🪷 अयोध्याकाण्ड · Sarga 74

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 74 · 36 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.74.1
ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा ।रोषेण महता आविष्टः पुनर् एव अब्रवीद् वचः ॥२-७४-१॥
Vālmīki 2.74.2
राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट चारिणि ।परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥२-७४-२॥
Vālmīki 2.74.3
किम् नु ते अदूषयद् राजा रामः वा भृश धार्मिकः ।ययोः मृत्युर् विवासः च त्वत् कृते तुल्यम् आगतौ ॥२-७४-३॥
Vālmīki 2.74.4
भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् ।कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥२-७४-४॥
Vālmīki 2.74.5
यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मणा ।सर्वलोकप्रियम् हित्वा ममाप्यापादितम् भयम् ॥२-७४-५॥
Vālmīki 2.74.6
त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः ।अयशो जीव लोके च त्वया अहम् प्रतिपादितः ॥२-७४-६॥
Vālmīki 2.74.7
मातृ रूपे मम अमित्रे नृशम्से राज्य कामुके ।न ते अहम् अभिभाष्यो अस्मि दुर्वृत्ते पति घातिनि ॥२-७४-७॥
Vālmīki 2.74.8
कौसल्या च सुमित्रा च याः च अन्या मम मातरः ।दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल दूषिणीम् ॥२-७४-८॥
Vālmīki 2.74.9
न त्वम् अश्व पतेः कन्या धर्म राजस्य धीमतः ।राक्षसी तत्र जाता असि कुल प्रध्वम्सिनी पितुः ॥२-७४-९॥
Vālmīki 2.74.10
यत् त्वया धार्मिको रामः नित्यम् सत्य परायणः ।वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥२-७४-१०॥
Vālmīki 2.74.11
यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते ।भ्रातृभ्याम् च परित्यक्ते सर्व लोकस्य च अप्रिये ॥२-७४-११॥
Vālmīki 2.74.12
कौसल्याम् धर्म सम्युक्ताम् वियुक्ताम् पाप निश्चये ।कृत्वा कम् प्राप्स्यसे तु अद्य लोकम् निरय गामिनी ॥२-७४-१२॥
Vālmīki 2.74.13
किम् न अवबुध्यसे क्रूरे नियतम् बन्धु सम्श्रयम् ।ज्येष्ठम् पितृ समम् रामम् कौसल्याय आत्म सम्भवम् ॥२-७४-१३॥
Vālmīki 2.74.14
अन्ग प्रत्यन्गजः पुत्रः हृदयाच् च अपि जायते ।तस्मात् प्रियतरः मातुः प्रियत्वान् न तु बान्धवः ॥२-७४-१४॥
Vālmīki 2.74.15
अन्यदा किल धर्मज्ञा सुरभिः सुर सम्मता ।वहमानौ ददर्श उर्व्याम् पुत्रौ विगत चेतसौ ॥२-७४-१५॥
Vālmīki 2.74.16
ताव् अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले ।रुरोद पुत्र शोकेन बाष्प पर्याकुल ईक्षणा ॥२-७४-१६॥
Vālmīki 2.74.17
अधस्तात् व्रजतः तस्याः सुर राज्ञो महात्मनः ।बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि गन्धिनः ॥२-७४-१७॥
Vālmīki 2.74.18
इन्द्रोऽप्यश्रुनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् ।सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥२-७४-१८॥
Vālmīki 2.74.19
निरीक्समाणः शक्रस्ताम् ददर्श सुरभिम् स्थिताम् ।आकाशे विष्ठिताम् दीनाम् रुदतीम् भृशदुःखिताम् ॥२-७४-१९॥
Vālmīki 2.74.20
ताम् दृष्ट्वा शोक सम्तप्ताम् वज्र पाणिर् यशस्विनीम् ।इन्द्रः प्रान्जलिर् उद्विग्नः सुर राजो अब्रवीद् वचः ॥२-७४-२०॥
Vālmīki 2.74.21
भयम् कच्चिन् न च अस्मासु कुतश्चित् विद्यते महत् ।कुतः निमित्तः शोकः ते ब्रूहि सर्व हित एषिणि ॥२-७४-२१॥
Vālmīki 2.74.22
एवम् उक्ता तु सुरभिः सुर राजेन धीमता ।पत्युवाच ततः धीरा वाक्यम् वाक्य विशारदा ॥२-७४-२२॥
Vālmīki 2.74.23
शान्तम् पातम् न वः किम्चित् कुतश्चित् अमर अधिप ।अहम् तु मग्नौ शोचामि स्व पुत्रौ विषमे स्थितौ ॥२-७४-२३॥
Vālmīki 2.74.24
एतौ दृष्ट्वा कृषौ दीनौ सूर्य रश्मि प्रतापिनौ ।अर्ध्यमानौ बली वर्दौ कर्षकेण सुर अधिप ॥२-७४-२४॥
Vālmīki 2.74.25
मम कायात् प्रसूतौ हि दुह्खितौ भार पीडितौ ।यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र समः प्रियः ॥२-७४-२५॥
Vālmīki 2.74.26
यस्याः पुत्र सहस्त्रैस्तु कृत्स्नम् व्याप्तमिदम् जगत् ।ताम् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् ॥२-७४-२६॥
Vālmīki 2.74.27
सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया ।श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥२-७४-२७॥
Vālmīki 2.74.28
यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् ।किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२-७४-२८॥
Vālmīki 2.74.29
एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता ।तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२-७४-२९॥
Vālmīki 2.74.30
अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् ।वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२-७४-३०॥
Vālmīki 2.74.31
आनाययित्वा तनयम् कौसल्याया महा द्युतिम् ।स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥२-७४-३१॥
Vālmīki 2.74.32
न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् ।शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥२-७४-३२॥
Vālmīki 2.74.33
सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश ।रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥२-७४-३३॥
Vālmīki 2.74.34
अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे ।कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥२-७४-३४॥
Vālmīki 2.74.35
इति नागैव अरण्ये तोमर अन्कुश चोदितः ।पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥२-७४-३५॥
Vālmīki 2.74.36
सम्रक्त नेत्रः शिथिल अम्बरः तदा ।विधूत सर्व आभरणः परम्तपः ।बभूव भूमौ पतितः नृप आत्मजः ।शची पतेः केतुर् इव उत्सव क्षये ॥२-७४-३६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷