🪷 अयोध्याकाण्ड · Sarga 72

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 72 · 54 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.72.1
अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये ।जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-१॥
Vālmīki 2.72.2
अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् ।उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-२॥
Vālmīki 2.72.3
स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् ।भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-३॥
Vālmīki 2.72.4
सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-४॥
Vālmīki 2.72.5
अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः ।अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-५॥
Vālmīki 2.72.6
आर्यकः ते सुकुशलो युधा जिन् मातुलः तव ।प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२-७२-६॥
Vālmīki 2.72.7
एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः ।आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥२-७२-७॥
Vālmīki 2.72.8
अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः ।अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-८॥
Vālmīki 2.72.9
यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः ।परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-९॥
Vālmīki 2.72.10
राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः ।यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-१०॥
Vālmīki 2.72.11
शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः ।न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-११॥
Vālmīki 2.72.12
राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने ।तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-१२॥
Vālmīki 2.72.13
पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः ।आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-१३॥
Vālmīki 2.72.14
तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् ।अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-१४॥
Vālmīki 2.72.15
या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः ।राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-१५॥
Vālmīki 2.72.16
तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः ।पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-१६॥
Vālmīki 2.72.17
हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् ।निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-१७॥
Vālmīki 2.72.18
ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः ।विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-१८॥
Vālmīki 2.72.19
एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा ।शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-१९॥
Vālmīki 2.72.20
तत् इदम् न विभाति अद्य विहीनम् तेन धीमता ।व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-२०॥
Vālmīki 2.72.21
बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः ।आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-२१॥
Vālmīki 2.72.22
तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि ।निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-२२॥
Vālmīki 2.72.23
मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः ।उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-२३॥
Vālmīki 2.72.24
उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः ।त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-२४॥
Vālmīki 2.72.25
दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-२५॥
Vālmīki 2.72.26
स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च ।जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-२६॥
Vālmīki 2.72.27
अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति ।इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-२७॥
Vālmīki 2.72.28
तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम ।पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-२८॥
Vālmīki 2.72.29
अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते ।धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-२९॥
Vālmīki 2.72.30
न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् ।उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-३०॥
Vālmīki 2.72.31
क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः ।येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-३१॥
Vālmīki 2.72.32
यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः ।तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-३२॥
Vālmīki 2.72.33
पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः ।तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-३३॥
Vālmīki 2.72.34
धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-३४॥
Vālmīki 2.72.35
पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः ।इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-३५॥
Vālmīki 2.72.36
राम इति राजा विलपन् हा सीते लक्ष्मण इति च ।स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-३६॥
Vālmīki 2.72.37
इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव ।काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-३७॥
Vālmīki 2.72.38
सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह ।लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-३८॥
Vālmīki 2.72.39
तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् ।विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-३९॥
Vālmīki 2.72.40
क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः ।लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-४०॥
Vālmīki 2.72.41
तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे ।माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-४१॥
Vālmīki 2.72.42
स हि राज सुतः पुत्र चीर वासा महा वनम् ।दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-४२॥
Vālmīki 2.72.43
तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया ।स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-४३॥
Vālmīki 2.72.44
कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् ।कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४४॥
Vālmīki 2.72.45
कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते ।कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-४५॥
Vālmīki 2.72.46
अथ अस्य चपला माता तत् स्व कर्म यथा तथम् ।तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-४६॥
Vālmīki 2.72.47
एवमुक्ता तु कैकेयी भरतेन महात्मना ।उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-४७॥
Vālmīki 2.72.48
न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् ।कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४८॥
Vālmīki 2.72.49
न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति ।मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-४९॥
Vālmīki 2.72.50
याचितः ते पिता राज्यम् रामस्य च विवासनम् ।स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-५०॥
Vālmīki 2.72.51
रामः च सह सौमित्रिः प्रेषितः सह सीतया ।तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-५१॥
Vālmīki 2.72.52
पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् ।त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-५२॥
Vālmīki 2.72.53
त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् ।मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-५३॥
Vālmīki 2.72.54
त्वदधीना हि नगरी राज्यम् चैतदनामयम् ।तत् पुत्र शीघ्रम् विधिना विधिज्ञैः ।वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः ।सम्काल्य राजानम् अदीन सत्त्वम् ।आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-५४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷