Vālmīki 2.77.23
सावशेषास्थिनिचये किमिह त्वम् विलम्बसे ।त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-२३॥
Vālmīki 2.77.24
तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति ।सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-२४॥
Vālmīki 2.77.25
श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ ।उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-२५॥
Vālmīki 2.77.26
वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव ।अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-२६॥
Vālmīki 2.77.27
अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः ।

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷