🪷 अयोध्याकाण्ड · Sarga 9
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 9 · 66 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
एवमुक्ता तु कैकेयी कोपेन ज्वलितानना ।दीर्घमुष्टम् विनिःश्वस्य मन्थरामिदम् अब्रवीत् ॥२-९-१॥
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् ।यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥२-९-२॥
इदं त्विदानीं संपश्य केनोपायेन मन्थरे ।भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन॥२-९-३॥
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥२-९-४॥
हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे ।यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥२-९-५॥
किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे ।यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥२-९-६॥
मयोच्यमानं यदि ते श्रोतुं च्छ्न्दो विलासिनि ।श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम् ॥२-९-७॥
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयि ।किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् ॥२-९-८॥
कथय त्वं ममोपायं केनोपायेन मन्थरे ।भरतः प्राप्नुयाद्रज्यं न तु रामः कथंचन ॥२-९-९॥
एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥२-९-१०॥
तव दैवासुरे युद्धे सहराजर्षिभिः पतिः ।अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥२-९-११॥
दिशमास्थाय वै देवि दक्षिणां दण्डकान् प्रति ।वैजयन्तमिति क्यातं पुरं यत्र तिमिध्वजः ॥२-९-१२॥
स शम्बर इति ख्यातः शतमायो महासुरः ।ददौ शक्रस्य संग्रामं देवसङिघैरनिर्जितः ॥२-९-१३॥
तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान् ।रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसासाद्य राक्षसाः ॥२-९-१४॥
तत्राकरोन्महायुद्धं राजा दशरथ स्तदा ।असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥२-९-१५॥
अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः ।तत्रपि विक्षतः शस्रैः पतिस्ते रक्षितस्त्वया ॥२-९-१६॥
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ।सत्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ॥२-९-१७॥
गृह्णीयामिति तत्तन तधेत्युक्तं महात्मना ।अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा ॥२-९-१८॥
कथैषा तव तु स्नेहान्मनसा धार्यते मया ।रामाभिषेकसंभारान्निगृह्य विनिवर्तय ॥२-९-१९॥
तौ वरौ याच भर्तारं भरतस्याभिषेचनम् ।प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश ॥२-९-२०॥
चतुर्दश हि वर्षाणिरामे प्रव्राजिते वनम् ।प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ॥२-९-२१॥
क्रोधागारं प्रविश्याद्य कृद्द्धेवाश्वपतेः सुते ।शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥२-९-२२॥
मास्मैनं प्रत्युदीक्षेथा माचैन मभिभाषथाः ।रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ॥२-९-२३॥
दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥२-९-२४॥
न त्वां क्रोधयितुं शक्तोन क्रुद्धां प्रत्युदीक्षितुम्।तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥२-९-२५॥
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।मन्दस्वभावे बुद्ध्यस्व सौभाग्यबलमात्मनः ॥२-९-२६॥
मणिमुक्तं सुवर्णानि रत्नानि विविधानि च ।दद्याद्धशरथो राजा मा स्म तेषु मनः कृथाः ॥२-९-२७॥
यौ तौ दैवासुरे युद्धे वरौ द्शरथोऽददात् ।तौ स्मारय महाभागे सोऽर्थो मात्वामतिक्रमेत् ॥२-९-२८॥
यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः ।व्यवस्थाप्य महाराजं तमिमं वृणुया वरम् ॥२-९-२९॥
रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च ।भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभ ॥२-९-३०॥
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वन्म् ।रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥२-९-३१॥
रामप्रव्राजनं चैव देवि याचस्व तं वरम् ।एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥२-९-३२॥
एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति ।भरतश्च हतामित्रस्तव राजा भविष्यति ॥२-९-३३॥
येन कालेन रामश्च वनात्प्रत्यागमिष्यति ।तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ॥२-९-३४॥
सुगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ।प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा ॥२-९-३५॥
रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय ।अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥२-९-३६॥
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ।सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ।कैकेयी विस्मयं प्राप्ता परं परमदर्शना ॥२-९-३७॥
कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ह्ठभिधायिनीम् ।पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिर्णये ॥२-९-३८॥
त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥२-९-३९॥
नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम् ।सन्ति दुःसंस्थिताः कुब्जा वक्राः परमदारुणाः ॥२-९-४०॥
त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ।उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात्समुन्नतम् ॥२-९-४१॥
अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ।परिपूर्णं तु जघनं सुपीनौ च पयोधरौ ॥२-९-४२॥
विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे ।जघनं तव निर्घुष्टं रशनादामशोभितम् ॥२-९-४३॥
जङघे भ्^इशमुपन्यस्ते पादौ चाप्यायतावुभौ ।त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी ।अग्रतो मम गच्छन्ती राजहंसेव भाससे॥२-९-४४॥
आसन्याः शम्बरे मायाः सहस्रमसुराधिपे ॥२-९-४५॥
सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ।तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् ॥२-९-४६॥
मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ।अत्रते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ॥२-९-४७॥
अभिषिक्ते च भरते राघवे च वनं गते ।जात्येन च सुवर्णेन सुविष्टप्तेन मन्थरे ॥२-९-४८॥
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ।मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥२-९-४९॥
कारयिष्यामि ते कुब्जे शुभान्यभरणानि च।परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥२-९-५०॥
चंद्रमाह्वयमानेन मुखेनाप्रतिमानना।गमिष्यसि गतिं मुख्यांगर्वयन्ती द्विषज्जने ॥२-९-५१॥
तवापि कुब्जायाः सर्वाभरणभूषिताः ।पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥२-९-५२॥
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥२-९-५३॥
गतोदके सेतुबन्दो न कल्याणि विधीयते ।उत्तिष्ठ कुरु कल्याणं राजानमसुदर्शय॥२-९-५४॥
तथा प्रोत्साहिता देवी गता मन्थरया सह ।क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥२-९-५५॥
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना ।अवमुच्य वराराणि शुभान्याभरणानि च ॥२-९-५६॥
ततो हेमोपमा तत्र कुब्जावाक्यवशंगता ।संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥२-९-५७॥
इह वा मां मृतां कुब्जे णृपायावेदयिष्यसि ।वनं तु राघवे प्राप्तेभरतः प्राप्स्यति क्षितिम्॥२-९-५८॥
न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः ।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥२-९-५९॥
अथो पुनस्तां महिषीं महीक्षितो ।वचोभिरत्यर्थ महापराक्रमैः ।उवाच कुब्जा भरतस्य मातरं ।हितं वचो राममुपेत्य चाहितम् ॥२-९-६०॥
प्रपत्स्यते राज्यमिदं हि राघवो ।यदि ध्रुवं त्वं स सुता च तप्स्यसे ।अतो हि कल्याणि यतस्व तत्तथा ।यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥२-९-६१॥
तथातिविद्धा महिषि तु कुब्जया ।समाहता वागिषुभिर्मुहुर्मुहुः ।विधाय हस्तौ हृदयेऽतिविस्मिता ।श्शंस कुब्जां कुपिता पुनः पुनः ॥२-९-६२॥
यमस्य वा मां विषयं गतामितो ।निशाम्य कुब्जे प्रतिवेदयिष्यसि ।वनं गते वा सुचिराय राघवे ।समृद्धकामो भरतो भविष्यति ॥२-९-६३॥
अहं हि वै नास्तरणानि न स्रजो ।न चन्दनं नाञ्जनपानभोजनम् ।न किंचिदिच्छामि न चेह जीवितं ।न चेदितो गच्छति राघवो वनम् ॥२-९-६४॥
अथैतदुक्त्वा वचनं सुदारुणं ।न्धाय सर्वाभरणानि भामिनी ।असंवृतामास्तरणेन मेदिनीं ।तदाधिशिश्ये पतितेव किन्नरी ॥२-९-६५॥
उदीर्णसंरम्भतमोवृतानना ।तदावमुक्तोत्तममूल्यभूषणा ।नरेन्द्रपत्नी विमना बभूव सा ।तमोवृता द्यौरिव मग्नतारका ॥२-९-६६॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 8
- Next: Ayodhyā-Kāṇḍa Sarga 10 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷