🪷 अयोध्याकाण्ड · Sarga 71

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 71 · 47 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.71.1
स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥
Vālmīki 2.71.2
ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् ।शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥
Vālmīki 2.71.3
एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् ।शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥
Vālmīki 2.71.4
सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् ।अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥
Vālmīki 2.71.5
सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च ।उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥
Vālmīki 2.71.6
वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् ।यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥
Vālmīki 2.71.7
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥
Vālmīki 2.71.8
राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् ।भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥
Vālmīki 2.71.9
भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् ।उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥
Vālmīki 2.71.10
स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् ।सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥
Vālmīki 2.71.11
तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् ।वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥
Vālmīki 2.71.12
तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ ।उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥
Vālmīki 2.71.13
सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥
Vālmīki 2.71.14
वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् ।अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥
Vālmīki 2.71.15
हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥
Vālmīki 2.71.16
एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् ।कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥
Vālmīki 2.71.17
भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः ।वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥
Vālmīki 2.71.18
अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह ।ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥
Vālmīki 2.71.19
अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् ।एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥
Vālmīki 2.71.20
अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका ।यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥
Vālmīki 2.71.21
भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता ।अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥
Vālmīki 2.71.22
समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् ।उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥
Vālmīki 2.71.23
समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा ।तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥
Vālmīki 2.71.24
अरण्य भूता इव पुरी सारथे प्रतिभाति मे ।न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥
Vālmīki 2.71.25
निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् ।उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥
Vālmīki 2.71.26
जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च ।तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥
Vālmīki 2.71.27
स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः ।नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥
Vālmīki 2.71.28
सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु ।चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥
Vālmīki 2.71.29
प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् ।भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥
Vālmīki 2.71.30
किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥
Vālmīki 2.71.31
निमित्तानि अमनोज्ञानि तेन सीदति ते मनः ।सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥
Vālmīki 2.71.32
तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे ।विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥
Vālmīki 2.71.33
भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥
Vālmīki 2.71.34
द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ ।स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥
Vālmīki 2.71.35
सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः ।किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥
Vālmīki 2.71.36
अशुभाशङ्कि हृदयम् शीलम् च पततीव मे ।श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥
Vālmīki 2.71.37
आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे ।सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥
Vālmīki 2.71.38
असम्यतकवाटानि श्रीविहीनानि सर्वशः ।बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥
Vālmīki 2.71.39
अनाशितकुटुम्बानि प्रभाहीनजनानि च ।अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥
Vālmīki 2.71.40
अपेतमाल्यशोभानि असम्मृष्टाजिराणि च ।देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥
Vālmīki 2.71.41
देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः ।माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥
Vālmīki 2.71.42
दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥
Vālmīki 2.71.43
देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥
Vālmīki 2.71.44
मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् ।सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥
Vālmīki 2.71.45
इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः ।तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥
Vālmīki 2.71.46
ताम् शून्य शृन्ग अटक वेश्म रथ्याम् ।रजो अरुण द्वार कपाट यन्त्राम् ।दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् ।दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥
Vālmīki 2.71.47
बहूनि पश्यन् मनसो अप्रियाणि ।यानि अन्न्यदा न अस्य पुरे बभूवुः ।अवाक् शिरा दीन मना नहृष्टः ।पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷