🪷 अयोध्याकाण्ड · Sarga 75

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 75 · 65 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.75.1
दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् ।नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥२-७५-१॥
Vālmīki 2.75.2
सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् ।राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२-७५-२॥
Vālmīki 2.75.3
अभिषेकम् न जानामि यो.भूद्रज्Jना समीक्षितः ।विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥२-७५-३॥
Vālmīki 2.75.4
वनवासम् न जानामि रामस्यहम् महात्मनः ।विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥२-७५-४॥
Vālmīki 2.75.5
तथैव क्रोशतः तस्य भरतस्य महात्मनः ।कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२-७५-५॥
Vālmīki 2.75.6
आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः ।तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥२-७५-६॥
Vālmīki 2.75.7
एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा ।प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२-७५-७॥
Vālmīki 2.75.8
स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा ।प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥२-७५-८॥
Vālmīki 2.75.9
ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ ।पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥२-७५-९॥
Vālmīki 2.75.10
रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् ।भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥२-७५-१०॥
Vālmīki 2.75.11
इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् ।सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥२-७५-११॥
Vālmīki 2.75.12
प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् ।कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥२-७५-१२॥
Vālmīki 2.75.13
क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति ।हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥२-७५-१३॥
Vālmīki 2.75.14
अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् ।अग्नि होत्रम् पुरः कृत्य प्रस्थास्ये यत्र राघवः ॥२-७५-१४॥
Vālmīki 2.75.15
कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि ।यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥२-७५-१५॥
Vālmīki 2.75.16
इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् ।हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥२-७५-१६॥
Vālmīki 2.75.17
इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः ।विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥२-७५-१७॥
Vālmīki 2.75.18
पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः ।विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥२-७५-१८॥
Vālmīki 2.75.19
एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा ।कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥२-७५-१९॥
Vālmīki 2.75.20
आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् ।विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२-७५-२०॥
Vālmīki 2.75.21
कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन ।सत्य सम्धः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥२-७५-२१॥
Vālmīki 2.75.22
प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु ।हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥२-७५-२२॥
Vālmīki 2.75.23
कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् ।अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥२-७५-२३॥
Vālmīki 2.75.24
परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२४॥
Vālmīki 2.75.25
बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः ।अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥२-७५-२५॥
Vālmīki 2.75.26
सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् ।ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२६॥
Vālmīki 2.75.27
हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले ।मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥२-७५-२७॥
Vālmīki 2.75.28
उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता ।स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥२-७५-२८॥
Vālmīki 2.75.29
मा च तम् प्यूढबाह्वम्सम् चन्द्रार्कसम्तेजनम् ।द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥२-७५-२९॥
Vālmīki 2.75.30
पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः ।गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥२-७५-३०॥
Vālmīki 2.75.31
गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् ।मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥२-७५-३१॥
Vālmīki 2.75.32
विश्वासात्कथितम् किम्चित्परिवादम् मिथः क्वचित् ।विवृणोतु स दुष्टात्मा यस्यार्योओऽनुमते गतः ॥२-७५-३२॥
Vālmīki 2.75.33
अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः ।लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥२-७५-३३॥
Vālmīki 2.75.34
पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः ।स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥२-७५-३४॥
Vālmīki 2.75.35
अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् ।अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥२-७५-३५॥
Vālmīki 2.75.36
मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः ।आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥२-७५-३६॥
Vālmīki 2.75.37
राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते ।भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-३७॥
Vālmīki 2.75.38
लाक्षया मधुमाम्सेन लोहेन च विषेण च ।सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥२-७५-३८॥
Vālmīki 2.75.39
सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे ।पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥२-७५-३९॥
Vālmīki 2.75.40
कपालपाणिः पृथिवीमटताम् चीरसम्वृतः ।भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥२-७५-४०॥
Vālmīki 2.75.41
पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥२-७५-४१॥
Vālmīki 2.75.42
यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् ।अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥२-७५-४२॥
Vālmīki 2.75.43
सम्चितान्यस्य वित्तानि विविधानि सहस्रशः ।दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥२-७५-४३॥
Vālmīki 2.75.44
उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते ।तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥२-७५-४४॥
Vālmīki 2.75.45
यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे ।मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-४५॥
Vālmīki 2.75.46
देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च ।मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥२-७५-४६॥
Vālmīki 2.75.47
सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा ।भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥२-७५-४७॥
Vālmīki 2.75.48
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् ।दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥२-७५-४८॥
Vālmīki 2.75.49
बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः ।स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥२-७५-४९॥
Vālmīki 2.75.50
आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् ।आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥२-७५-५०॥
Vālmīki 2.75.51
मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः ।राज्Jनो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥२-७५-५१॥
Vālmīki 2.75.52
ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् ।अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥२-७५-५२॥
Vālmīki 2.75.53
धर्मदारान् परित्यज्य परदारान्नि षेवताम् ।त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥२-७५-५३॥
Vālmīki 2.75.54
विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् ।तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥२-७५-५४॥
Vālmīki 2.75.55
पानीयदूषके पापम् तथैव विषदायके ।यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥२-७५-५५॥
Vālmīki 2.75.56
ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः ।बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥२-७५-५६॥
Vālmīki 2.75.57
तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् ।लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥२-७५-५७॥
Vālmīki 2.75.58
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ।तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥२-७५-५८॥
Vālmīki 2.75.59
विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः ।एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥२-७५-५९॥
Vālmīki 2.75.60
तथा तु शपथैः कष्टैः शपमानम् अचेतनम् ।भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥२-७५-६०॥
Vālmīki 2.75.61
मम दुह्खम् इदम् पुत्र भूयः समुपजायते ।शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥२-७५-६१॥
Vālmīki 2.75.62
दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः ।वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥२-७५-६२॥
Vālmīki 2.75.63
इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् ।परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥२-७५-६३॥
Vālmīki 2.75.64
एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः ।मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥२-७५-६४॥
Vālmīki 2.75.65
लालप्यमानस्य विचेतनस्य ।प्रनष्ट बुद्धेः पतितस्य भूमौ ।मुहुर् मुहुर् निह्श्वसतः च दीर्घम् ।सा तस्य शोकेन जगाम रात्रिः ॥२-७५-६५॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷