🪷 अयोध्याकाण्ड · Sarga 8
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 8 · 39 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत्।उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥२-८-१॥
हर्षं किमिदमस्थाने कृतवत्यसि बालिशे ।शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥२-८-२॥
मनसा प्रहसामि त्वां देवि दुःखार्धिता सती ।यच्छोचितव्ये हृष्टासि प्राप्येदं व्यसनं महत् ॥२-८-३॥
शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् ।अरेः सपत्नीपुत्रस्य वृद्धिं मृत्युमिवागताम् ॥२-८-४॥
भरतादेव रामस्य राज्यसाधारणाद्भयम् ।तद्विचिन्त्य विषण्णास्मि भय भीताद्धि जायते ॥२-८-५॥
लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः ।शत्रुघ्नश्चापि भरतं काकुत्थ्सं लक्ष्मणो यथा ॥२-८-६॥
प्रत्यासन्नक्रमेणापि भरतस्तैव भामिनि ।राज्यक्रमो विप्रकृष्टस्तयोस्तावत्कनीयसोः ॥२-८-७॥
विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः ।भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥२-८-८॥
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥२-८-९॥
प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् ।उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः ॥२-८-१०॥
एवम् चेत्त्वं सहास्माभिस्तस्याः प्रेष्य भविष्यसि ।पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति ॥२-८-११॥
हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः ।अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥२-८-१२॥
तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः ।रामस्यैव गुणान् देवी कैकेयि प्रशशंस ह ॥२-८-१३॥
धर्मज्ञो गुरुभिर्दान्तः कृतज्ञ सत्यवाक्चुचि ।रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥२-८-१४॥
भ्रात्R^ऊन्भऋत्यांश्च दीर्घायुः पितृवत्पालयिष्यति ।संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥२-८-१५॥
भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् ।पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥२-८-१६॥
सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे ।भविष्यति च क्ल्याणे किमर्थं परितप्यसे ॥२-८-१७॥
यथा ने भरतो मान्यस्तथा भूयोऽपि राघावः ।कौसल्यातोऽरिक्तं च सो हि शुश्रूषते हि माम् ॥२-८-१८॥
राज्यं यदि हि रामस्य भरतस्यापि तत्तदा ।मन्यते हि यथात्मानं तथा भ्रात्R^ऊंश्च राघवः ॥२-८-१९॥
कैकेयीवचनं श्रुत्वा मन्थरा भृशदुःखिता ।दीर्घमुष्णं निःश्वस्य कैकेयीमिदमब्रवीत् ॥२-८-२०॥
अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे ।शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥२-८-२१॥
भविता राघवो राजा राघवस्यानु यः सुतः ।राजवंशात्तु कैकेयि भरतः परिहास्यते ॥२-८-२२॥
न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥२-८-२३॥
तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः ।स्थापयन्त्यनवद्याङ्गि गुणवत्स्वतरेष्वपि ॥२-८-२४॥
असावत्यन्तनिर्भग्न स्तवपुत्रो भविष्यति ।अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले ॥२-८-२५॥
साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे ।सपत्निवृद्दौ या मे त्वं प्रदेयं दातुमिच्चिसि ॥२-८-२६॥
ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् ।देशान्तरं वासयिता लोकान्तरमथापि व ॥२-८-२७॥
बाल एव हि मातुल्यं भरतो नायितस्त्वया ।सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि ॥२-८-२८॥
भरतस्यानुवशगः शत्रुघ्नोऽपि समं गतः ।लक्ष्मणो हि यथा रामं तथासौ भरतं गतः ॥२-८-२९॥
श्रूयते हि द्रुमः कश्चिच्चेत्तव्यो वनजीविभिः ।सन्निकर्षादिषीकाभिर्मो चितः परमाद्भयात् ॥२-८-३०॥
गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः ।अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥२-८-३१॥
तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति ।रामस्तु भरते पापं कुर्यादिति न सं शयः ॥२-८-३२॥
तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ।एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥२-८-३३॥
एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति ।यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति ॥२-८-३४॥
स ते सुखोचितो बालो रामस्य सहजो रिपुः ।समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥२-८-३५॥
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् ।प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥२-८-३६॥
दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया ।राममाता सपत्नी ते कथं वैरं न शातयेत् ॥२-८-३७॥
यदा हि रामः पृथिवीमवाप्स्यति ।प्रभूतरत्नाकरशैलपत्तनाम् ।तदा गमिष्यस्यशुभं पराभवं ।सहैव दीना भरतेन भामिनि ॥२-८-३८॥
यदा हि रामः पृथिवीमवाप्स्यति ।ध्रुवं प्रणष्टो भरतो भविष्यति ।अतो हि संचिन्तय राज्यमात्मजे ।पर्स्य चैवाद्य विवासकारणम् ॥२-८-३९॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 7
- Next: Ayodhyā-Kāṇḍa Sarga 9 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷