🪷 अयोध्याकाण्ड · Sarga 76
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 76 · 23 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् ।उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥२-७६-१॥
अलम् शोकेन भद्रम् ते राज पुत्र महा यशः ।प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥२-७६-२॥
वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः ।प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥२-७६-३॥
उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् ।आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥२-७६-४॥
सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते ।ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥२-७६-५॥
किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते ।विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥२-७६-६॥
क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् ।हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥२-७६-७॥
योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे ।त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२-७६-८॥
विधवा पृथिवी राजम्स् त्वया हीना न राजते ।हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥२-७६-९॥
एवम् विलपमानम् तम् भरतम् दीन मानसम् ।अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥२-७६-१०॥
प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः ।तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥२-७६-११॥
तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् ।ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥२-७६-१२॥
ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः ।ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥२-७६-१३॥
शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् ।बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२-७६-१४॥
हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च ।प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥२-७६-१५॥
चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा ।देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥२-७६-१६॥
गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् ।ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥२-७६-१७॥
तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः ।जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२-७६-१८॥
शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः ।नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥२-७६-१९॥
प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् ।स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥२-७६-२०॥
क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे ।आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥२-७६-२१॥
ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः ।यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥२-७६-२२॥
कृत उदकम् ते भरतेन सार्धम् ।नृप अन्गना मन्त्रि पुरोहिताः च ।पुरम् प्रविश्य अश्रु परीत नेत्रा ।भूमौ दश अहम् व्यनयन्त दुह्खम् ॥२-७६-२३॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 75
- Next: Ayodhyā-Kāṇḍa Sarga 77 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷