🪷 अयोध्याकाण्ड · Sarga 13

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 13 · 26 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.13.1
अतत् अर्हम् महा राजम् शयानम् अतथा उचितम् ।ययातिम् इव पुण्य अन्ते देव लोकात् परिच्युतम् ॥२-१३-१॥
Vālmīki 2.13.2
अनर्थ रूपा सिद्ध अर्थाअभीता भय दर्शिनी ।पुनर् आकारयाम् आस तम् एव वरम् अन्गना ॥२-१३-२॥
Vālmīki 2.13.3
त्वम् कत्थसे महा राज सत्य वादी द्Rढ व्रतः ।मम च इमम् वरम् कस्मात् विधारयितुम् इच्चसि ॥२-१३-३॥
Vālmīki 2.13.4
एवम् उक्तः तु कैकेय्या राजा दश रथः तदा ।प्रत्युवाच ततः क्रुद्धो मुहूर्तम् विह्वलन्न् इव ॥२-१३-४॥
Vālmīki 2.13.5
म्Rते मयि गते रामे वनम् मनुज पुम्गवे ।हन्त अनार्ये मम अमित्रे रामः प्रव्राजितः वनम् ॥२-१३-५॥
Vālmīki 2.13.6
स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरह्म् ।प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥२-१३-६॥
Vālmīki 2.13.7
कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया ।यदि सत्यम् ब्रवीम्य् एतत् तत् असत्यम् भविष्यति ॥२-१३-७॥
Vālmīki 2.13.8
अपुत्रेण मया पुत्रः श्रमेण महता महान् ।रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥२-१३-८॥
Vālmīki 2.13.9
शूर्श्च कृतविद्यश्च जितक्रोधः क्षमापरः ।कथं कमलपत्राक्षो मया रामो विवास्यते ॥२-१३-९॥
Vālmīki 2.13.10
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् ।अभिराममहं रामम् प्रेषयिष्यामि दण्डकान् ॥२-१३-१०॥
Vālmīki 2.13.11
सुखानामुचितस्यैव दुःखैरनुचितस्य च ।दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥२-१३-११॥
Vālmīki 2.13.12
यदि दुःखमकृत्वाद्य मम संक्रमणं भवेत् ।अदुःखार्हस्य रामस्य ततः सुखमवाप्नु याम् ॥२-१३-१२॥
Vālmīki 2.13.13
नृशंसे पापसंकल्पे रामं स्त्यपराक्रमम् ।किम् विप्रियेण कैकेयि प्रियं योजयसे मम ॥२-१३-१३॥
Vālmīki 2.13.14
अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ।तथा विलपतः तस्य परिभ्रमित चेतसः ॥२-१३-१४॥
Vālmīki 2.13.15
अस्तम् अभ्यगमत् सूर्यो रजनी च अभ्यवर्तत ।सा त्रि यामा तथा आर्तस्य चन्द्र मण्डल मण्डिता ॥२-१३-१५॥
Vālmīki 2.13.16
राज्ञो विलपमानस्य न व्यभासत शर्वरी ।तथैव उष्णम् विनिह्श्वस्य व्Rद्धो दशरथो न्Rपः ॥२-१३-१६॥
Vālmīki 2.13.17
विललाप आर्तवद् दुह्खम् गगन आसक्त लोचनः ।न प्रभातम् त्वया इच्चामि मया अयम् रचितः अन्जलिः ॥२-१३-१७॥
Vālmīki 2.13.18
अथवा गम्यताम् शीघ्रम् न अहम् इच्चामि निर्घ्Rणाम् ।अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥२-१३-१८॥
Vālmīki 2.13.19
न्Rशम्साम् कैकेयीम् द्रष्टुम् यत् क्Rते व्यसनम् महत् ।एवम् उक्त्वा ततः राजा कैकेयीम् सम्यत अन्जलिः ॥२-१३-१९॥
Vālmīki 2.13.20
प्रसादयाम् आस पुनः कैकेयीम् च इदम् अब्रवीत् ।साधु व्Rत्तस्य दीनस्य त्वद् गतस्य गत आयुषः ॥२-१३-२०॥
Vālmīki 2.13.21
प्रसादः क्रियताम् देवि भद्रे राज्ञो विशेषतः ।शून्येन खलु सुश्रोणि मया इदम् समुदाह्Rतम् ॥२-१३-२१॥
Vālmīki 2.13.22
कुरु साधु प्रसादम् मे बाले सह्Rदया हि असि ।प्रसीद देवि रामो मे त्वद्धत्तं राज्यमव्ययम् ॥२-१३-२२॥
Vālmīki 2.13.23
लभतामसितापाङ्गे यशः परमवाप्नुहि ।मम रामस्य लोकस्य गुरूणां भरतस्य च ॥२-१३-२३॥
Vālmīki 2.13.24
प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ।विशुद्ध भावस्य सु दुष्ट भावा ।दीनस्य ताम्राश्रुकलस्य राज्ञः ।श्रुत्वा विचित्रम् करुणम् विलापम् ।भर्तुर् न्Rशम्सा न चकार वाक्यम् ॥२-१३-२४॥
Vālmīki 2.13.25
ततः स राजा पुनर् एव मूर्चितः ।प्रियाम् अतुष्टाम् प्रतिकूल भाषिणीम् ।समीक्ष्य पुत्रस्य विवासनम् प्रति ।क्षितौ विसम्ज्ञो निपपात दुह्खितः ॥२-१३-२५॥
Vālmīki 2.13.26
इतीव राज्ञो व्य्थितस्य सा निशा ।जगाम घोरं स्वसतो मनस्विनः ।विबोध्यमानः प्रतिबोधनं तदा ।निवारयामास स राजसत्तमः ॥२-१३-२६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷