🪷 अयोध्याकाण्ड · Sarga 11
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 11 · 29 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥२-११-१॥
नास्मि विप्रकृता देव केन चिन्नावमानिता ।अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥२-११-२॥
प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तु मिच्छसि ।अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥२-११-३॥
तामुवाच महातेजाः कैकेयीमीषदुत्स्मैतः ।कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् ॥२-११-४॥
अवलिप्ते न जानासि त्वत्तः प्रियतरो मम ।मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥२-११-५॥
तेनाजय्येन मुख्येन राघवेण महात्मना ।शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥२-११-६॥
यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् ।तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-७॥
आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् ।तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-८॥
भद्रे हृदयमप्येतदन्नुमृश्योद्धरस्व मे ।एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥२-११-९॥
बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ।करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥२-११-१०॥
सा तदर्थमना देवी तमभिप्रायमागतम् ।निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः ॥२-११-११॥
तेन वाक्येन संहृष्टा तमभिप्रायमागतम् ।व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥२-११-१२॥
यथा क्रमेण शपसि वरं मम ददासि च ।तच्छृण्वन्तु त्रयस्त्रींशद्देवाः साग्निपुरोगमाः ॥२-११-१३॥
चन्द्रादित्यौ नभशैव ग्रहा रात्र्यहनी दिशः ।जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा ॥२-११-१४॥
निशाचराणि भूतानि गृहेषु गृहदेवताः ।यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥२-११-१५॥
सत्य्सन्धो महातेजाधर्मज्ञः सुसमाहितः ।वरं मम ददात्येष तन्मे शृण्वन्तु देवताअः ॥२-११-१६॥
इति देवी महेष्वासं परिगृह्यभिशस्य च ।ततः परमुवाचेदं वरदं काममोहितम् ॥२-११-१७॥
स्मर राज्न् पुरा वृत्तं तस्मिन् दैवासुरे रणे ।तत्र चाच्यावयच्छत्रुस्तव जीवतमन्तरा ॥२-११-१८॥
तत्र चापि मया देव यत्त्वं समभिरक्षितः ।जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥२-११-१९॥
तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् ।तथैव पृथिवीपाल सकाशे सत्यसंगर ॥२-११-२०॥
तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् ।अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥२-११-२१॥
वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः ।प्रच्स्कन्द विनाशाय पाशं वृग इवात्मनः ॥२-११-२२॥
ततः परमुवाचेदं वरदं काममोहितम् ।वरौ यौ मे त्वया देव तदा दत्तौ महीपते ॥२-११-२३॥
तौ तावदहम्द्यैव वक्ष्यामि शृणु मे वचः ।अभिषेकसमारम्भओ राघवस्योपकल्पितः ॥२-११-२४॥
अनेनैवाभिषे केण भरतो मेऽभिषिच्यताम् ।यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥२-११-२५॥
तदा दैवासुरे युद्धे तस्य कालोऽय मागतः ।नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥२-११-२६॥
चीराजिनजटाधारी रामो भवतु तापसः ।भरतो भजतामद्य यौवराज्यमकण्टकम् ॥२-११-२७॥
एष मे परमः कामो दत्तमेव वरं वृणे ।अद्यचैव हि पश्येयं प्रयान्तं राघवं वन्म् ॥२-११-२८॥
स राजराजो भव स्त्यसंगरः ।कुलं च शीलं च हि रक्ष जन्म च ।परत्र वासे हि वद्न्त्यनुत्तमं ।तपोधनाः सत्यवचो हितं नृणाम् ॥२-११-२९॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 10
- Next: Ayodhyā-Kāṇḍa Sarga 12 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷