🪷 अयोध्याकाण्ड · Sarga 12

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 12 · 114 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.12.1
ततः श्रुत्वा महाराजः कैकेय्या दारुणम् वचः ।चिन्तामभिसमापेदे मुहूर्तम् प्रतताप च ॥२-१२-१॥
Vālmīki 2.12.2
किम् नु मे यदि वा स्वप्नश्चित्तमोहोओऽपि वामम ।अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ॥२-१२-२॥
Vālmīki 2.12.3
इति सम्चिन्त्य तद्राजा नाध्यगच्छ त्तदा सुखम् ।प्रतिलभ्य चिरात्सम्ज्ञाम् कैकेयीवाक्यताडितः ॥२-१२-३॥
Vālmīki 2.12.4
व्यथितो विक्लबशचैव व्याघ्रीम् दृष्ट्वा यथा मृगः ।असम्वृतायामासीनो जगत्याम् दीर्घमुच्छ्वसन् ॥२-१२-४॥
Vālmīki 2.12.5
मण्ड्ले पन्नगो रुद्धो मन्त्रैरिव महाविषः ।अहोधिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥२-१२-५॥
Vālmīki 2.12.6
मोहमापेदिवान्भूयः शोकोपहतचेतनः ।चिरेण तु नृपः सम्ज्ञाम् प्रतिलभ्य सुदुःखितः ॥२-१२-६॥
Vālmīki 2.12.7
कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा ।नृशम्से दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥२-१२-७॥
Vālmīki 2.12.8
किम् कृतम् तव रामेण पापं पापे मयापि वा ।त्वं ममात्मविनाशार्थम् भवनम् स्वं प्रवेशिता ॥२-१२-८॥
Vālmīki 2.12.9
अविज्ञानान्नृपसुता व्याLई तीक्ष्णविषा यथा ।जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-९॥
Vālmīki 2.12.10
अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-१०॥
Vālmīki 2.12.11
अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।कौसल्याम् वा सुमित्राम् वा त्यजेयमपि वा श्रियम् ॥२-१२-११॥
Vālmīki 2.12.12
जीवितम् वात्मनो रामम् न त्वेव पितृवत्सलम् ।परा भवति मे प्रीतिर्धृष्ट्वा तनयमग्रजम् ॥२-१२-१२॥
Vālmīki 2.12.13
अपश्यतस्तु मे रामम् नष्टा भवति चेतना ।तिष्ठेल्लोको विना सूर्यम् सस्यम् वा सलिलम् विना ॥२-१२-१३॥
Vālmīki 2.12.14
न तु रामम् विना देहे तिष्ठेत्तु मम जीवितम् ।तदलम् त्यज्यतामेष निश्चयः पापनिश्चये ॥२-१२-१४॥
Vālmīki 2.12.15
अपिते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ।किमिदम् चिन्तितम् पापे त्वया परमदारुणम् ॥२-१२-१५॥
Vālmīki 2.12.16
अथ जीज्ञाससे माम् त्वम् भरतस्य प्रियाप्रिये ।अस्तुयत्तत्त्वयाअपूर्वम् व्याहृतम्राघवम्प्रति ॥२-१२-१६॥
Vālmīki 2.12.17
स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे ।तत्त्वया प्रियवादिन्या सेवार्थम् कथितम् भवेत् ॥२-१२-१७॥
Vālmīki 2.12.18
तच्छ्रुत्वा शोकसम्तप्ता सम्तापयसि माम् भृशम् ।आविष्टासि गृहम् शून्यम् सा त्वम् परवशम् गता ॥२-१२-१८॥
Vālmīki 2.12.19
इक्ष्वाकूणाम् कुले देवि सम्प्राप्तः सुमहानयम् ।अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥२-१२-१९॥
Vālmīki 2.12.20
न हि किम्चिदयुक्तम् वा विप्रियम् वा पुरा मम ।अकरोस्त्वम् विशालाक्षि तेन न श्रद्दधाम्यहम् ॥२-१२-२०॥
Vālmīki 2.12.21
ननु ते राघवस्तुल्यो भरतेन महात्मना ।बहुशो हि स्म बाले त्वम् कथयसे मम ॥२-१२-२१॥
Vālmīki 2.12.22
तस्य धर्मात्मनो देवि वनवासम् यशस्विनः ।कथम् रोचयसे भीरु नव वर्षाणि पञ्च च ॥२-१२-२२॥
Vālmīki 2.12.23
अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः ।कथम् रोचयसे वासमरण्ये भृशदारुणे ॥२-१२-२३॥
Vālmīki 2.12.24
रोचयस्यभिरामस्य रामस्य शुभलोचने ।तवशुश्रूषमाणस्य किम्मर्थम् विप्रवासनम् ॥२-१२-२४॥
Vālmīki 2.12.25
रामो हि भरताद्भूयस्तव शुश्रूष्ते सदा ।विशेषम् त्वयि तस्मात्तु भरतस्य न लक्षये ॥२-१२-२५॥
Vālmīki 2.12.26
शुश्रूषाम् गौरवम् चैव प्रमाणम् वचनक्रियाम् ।कस्ते भूयस्तरम् कुर्यादन्यत्र मनुजर्षभात् ॥२-१२-२६॥
Vālmīki 2.12.27
बहूनाम् स्त्रीसहस्राणाम् बहूनाम् चोपजीविनाम् ।परिवादोऽपवादो वा राघवे नोपपद्यते ॥२-१२-२७॥
Vālmīki 2.12.28
सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा ।गृह्णाति मनुजव्याग्रः प्रियैर्विषयवासिनः ॥२-१२-२८॥
Vālmīki 2.12.29
सत्येन लोकान् जयति दीनान् दानेन राघवः ।गुरून् शुश्रूषया वीरो धनुशा युधि शात्रवान् ॥२-१२-२९॥
Vālmīki 2.12.30
सत्यम् दानम् तपस्त्यगो वित्रता शौचमार्जवम् ।विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥२-१२-३०॥
Vālmīki 2.12.31
तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् ।पापमाशम्ससे रामे महर्षिसमतेजसि ॥२-१२-३१॥
Vālmīki 2.12.32
न स्मराम्यप्रियम् वाक्यम् लोकस्य प्रियवादिनः ।स कथम् त्वत्कृते रामम् वक्ष्यामि प्रियमप्रियम् ॥२-१२-३२॥
Vālmīki 2.12.33
क्षमा यस्मिन् दमस्त्यागः सत्यम् धर्मः कृतज्ञता ।अप्यहिम्सा च भूतानाम् तमृते का गतिर्मम ॥२-१२-३३॥
Vālmīki 2.12.34
मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः ।दीनम् लालप्यमानस्य कारुण्यम् कर्तुमर्हसि ॥२-१२-३४॥
Vālmīki 2.12.35
पृथिव्याम् सागरान्तायाम् यत्किञ्चैदधिगम्यते ।तत्सर्वम् तव दास्यामि मा च त्वाम् मन्युराविशेत् ॥२-१२-३५॥
Vālmīki 2.12.36
अञ्जलिम् कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।शरणम् भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥२-१२-३६॥
Vālmīki 2.12.37
इति दुःखाभिसन्तप्तम् विलपन्तमचेतनम् ।घूर्णमानम् महाराजम् शोकेन समभिप्लुतम् ॥२-१२-३७॥
Vālmīki 2.12.38
पारम् शोकार्णवस्याशु प्रार्थयन्तम् पुनः पुनः ।प्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरम् वचः ॥२-१२-३८॥
Vālmīki 2.12.39
यदि दत्वा वरौ राजन् पुनः प्रत्यनुतप्यसे ।धार्मिकत्वम् कथम् वीर पृथिव्याम् कथयिष्यसि ॥२-१२-३९॥
Vālmīki 2.12.40
यदा समेता बहवस्त्वया राजर्षयस्सह ।कथयिष्यन्ति धर्मज्ञ तत्र किम् प्रतिवक्ष्यसि ॥२-१२-४०॥
Vālmīki 2.12.41
यस्याः प्रसादे जीवामि या च मामभ्यपालयत् ।तस्याः कृतम् मया मिथ्या कैकेय्या इति वक्ष्यसि ॥२-१२-४१॥
Vālmīki 2.12.42
किल्बिषम् नरेन्ध्राणाम् करिष्यसि नराधिप ।यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥२-१२-४२॥
Vālmīki 2.12.43
शैब्यः श्येनकपोतीये स्वमाम्सं पक्षिते ददौ ।अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम् ॥२-१२-४३॥
Vālmīki 2.12.44
सागरः समयम् कृत्वान वेलामतिवर्तते ।समयम् माऽनृतम् कार्षीः पुर्ववृत्तमनुस्मरन् ॥२-१२-४४॥
Vālmīki 2.12.45
स त्वम् धर्मम् परित्यज्य रामम् राज्येऽभिषिच्यच ।सह कौलस्यया नित्यम् रन्तुमिच्छसि दुर्मते ॥२-१२-४५॥
Vālmīki 2.12.46
भवत्वधर्मो धर्मो वा सत्यम् वा यदि वानृतम् ।यत्त्वया सम्श्रुतम् मह्यम् तस्य नास्ति व्यतिक्रमः ॥२-१२-४६॥
Vālmīki 2.12.47
अहम् हि विषमद्यैव पीत्वा बहु तवाग्रतः ।पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥२-१२-४७॥
Vālmīki 2.12.48
एकाहमपि पश्येयम् यद्यहम् राममातरम् ।अञ्जलिम् प्रतिगृह्णन्तीम् श्रेयो ननु मृतिर्मम ॥२-१२-४८॥
Vālmīki 2.12.49
भरतेनात्मना चाहम् शपे ते मनुजाधिप ।यथा नान्येन तुष्येयमृते रामविवासनात् ॥२-१२-४९॥
Vālmīki 2.12.50
एतावदुक्त्वा वचनम् कैकेयी विरराम ह ।विलपन्तम् च राजानम् न प्रतिव्याजहार सा ॥२-१२-५०॥
Vālmīki 2.12.51
श्रुत्वा तु राजा कैकेय्या वृतम् परमशोभनम् ।रामस्य च वने वासमैश्वर्यम् भरतस्य च ॥२-१२-५१॥
Vālmīki 2.12.52
नाभ्यभाषत कैकेय्यिम् मुहूर्तम् व्याकुलेन्द्रियः ।प्रैक्षतानिमिषो देवीम् प्रियामप्रियवादिनीम् ॥२-१२-५२॥
Vālmīki 2.12.53
ताम् हि वज्रसमाम् वाचमाकर्ण्य हृदया प्रियाम् ।दुःखशोकमयीम् घोराम् राजा न सुखितोऽभवत् ॥२-१२-५३॥
Vālmīki 2.12.54
स देव्या व्यवसायम् च घोरम् च शपथम् कृतम् ।ध्यात्वा रामेति निश्श्वस्य छिन्नस्तरुरिवापतत् ॥२-१२-५४॥
Vālmīki 2.12.55
नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः ।हृततेजा यथा सर्पो बभूव जगतीपतिः ॥२-१२-५५॥
Vālmīki 2.12.56
दीनया तु गिरा राजा इति होवाच कैकयिम् ।अनर्थमिममर्थाभम् केन त्वमुपदर्शिता ॥२-१२-५६॥
Vālmīki 2.12.57
भूतोपहतचित्तेव ब्रुवन्ती माम् न लज्जसे ।शीलव्यसनमेतत्ते नाभिजानाम्यहम् पुरा ।ब३लायास्तत्त्विदानीम् ते लक्षये विपरीतवत् ॥२-१२-५७॥
Vālmīki 2.12.58
कुतो वा ते भयम् जातम् या त्वमेवम्विदम् वरम् ।राष्ट्रे भरतमासीनम् वृणीषे राघवम् वने ॥२-१२-५८॥
Vālmīki 2.12.59
विरमैतेन भावेन त्वमेतेनानृतेन वा ॥२-१२-५९॥
Vālmīki 2.12.60
यदि भर्तुः प्रियम् कार्यम् लोकस्य भरतस्य च ।वृशम्से पापसम्कल्पे क्षुद्रे दुष्कृतकारिणि ॥२-१२-६०॥
Vālmīki 2.12.61
किम् नु कुःखमLईकम् वा मयि रामे च पश्यसि ।न कथम्चि दृते रामाद्भरतो राज्यमावसेत् ॥२-१२-६१॥
Vālmīki 2.12.62
रामादपि हि तम् मन्ये धर्मतो बलवत्तरम् ।कथम् द्रक्ष्यामि रामस्य वनम् गच्छेति भाषिते ॥२-१२-६२॥
Vālmīki 2.12.63
मुखवर्णम् विवर्णम् तम् यथैवेन्दुमुपप्लुतम् ।ताम् हि मे सुकृताम् बुद्धिम् सुहृद्भिः सह निश्चिताम् ॥२-१२-६३॥
Vālmīki 2.12.64
कथम् द्रक्ष्याम्यपावृत्ताम् परैरिव हताम् चमूम् ।किम् माम् वक्ष्यन्ति राजानो नानादिग्भ्यः समागताह् ॥२-१२-६४॥
Vālmīki 2.12.65
बालो बताय मैक्ष्वाकश्चिरम् राज्यमकारयत् ।यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताह् ॥२-१२-६५॥
Vālmīki 2.12.66
परिप्रक्ष्यन्ति काकुत्थ्सम् वक्ष्यामि किम्महाम् तदा ।कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया ॥२-१२-६६॥
Vālmīki 2.12.67
यदि सत्यम् ब्रवीम्येतत्तदसत्यम् भविष्यति ।किम् माम् वक्ष्यति कौसल्या राघवे वनमास्थिते ॥२-१२-६७॥
Vālmīki 2.12.68
किम् चैनाम् प्रतिवक्ष्यामि कृत्वा चाप्रियमीदृशम् ।यदा यदा ही कौसल्या दासीवच्च सखीव च ॥२-१२-६८॥
Vālmīki 2.12.69
भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।सततम् प्रियकामा मे प्रियपुत्रा प्रियम्वदा ॥२-१२-६९॥
Vālmīki 2.12.70
न मया सत्कृता देवि सत्कारार्हा कृते तव ।इदानीम् तत्तपति माम् यन्मया सुकृतम् त्वयि ॥२-१२-७०॥
Vālmīki 2.12.71
अवथ्यव्यञ्जनोनोपेतम् भुक्तमन्नमिवातुरम् ।विप्रकारम् च रामस्य सम्प्रयाणम् वनस्य च ॥२-१२-७१॥
Vālmīki 2.12.72
सुमित्रा प्रेक्ष्यवै भीता कथम् मे विश्वसिष्यति ।कृपणम् बत वैदेही श्रोष्यति द्वयमप्रियम् ॥२-१२-७२॥
Vālmīki 2.12.73
माम् च पञ्चत्वमापन्नम् रामम् च वनमाश्रितम् ।वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ॥२-१२-७३॥
Vālmīki 2.12.74
हीना हिमवतः पार्श्वए किन्नरेणेन किन्नरा ।न हि राममहम् दृष्ट्व प्रवसन्तम् महावने ॥२-१२-७४॥
Vālmīki 2.12.75
चिरम् जीवितुमाशम्से रुदतीम् चापि मैथिलीम् ।सा नूनम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-७५॥
Vālmīki 2.12.76
न हि प्रवाजिते रामे देवि जीवितुमुत्सहे ।सतीम् त्वामहमत्यन्तम् व्यवस्याम्यसतीम् सतीम् ॥२-१२-७६॥
Vālmīki 2.12.77
रूपिणीम् विषसम्युक्ताम् पीत्वेव मदिराम् नरह् ।अनृतैर्बहु माम् सान्वैःसा न्त्वयन्ती स्म स्मभाषसे ॥२-१२-७७॥
Vālmīki 2.12.78
गीतशब्देन सम्रुध्य लुब्धो मृगमिवावधीः ।अनार्य इति मामार्याः पुत्रविक्रायिकम् ध्रुवम् ॥२-१२-७८॥
Vālmīki 2.12.79
धिक्करिष्यन्ति रथ्यासु सुरापम् ब्राह्मणम् यथा ।अहो दुःखमहो कृच्छ्रम् यत्र वाचः क्षमे तव ॥२-१२-७९॥
Vālmīki 2.12.80
दुःखमेवम्विधम् प्राप्तम् पुराकृतमिवाशुभम् ।चिरम् खलु मया पापे त्वम् पापेनाभिरक्षिता ॥२-१२-८०॥
Vālmīki 2.12.81
अज्ञानादुपसम्पन्ना रज्जुरुद्बम्धिनी यथा ।रममाणस्त्वया सार्धम् मृत्युम् त्वा नाभिलक्षये ॥२-१२-८१॥
Vālmīki 2.12.82
बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ।मया ह्यपितृकः पुत्रःस महात्मा दुरात्मना ॥२-१२-८२॥
Vālmīki 2.12.83
यः स्त्रीकृते प्रियम् पुत्रम् वनम् प्रस्थापयिष्यति ।व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चपकर्शितः ॥२-१२-८३॥
Vālmīki 2.12.84
भोगकाले महत्कृच्छ्रम् पुनरेव प्रपत्स्यते ।नालम् द्वितीयम् वचनम् पुत्रो माम् प्रति भाषितुम् ॥२-१२-८४॥
Vālmīki 2.12.85
स वनम् प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ।यदि मे राघवः कुर्याद्वनम् गच्चेति चोदितः ॥२-१२-८५॥
Vālmīki 2.12.86
प्रतिकूलम् प्रियम् मे स्यान्न तु वत्सः करिष्यति ।शुद्धिभावो हि भावम् मे न तु ज्ञास्यति राघवः ॥२-१२-८६॥
Vālmīki 2.12.87
स वनम् प्रव्रजे त्युक्तोबाढ वित्येव वक्ष्यति ।राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८७॥
Vālmīki 2.12.88
मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८८॥
Vālmīki 2.12.89
मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।मृते मयि गते रामे वनम् मनुजपुङ्गवे ॥२-१२-८९॥
Vālmīki 2.12.90
इष्टे मम जने शेषे किम् पापम् प्रतिवत्स्यसे ।कौसल्या माम् च रामम् च पुत्रौ च यदि हास्यति ॥२-१२-९०॥
Vālmīki 2.12.91
दुःखान्यसहती देवी मामेवानुमरिष्यति ।कौसल्याम् च सुमित्राम् च माम् च पुत्रैस्त्रिभिः सह ॥२-१२-९१॥
Vālmīki 2.12.92
प्रक्षिव्य नरके सा त्वम् कैकेयि सुखिता भव ।मया रामेण च त्यक्तम् शाश्वतम् सत्कृतम् गुणैः ॥२-१२-९२॥
Vālmīki 2.12.93
इक्ष्वाकुकुलमक्षोभ्यमाकुलम् पालयिष्यसि ।प्रियम् चेद्भरतस्यैतद्रामप्रव्राजनम् भवेत् ॥२-१२-९३॥
Vālmīki 2.12.94
मा स्म मे भरतः कार्षीत् प्रेतकृत्यम् गतायुषः ।हन्तानार्ये ममामित्रे सकामा भव कैकयि ॥२-१२-९४॥
Vālmīki 2.12.95
मृते मयि गते रामे वनम् पुरुषपुङ्गवे ।सेदानीम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-९५॥
Vālmīki 2.12.96
त्वम् राजपुत्रीवादेन न्यवसो मम वेश्मनि ।अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥२-१२-९६॥
Vālmīki 2.12.97
सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ।कथम् रथैर्विभुर्गत्वा गजाश्वैएश्च मुहूर्महुः ॥२-१२-९७॥
Vālmīki 2.12.98
पद्भ्याम् रामो महारण्ये वत्सो मे विचरिष्यति ।यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ॥२-१२-९८॥
Vālmīki 2.12.99
अहम्पुर्वाः पचन्ति स्म प्रशस्तम् पानभोजनम् ।स कथन्नु कषायाणि तिक्तानि कटुकानि च ॥२-१२-९९॥
Vālmīki 2.12.100
भक्षयन्वन्यमाहारम् सुतो मे वर्तयिष्यति ।महार्हवस्त्रसम्वीतो भूत्वा चिरसुखोषितः ॥२-१२-१००॥
Vālmīki 2.12.101
काशायपरिधानस्तु कथम् भूमौ निवत्स्यति ।कस्यैतद्धारुणम् वाक्यमेवम् विधमचिन्तितम् ॥२-१२-१०१॥
Vālmīki 2.12.102
रामस्यारण्यगवनम् भरतस्यैव मातरम् ।धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा ॥२-१२-१०२॥
Vālmīki 2.12.103
न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ।अनर्थभावेऽ र्थपरे नृशम्से ।ममानुतापाय निविष्टभावे ।किमप्रियम् पश्यसि मन्निमित्तम् ।हितानुकारिण्यथवापि रामे ॥२-१२-१०३॥
Vālmīki 2.12.104
परित्यजेयुः पितरो हि पुत्रान् ।भार्याः वतीम्श्चापि कृतानुरागाः ।कृत्स्नम् हि सर्वम् कुपितम् जगत्स्या ।द्दृष्ट्वे रानन् व्तसबे बुनग्बन् ॥२-१२-१०४॥
Vālmīki 2.12.105
अहम् पुनर्देवकुमाररूप ।मलकृतम् तम् सुतमाव्रजन्तम् ।नन्दामि पश्यन्नपि दर्शनेन ।भवामि दृष्ट्वा च पुनर्युवेव ॥२-१२-१०५॥
Vālmīki 2.12.106
विनापि सूर्येण भवेत्प्रवृत्ति ।रवर्ष्ता वज्रधरेण वापि ।रामम् तु गच्छन्तमितः समीक्ष्य ।जीवेन्न कश्चित्त्विति चेतना मे ॥२-१२-१०६॥
Vālmīki 2.12.107
विनाशकामामहिताममित्रा ।मावासयम् मृत्युमिवात्मनस्त्वम् ।चिरम् बताङ्केन धृतासि सर्पी ।महाविष तेन हतोऽस्मि मोहात् ॥२-१२-१०७॥
Vālmīki 2.12.108
मया च रामेण सलक्ष्मणेन ।प्रशास्तु हीनो भरतस्त्वया सह ।पुरम् च राष्ट्रम् च निहत्य बान्धवान् ।ममाहितानाम् च भवाभिहर्षिणी ॥२-१२-१०८॥
Vālmīki 2.12.109
नृशम्सवृत्ते व्यसनप्रहारिणि ।प्रसह्य वाक्यम् यदिहाद्य भाषसे ।न नाम ते केन मुखात्पतन्त्यधो ।विशीर्यमाणा दशना स्सहस्रधा ॥२-१२-१०९॥
Vālmīki 2.12.110
न किम्चिदाहाहितमप्रियम् वचो ।न वेत्ति रामः परुशाणि Bहाषितुम् ।कथन्नु रामे ह्यभिरामवादिनि ।ब्रवीषि दोषान् गुणनित्यसम्मते ॥२-१२-११०॥
Vālmīki 2.12.111
प्रताम्य वा प्रज्वल वा प्रणश्य वा ।सहस्रशो वा स्फुटिता महीम् व्रज ।न ते करिष्यमि वचः सुदारुणम् ।ममाहितम् केकयराजपाम्सनि ॥२-१२-१११॥
Vālmīki 2.12.112
क्षुरोपमाम् नित्यमसत्प्रियम्वदाम् ।प्रदुष्टभावाम् स्वकुलोपघातिनीम् ।न जीवितुम् त्वाम् विषहेऽमनोरमाम् ।दिधक्षमाणाम् हृदयम् सबन्धनम् ॥२-१२-११२॥
Vālmīki 2.12.113
न जीवितम् मेऽस्ति पुनः कुतः सुखम् ।विनात्मजेनात्मवतः कुतो रतिः ।ममाहितम् देवि न क् कर्तुमर्हसि ।स्पृशामि पादावपि ते प्रसीद मे ॥२-१२-११३॥
Vālmīki 2.12.114
स भूमिपलो विलपन्ननाथवत् ।स्त्रीया गृहीतो हृदयेऽतिमात्रया ।पपात देव्याश्चरणौ प्रसारिता ।पुभावसम्प्राप्य यथातुरस्तथा ॥२-१२-११४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷