🪷 अयोध्याकाण्ड · Sarga 73

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 73 · 28 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.73.1
श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ ।भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत् ॥२-७३-१॥
Vālmīki 2.73.2
किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः ।विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च ॥२-७३-२॥
Vālmīki 2.73.3
दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः ।राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम् ॥२-७३-३॥
Vālmīki 2.73.4
कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता ।अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥२-७३-४॥
Vālmīki 2.73.5
मृत्युमापादितो राजा त्वया मे पापदर्शिनि ।सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि ॥२-७३-५॥
Vālmīki 2.73.6
त्वाम् प्राप्य हि पिता मे.द्य सत्यसन्धो महायशाः ।तीव्रदुःखाभिसम्तप्तो वृत्तो दशरथो नृपः ॥२-७३-६॥
Vālmīki 2.73.7
विनाशितो महाराजः पिता मे धर्मवत्सलः ।कस्मात्प्रव्राजितो रामः कस्मादेव वनम् गतः ॥२-७३-७॥
Vālmīki 2.73.8
कौसल्या च सुमित्रा च पुत्र शोक अभिपीडिते ।दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम ॥२-७३-८॥
Vālmīki 2.73.9
ननु तु आर्यो अपि धर्म आत्मा त्वयि वृत्तिम् अनुत्तमाम् ।वर्तते गुरु वृत्तिज्ञो यथा मातरि वर्तते ॥२-७३-९॥
Vālmīki 2.73.10
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ दर्शिनी ।त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते ॥२-७३-१०॥
Vālmīki 2.73.11
तस्याः पुत्रम् कृत आत्मानम् चीर वल्कल वाससम् ।प्रस्थाप्य वन वासाय कथम् पापे न शोचसि ॥२-७३-११॥
Vālmīki 2.73.12
अपाप दर्शिनम् शूरम् कृत आत्मानम् यशस्विनम् ।प्रव्राज्य चीर वसनम् किम् नु पश्यसि कारणम् ॥२-७३-१२॥
Vālmīki 2.73.13
लुब्धाया विदितः मन्ये न ते अहम् राघवम् प्रति ।तथा हि अनर्थो राज्य अर्थम् त्वया नीतः महान् अयम् ॥२-७३-१३॥
Vālmīki 2.73.14
अहम् हि पुरुष व्याघ्राव् अपश्यन् राम लक्ष्मणौ ।केन शक्ति प्रभावेन राज्यम् रक्षितुम् उत्सहे ॥२-७३-१४॥
Vālmīki 2.73.15
तम् हि नित्यम् महा राजो बलवन्तम् महा बलः ।उअपाश्रितः अभूद् धर्म आत्मा मेरुर् मेरु वनम् यथा ॥२-७३-१५॥
Vālmīki 2.73.16
सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् ।दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥२-७३-१६॥
Vālmīki 2.73.17
अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा ।सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम् ॥२-७३-१७॥
Vālmīki 2.73.18
न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् ।यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥२-७३-१८॥
Vālmīki 2.73.19
उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि ।साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥२-७३-१९॥
Vālmīki 2.73.20
अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते ।अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥२-७३-२०॥
Vālmīki 2.73.21
न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे ।गतिम् वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥२-७३-२१॥
Vālmīki 2.73.22
सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः ॥२-७३-२२॥
Vālmīki 2.73.23
तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् ।अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥२-७३-२३॥
Vālmīki 2.73.24
तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः ।बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः ॥२-७३-२४॥
Vālmīki 2.73.25
न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये ।त्वया व्यसनमारब्धम् जीवितान्तकरम् मम ॥२-७३-२५॥
Vālmīki 2.73.26
एष त्विदानीमेवाहमप्रियार्थम् तवनघम् ।निवर्तयिष्यामि वनात् भ्रातरम् स्वजन प्रियम् ॥२-७३-२६॥
Vālmīki 2.73.27
निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजनः ।दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥२-७३-२७॥
Vālmīki 2.73.28
इति एवम् उक्त्वा भरतः महात्मा ।प्रिय इतरैः वाक्य गणैअः तुदम्स् ताम् ।शोक आतुरः च अपि ननाद भूयः ।सिम्हो यथा पर्वत गह्वरस्थः ॥२-७३-२८॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷