🪷 अयोध्याकाण्ड · Sarga 10
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 10 · 41 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
विदर्शिता यदा देवी कुब्जया पापया भृशम् ।तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ॥२-१०-१॥
निश्चित्य मनसा कृत्यम् सा सम्यगिति भामिनी ।मन्थरायै श्नः सर्वमाच्चक्षे विचक्षणा ॥२-१०-२॥
सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता ।नागकन्येव निःस्वस्य दीर्घमुष्णं च भामिनी ॥२-१०-३॥
मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम् ।सा सुहृच्चार्थकामा च तं निशम्य सुनिश्चयम् ॥२-१०-४॥
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा ।अथ सा रुषिता देवी सम्यक्कृत्वा विनिश्चयम् ॥२-१०-५॥
संविवेशाबला भूमौ निवेश्य भृकुटिं मुखे ।ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥२-१०-६॥
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ।तया तान्यपविद्धानि माल्यान्याभरणानि च ॥२-१०-७॥
अशोभयन्त वसुधां नक्षत्राणि यथा नभः ।क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ॥२-१०-८॥
एकवेणीं दृढं बद्ध्वा गतसत्त्वेव किन्नरी ।आज्ञाप्य तु महाराजो राघवस्याभिषेचन्म् ॥२-१०-९॥
उपस्थासमनुज्ञाप्य प्रविवेश निवेशन्म् ।अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ॥२-१०-१०॥
प्रियार्हं प्रियमाख्यातुं विवेशान्तःपुरं वशी ।स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ॥२-१०-११॥
पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः ।शुकबर्हिणसंयुक्तं क्रौञ्चहंसरुतायुतम् ॥२-१०-१२॥
वादित्ररवसंघुष्टं कुब्जावामनिकायुतम् ।लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः ॥२-१०-१३॥
दान्तराजत सौवर्णवेदिकाभिस्समायुतम् ।नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ॥२-१०-१४॥
दान्तराजतसौवर्णैः संवृतं परमासनैः ।विविध्यैरन्नपानैश्छ भक्ष्यैश्चवि विधैरपि ॥२-१०-१५॥
उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम् ।तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥२-१०-१६॥
न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ।स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः ॥२-१०-१७॥
अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च ।न ही तस्य पुरा देवी तां वेLआमत्यवर्तत ॥२-१०-१८॥
न च राजा गृहं शून्यं प्रविवेश कदाचन ।ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥२-१०-१९॥
यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ।प्रतीहारी त्वथोवाच संत्रस्ता तु क्R^ताञ्जलिः ॥२-१०-२०॥
देव देवी भृशं कृद्धा क्रोधागारमभिद्रुता ।प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः ॥२-१०-२१॥
विषसाद पुनर्भुयो लुलितव्याकुलेन्ध्रियः ।तत्रतां पतितां भूमौ शयानामतथोचिताम् ॥२-१०-२२॥
प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः ।स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् ॥२-१०-२३॥
अपापः पापसङ्कल्पां ददर्श धरणीतले ।लतामिव विनिष्कृत्तां पतितां देव तामिव ॥२-१०-२४॥
किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ।मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥२-१०-२५॥
क्रेणुमिव दिग्धेन विद्धां मृगयुना वने ।महागज इन्वारण्ये स्नेहात्परिममर्श ताम् ॥२-१०-२६॥
परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः ।कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥२-१०-२७॥
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।देवि केनाभिशप्तासि केन वासि विमानिता ॥२-१०-२८॥
यदिदं ममम् दुःखाय शेशे क्ल्याणि पांसुषु ।भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ।भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥२-१०-२९॥
सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ।सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥२-१०-३०॥
कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ।कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥२-१०-३१॥
मा रोदीर्मा च कार्षिस्त्वं देवि संपरिशोषणम् ॥२-१०-३२॥
अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् ।दरिद्रः को भवेदाढ्यो द्रव्यवान्वाप्यकिञ्चनः ॥२-१०-३३॥
अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।न ते किम्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥२-१०-३४॥
आत्मनो जीवितेनापि ब्रुहि यन्मनसेच्छसि ।बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥२-१०-३५॥
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।यावदावर्त ते चक्रं तावती मे वसुन्धरा ॥२-१०-३६॥
प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः ।वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः ॥२-१०-३७॥
तत्र जातं बहुद्रव्यं धनधान्य मजाविकम् ।ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥२-१०-३८॥
किमायासेन ते भीरु उत्तिष्टोत्तिष्ट शोभने ।तत्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥२-१०-३९॥
तत्ते व्यपनयिष्यामि नीहरमिव र्श्मिवान् ।तथोक्ता सा समास्वस्ता वक्तुकामा तदप्रियम् ॥२-१०-४०॥
परिपीडयितुं भूयो भर्तारमुपचक्रमे ।
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 9
- Next: Ayodhyā-Kāṇḍa Sarga 11 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷